॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
वर्षमात्रव्रतेनैव गतं पापं लयं महत् ।
द्वादशब्रह्महत्याख्यं ततो राजा बभौ विधे ॥ १ ॥
व्रतपुण्यप्रभावेण ससत्त्वाऽभून्नृपाङ्गना ।
सुषुवे शुभवेलायां पुत्रं तेजस्विनां वरम् ॥ २ ॥
हस्तपादविहीनं तं दृष्ट्वा माता रुरोद ह ।
कृतवीर्यस्तथा सर्वैः प्रधानैः बोधितोऽभवत् ॥ ३ ॥
त्यक्त्वा शोकं स्वयं राजा जातकर्म चकार वै ।
महोत्सवयुतैः सर्वैर्नगरे संस्थितोऽभवत् ॥ ४ ॥
रात्रौ स्वप्ने ददर्शाऽसौ दत्तात्रेयं च योगिनम् ।
तेन यत् कथितं स्वप्ने तच्छृणुष्व प्रजापते ॥ ५ ॥
गते द्वादशवर्षे तु त्वत्पुत्रस्य नृपोत्तम ।
आगमिष्यामि ते गेहं साङ्गं पुत्रं करोम्यहम् ॥ ६ ॥
मा चिन्तां कुरु राजेन्द्र गणनाथप्रसादजः ।
पुत्रोऽयं ते सुतेजस्वी देवमान्यो भविष्यति ॥ ७ ॥
ततः सोऽन्तर्दधे योगी दत्तात्रेयस्तथा नृपः ।
प्रबुद्धो हर्षयुक्तः स बभूव गणपं स्मरन् ॥ ८ ॥
ततस्तेन पृथिव्यां तु घोषः सर्वत्र कारितः ।
चतुर्थ्यां कृष्णपक्षस्य व्रतं कार्यं जनैः सदा ॥ ९ ॥
येन व्रतमिदं नैव कृतं चेत्तं निहन्म्यहम् ।
चाण्डालादिद्विजान्तास्ते व्रतं चक्रुर्विशेषतः ॥ १० ॥
अष्टवर्षसमायुक्ता नरा नार्यः स्म मानद ।
अकुर्वन् विधिवत् सर्वे व्रतं गाणेश्वरं महत् ॥ ११ ॥
तस्य राज्ये नरः कोऽपि दुःखयुक्तो बभूव न ।
न वन्ध्यादि भयं तद्वद्रोगादिकभयं नहि ॥ १२ ॥
ततो द्वादशवर्षेषु गतेषु स जगाम ह ।
दत्तो योगीन्द्रसेव्यश्च तं ननाम नराधिपः ॥ १३ ॥
पूजितो भोजितस्तेन वचो दत्तस्तमब्रवीत् ।
पुत्रं दर्शय ते राजन्नद्भुतं द्रष्टुमागतः ॥ १४ ॥
[[७५]]
ततः स हर्षितो राजा ददौ पुत्रं च तत्करे ।
अङ्के सङ्गृह्य योगीन्द्रो राजानं प्रत्युवाच ह ॥ १५ ॥
राजन् व्रतं त्वया तत्राङ्गहीनत्वमजानता ।
कृतं तु तेन ते पुत्रोऽङ्गहीनः प्रबभूव ह ॥ १६ ॥
व्रतस्य जागरे राजन् जृम्भितं च पुनः पुनः ।
त्वया नाचमनं तत्र कृतं तेनायमीदृशः ॥ १७ ॥
व्रतस्याऽयं प्रभावेण विष्णुः साक्षान्नराकृतिः ।
पुत्रोऽभवत्तदंशेन विख्यातः प्रभविष्यति ॥ १८ ॥
तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः ।
विधियुक्तं गणेशस्य कार्तवीर्याय धीमते ॥ १९ ॥
अनुष्ठानं समादिश्य द्वादशाब्दमयं प्रभुः ।
अन्तर्धानं चकाराऽसौ राजा संहर्षितोऽभवत् ॥ २० ॥
प्रवालक्षेत्रसान्निध्ये वने व्याघ्रादिसंयुते ।
राजा बभूव संस्थाप्य जनैः पुत्रं च दुःखितः ॥ २१ ॥
