॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
व्रतं लब्ध्वा पुस्तकं संलिख्य सङ्गृह्य मायया ।
धनकः कृतवीर्यस्य स्वप्ने सद्यो जगाम ह ॥ १ ॥
धनकं पितरं दृष्ट्वा कृतवीर्यो ननाम तम् ।
पुत्रं राजा समादायोत्सङ्गे स्वस्य जगाद तम् ॥ २ ॥
धनक उवाच ।
पुत्र नानाविधा यत्ना विशेषेण कृतास्त्वया ।
पुत्रार्थमधुनैकं त्वं व्रतं कुरु ममाज्ञया ॥ ३ ॥
तेन पुण्येन पुत्रस्ते भविता नात्र संशयः ।
ब्रह्मणा कथितं मे यत् पुस्तकं तद् गृहाण ह ॥ ४ ॥
इत्युक्त्वा पुत्रहस्ते तद्दत्वा पुस्तकमादरात् ।
अन्तर्धानं ययौ राजा जजागार नृपात्मजः ॥ ५ ॥
पुस्तकं हस्तगं दृष्ट्वा विस्मितोऽभूत् प्रहर्षितः ।
पितरं दुःखितो भूत्वा सस्मार स रुरोद वै ॥ ६ ॥
सपत्नीकस्ततो राजा कृतवीर्यो जगाम ह ।
स्वपुरं मानितस्तत्र प्रधानादिभिरादरात् ॥ ७ ॥
ततः स ब्राह्मणान् राजा समाकार्य ननाम तान् ।
पुस्तकं दर्शयामास तस्यार्थं ब्राह्मणा जगुः ॥ ८ ॥
अहो राजन् महाभाग पुस्तके व्रतमुत्तमम् ।
लिखितं सर्वसङ्कष्टहारकं सर्वदं परम् ॥ ९ ॥
कृष्णपक्षे चतुर्थ्यां वै चन्द्रोदयसमागमे ।
पूजनीयो विशेषेण गणेशः सिद्धिदायकः ॥ १० ॥
पूजयित्वा गणाधीशं ततोऽर्घ्यं तिथये नृप ।
गणेशाय च चन्द्राय दातव्यं व्रतकारिणा ॥ ११ ॥
सूर्योदयात् समारभ्य गणेशस्मरणं नृप ।
कर्तव्यं वर्जयेत्तत्र जलपानादिकं तथा ॥ १२ ॥
चन्द्रायाऽर्घ्यं तथा दत्वा सप्तवारं नृपोत्तम ।
ब्राह्मणांस्तत आपूज्य सपत्नीकान्नमेत् स तान् ॥ १३ ॥
भोजयेत् परमान्नेन मोदकादिभिरादरात् ।
पायसेनाऽपि सितया युतेन मधुरेण च ॥ १४ ॥
ततः स्वयं सुहृद्भिश्च भोजनं वै समाचरेत् ।
दानं दद्यात् स विप्रेभ्यो योषिद्भ्यः कञ्चुकादिकम् ॥ १५ ॥
ततो जागरणं कार्यं गणेशस्तवनेन च ।
प्रभाते विमले स्नात्वा पूर्ववत् पूजयेद्विभुम् ॥ १६ ॥
गणेशं च ततो विप्रान् भोजयेत् पूर्ववन्नृप ।
दक्षिणां विपुलां तेभ्यो दापयेत्तान्नमेत्ततः ॥ १७ ॥
मासे मासे प्रकुर्यास्त्वं व्रतं गाणेश्वरं त्विदम् ।
सर्वसङ्कटहीनः सन्नन्ते स्वानन्दगो भवेः ॥ १८ ॥
अपारमहिमायुक्तं व्रतं प्राप्तं त्वया नृप ।
त्वदीयसङ्गयोगेन जनेभ्यः सिद्धिदं भवेत् ॥ १९ ॥
न श्रुतं नैव दृष्टं च व्रतं केनाऽपि भूमिप ।
लोकानामुपकाराय भविष्यति विशेषतः ॥ २० ॥
चतुर्विधं जगत्सर्वं सङ्कष्टकरमुच्यते ।
तस्माद्बन्धननाशार्थं व्रतं चेदं भविष्यति ॥ २१ ॥
इह भु?क्त्वाऽखिलान् भोगान् दुर्लभान् देवभोग्यकान् ।
अन्ते मुक्तिमवाप्नोति व्रतस्यास्य प्रभावतः ॥ २२ ॥
एवमुक्त्वा द्विजाः सर्वे गताः स्वस्वाश्रमे तदा ।
कृतवीर्यस्तथा राजा चकार व्रतमुत्तमम् ॥ २३ ॥
सूत उवाच ।
मुद्गलस्य वचः श्रुत्वा हृष्टरोमा प्रजापतिः ।
जगाद तं पुर्नवाक्यं संशयच्छेदनाय सः ॥ २४ ॥
दक्ष उवाच ।
कृतवीर्यात् समारभ्य व्रतं भूम्यां समागतम् ।
महामुने भीमनाम्नाऽन्त्यजेनैव कृतं कथम् ॥ २५ ॥
चतुर्थीव्रतपुण्येन स एव कृतवीर्यकः ।
बभूव वर्णितं विप्र त्वया संशयदायकम् ॥ २६ ॥
[[७४]]
अतः संशयनाशार्थं वद मुद्गल मे वचः ।
सर्वज्ञस्त्वं न सन्देहः साक्षाद्योगीश्वरो महान् ॥ २७ ॥
मुद्गल उवाच ।
प्रजापते शृणु ह्यत्र वचनं मे महामते ।
येन ते संशयो नाशं गमिष्यति न संशयः ॥ २८ ॥
व्रतं गाणेश्वरं दक्ष चतुर्थीसञ्ज्ञकं परम् ।
सङ्कष्टहरणं प्रोक्तं तज्जानीहि पुरातनम् ॥ २९ ॥
पृथिव्यां स्वर्गलोके तत् पाताले सर्वसम्मतम् ।
चतुर्थी च समुत्पन्ना तदारभ्य प्रतिष्ठितम् ॥ ३० ॥
जनास्तन्नैव जानन्ति पृथिव्यां कुत्रचित् प्रभो ।
कृतवीर्याच्च सर्वत्र प्रकाशमगमद्व्रतम् ॥ ३१ ॥
एत्तते सर्वमाख्यातं शृणु तस्य कथानकम् ।
कृतवीर्यस्य भूपस्य पुण्यदं शृण्वते भवेत् ॥ ३२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते कृतवीर्यव्रतप्राप्तिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