ततश्च कार्तवीर्येण तपस्तप्तं सुदारुणम् ।
वायुमात्राशनेनैव ध्यात्वा हृदि गजाननम् ॥ २२ ॥
मन्त्रं जजाप भो दक्ष हस्तपादविवर्जितः ।
देहभावमतिक्रम्य संस्थितः काष्ठवद्बभौ ॥ २३ ॥
तपःप्रभावतस्तस्य वने निर्वैरभावतः ।
प्राणिनः सञ्चरन्ति स्म गजसिंहादयः सदा ॥ २४ ॥
एवं द्वादशवर्षाणि गतानि तपसो यदा ।
तदा तत्राऽऽययौ ढुण्ढिर्भक्तं परमभाविकम् ॥ २५ ॥
तडागमध्यभागात्तं निःसृतं गणपं नृपः ।
दृष्ट्वा ननाम विघ्नेशं पूजयन् भक्तिसंयुतः ॥ २६ ॥
हर्षेण महता युक्तस्तं तुष्टाव गजाननम् ।
सरोमाञ्चो महावीरः कार्तवीर्यो महायशाः ॥ २७ ॥
कार्तवीर्य उवाच ।
नमस्ते गणनाथाय विघ्नेशाय नमो नमः ।
विनायकाय देवेश सर्वेषां पतये नमः ॥ २८ ॥
निर्गुणाय परेशाय परात्परतराय वै ।
अनादये च सर्वादिपूज्याय तु नमो नमः ॥ २९ ॥
सर्वपूज्याय हेरम्ब दीनपालाय ते नमः ।
ब्रह्मणे ब्रह्मणां चैव ब्रह्मदात्रे नमो नमः ॥ ३० ॥
निराकाराय साकाररूपाय परमात्मने ।
योगाय योगदात्रे ते शान्तिरूपाय वै नमः ॥ ३१ ॥
सदा ज्ञानघनायैव कर्ममार्गप्रवर्तिने ।
आनन्दाय सदानन्दकन्दरूपाय ते नमः ॥ ३२ ॥
रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय च ।
तामसेन प्रसंहर्त्रे गुणेशाय नमो नमः ॥ ३३ ॥
नानामायाधरायैव नानामायाविवर्जित ।
मायिभ्यो मोहदात्रे वै मायामायिक ते नमः ॥ ३४ ॥
स्वानन्दपतये तुभ्यं सिद्धिबुद्धिवराय च ।
सिद्धिबुद्धिप्रदात्रे च लम्बोदर नमोऽस्तु ते ॥ ३५ ॥
किं स्तौमि गणनाथ त्वां यत्र वेदा विसिस्मिरे ।
शिवविष्ण्वादयश्चैव योगिनो योगरूपिणम् ॥ ३६ ॥
जगाद गणनाथस्तु ततस्तं भक्तमुत्तमम् ।
वरं वृणु महाभाग कार्तवीर्य हृदीप्सितम् ॥ ३७ ॥
त्वया कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् ।
अङ्गहीनस्य सर्वस्य स्वङ्गदं प्रभविष्यति ॥ ३८ ॥
कृत्वा भावेन मत्पूजां नरः स्तोत्रमिदं पठेत् ।
तस्य साङ्गं सदा सर्वं करोमि स्तोत्रपाठतः ॥ ३९ ॥
इह भुक्त्वाऽखिलान् भोगान् पुत्रपौत्रादिसंयुतः ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति ॥ ४० ॥
ततस्तं कार्तवीर्यश्च जगाद गणनायकम् ।
हर्षयुक्तो महाभक्तो भक्तेशं भक्तवत्सलम् ॥ ४१ ॥
कार्तवीर्य उवाच ।
किं वृणोमि गणाधीश सर्वं मायामयं विभो ।
तव दर्शनमात्रेण मया ज्ञातं न संशयः ॥ ४२ ॥
सुहृदां तदपि स्वामिन् सन्तोषार्थं वृणोम्यहम् ।
शरीरे चारुतां देहि भक्तिं त्वच्चरणे प्रभो ॥ ४३ ॥
यद्यदिच्छामि तत्तच्च सुलभं मे गजानन ।
भवतु त्वत्प्रसादेन राज्यं पूर्णं प्रदेहि च ॥ ४४ ॥
अस्मिन् क्षेत्रे स्थिरो भूत्वा भक्तान् पालय विघ्नप ।
धर्मार्थकाममोक्षादि ब्रह्मभूयप्रदं कुरु ॥ ४५ ॥
प्रवालमयरूपेण मया दृष्टो गजाननः ।
प्रवालक्षेत्रमित्युक्तं नाम्ना भवतु नित्यदा ॥ ४६ ॥
सदा विजयसंयुक्तं सहस्रभुजसंयुतम् ।
मां कुरुष्व दयासिङ्घो विष्णुतुल्यपराक्रमम् ॥ ४७ ॥
मदीयसेवनं देव देववच्च सदा भवेत् ।
मन्त्रादिकं च मे नाथ भवतु त्वप्रसादतः ॥ ४८ ॥
मदीयस्मरणेनैव गतं प्राप्तं कुरु प्रभो ।
न मत्समस्त्रिलोकेषु सेन्द्रादिषु भवेत्किल ॥ ४९ ॥
ततस्तं गणनाथः स तथेति प्रत्युवाच ह ।
सर्वं ते भविता राजन् मत्प्रसादान्न संशयः ॥ ५० ॥
मदीयस्मरणेनैव मन्त्रादीनां प्रसेवया ।
निर्विघ्नं ते च राजेन्द्र भविष्यति निरन्तरम् ॥ ५१ ॥
एवमुक्त्वा गणेशस्तमन्तर्धानं जगाम ह ।
ततस्तस्य प्रजानाथ देहः साङ्गो बभूव ह ॥ ५२ ॥
सहस्रभुजसंयुक्तो बभूव पदसंयुतः ।
महाबलो महावीर्यस्तेजसा संयुतोऽभवत् ॥ ५३ ॥
तत्र देवादयो जग्मुर्दर्शनार्थं नृपस्य च ।
साक्षाद् विष्णुः कलांशेन कार्तवीर्यो बभौ तदा ॥ ५४ ॥
ततस्तेन द्विजैः सार्धं स्थापिता मूर्तिरादरात् ।
गणेश्वरस्य तां राजाऽपूजयत् भक्तिसंयुतः ॥ ५५ ॥
पूजार्थं ब्राह्मणांस्तत्र स्थापयामास भूमिपः ।
ततो देवान् द्विजांस्तत्राऽपूजयत् स यथाविधि ॥ ५६ ॥
ननाम भक्तियुक्तस्तांस्तेऽपि तस्मै वरान् ददुः ।
हर्षिताश्च पुनः स्वर्गं जग्मुर्देवाः सवासवाः ॥ ५७ ॥
कार्तवीर्यो रथस्थः स ययौ स्वनगरं ततः ।
दूतैर्ज्ञात्वा च वृत्तान्तं तं ययुः सर्वनागराः ॥ ५८ ॥
प्रधानाश्च प्रणम्यैनं सुहृद्भिरभिनन्दितम् ।
अलङ्कृते पुरे सर्वे वेशयामासुरादरात् ॥ ५९ ॥
ननाम मातरं सोऽपि पितरं हर्षसंयुतः ।
ताभ्यामाशीर्भिरत्यन्तं मुदितश्च कृतो बभौ ॥ ६० ॥
ततः कियति काले संस्थाप्य पुत्रं यशस्विनम् ।
स्वराज्ये कृतवीर्यश्च सस्त्रीकः प्रययौ वनम् ॥ ६१ ॥
राजा गणपतिं तत्राऽभजत् सोऽनन्यचेतसा ।
स्वल्पकालेन सस्त्रीकः सोऽपि तं गणपं ययौ ॥ ६२ ॥
तस्य राज्ये जनाः सर्वे सङ्कष्टीव्रतकारकाः ।
क्रमेण गणनाथं ते ययुर्दक्ष प्रजापते ॥ ६३ ॥
इदं च कृतवीर्यस्य चरितं यः शृणोति चेत् ।
पठेद्वा तस्य सङ्कष्टं भवेन्न च चतुर्विधम् ॥ ६४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते कृतवीर्यचरितं नाम चतुस्त्रिंशोऽध्यायः ॥
[[७७]]