॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
यदोरप्यभवन् पुत्राश्चत्वारो देवसन्निभाः ।
सहस्त्रजित्तथा ज्येष्ठस्तस्य पुत्रो बभूव ह ॥ १ ॥
शतजिन्नाम विख्यातस्तस्य पुत्रास्त्रयोऽभवन् ।
हिहयश्च हयश्चैव वपुर्हय उदाहृतः ॥ २ ॥
हिहयस्याऽभवत् पुत्रो धर्म इत्यभिविश्रुतः ।
तस्य नेत्रस्तस्य कुन्तिः सोहञ्जिस्तत्सुतः स्मृतः ॥ ३ ॥
सो हञ्जेरभवत् पुत्रो महिष्मान्नाम पार्थिवः ।
माहिष्मती च नगरी वासिता येन भूभुजा ॥ ४ ॥
तस्य पुत्रो भद्रसेनो दुर्मदस्तत्सुतः स्मृतः ।
धनकश्चाऽपरो धीमान् मुख्योऽभूत्तत्र पार्थिवः ॥ ५ ॥
धनकादभवन् पुत्राश्चत्वारो लोकविश्रुताः ।
कृतवीर्यः कृताग्निश्च कृतवर्मा ततः स्मृतः ॥ ६ ॥
कृतौजाश्च तथा दक्ष तत्र ज्येष्ठः प्रतापवान् ।
बभूव दानशीलश्च कृतवीर्यो महीपतिः ॥ ७ ॥
तेन वै पृथिवीमध्ये चतुर्थी कृष्णगाऽपरा ।
प्रकाशिता प्रजापाल स्वर्गात् सर्वशुभप्रदा ॥ ८ ॥
[[३२]]
दक्ष उवाच ।
कथं तेन नृपालेन चतुर्थी भूमिमण्डले ।
समानीता महायोगिन् वद तस्य चरित्रकम् ॥ ९ ॥
श्रुत्वा कथामृतं स्वामिन् हर्षश्चेतसि वर्धते ।
अतो विस्तरभावेन कथयस्व कथानकम् ॥ १० ॥
मुद्गल उवाच ।
माहिष्मत्यां महापुर्यां भीमनामाऽभवत् पुरा ।
अन्त्यजो द्रव्यलुब्धश्च पापकर्मपरायणः ॥ ११ ॥
स तु मार्गे जनान् वीक्ष्याऽमारयत्तान् दिने दिने ।
मांसविक्रयकारी च पशुन् हत्वा निरन्तरम् ॥ १२ ॥
एकदा माघमासस्य चतुर्थी कृष्णपक्षगा ।
समागता च तत्राऽसौ विचचार वनान्तरे ॥ १३ ॥
महापर्वतदेशे स जनानां प्रवधाय च ।
दैवयोगेन तस्याऽपि मिलितं नैव किञ्चन ॥ १४ ॥
अयं बभ्रामान्नजलविहीनो लोभसंयुतः ।
मिलितं तत्र नो किञ्चित्तथाभूतश्चचार ह ॥ १५ ॥
ततोऽस्तमगमत् सूर्यस्तं दृष्ट्वा स्वगृहे मतिम् ।
गमनाय तथा चक्रे मार्गसंस्थो बभूव ह ॥ १६ ॥
मार्गे दुष्टो द्विजास्तत्र दृष्ट्वा द्वादशसङ्ख्यकान् ।
तान् हत्वा स तदीयं वै गृहीत्वा स्वगृहं ययौ ॥ १७ ॥
चन्द्रोदये ततः प्राप्ते बुभुजे भोजनाकुलः ।
पुत्रं गणेशनामानमाह्वयामास तेन सः ॥ १८ ॥
पुनश्चकार तद्वत् स कदाचित् पापमुल्बणम् ।
कृष्णपक्षे चतुर्थ्यां च स ममारोदये विधोः ॥ १९ ॥
गणेशदूतास्तं तत्र समानेतुं समाययुः ।
कैलासे गणपस्थाने निन्युस्तं ते विमानगम् ॥ २० ॥
स्वर्गमार्गेषु देवैश्च ब्रह्मविष्ण्वादिभिस्तुतः ।
विमानगैः स्तूयमानः प्रविवेश शिवास्पदम् ॥ २१ ॥
तत्र भुक्त्वा प्रभोगान् स पपात पृथिवीतले ।
माहिष्मत्यां सुतो जज्ञे धनकस्य महाबलः ॥ २२ ॥
कृतवीर्य इति ख्यातो नानाधर्मपरायणः ।
देवविप्रातिथिप्रेप्सुर्बभूवे यज्ञकारकः ॥ २३ ॥
अपुत्रः स्माऽभवद्राजा कृतवीर्यः प्रतापवान् ।
पुत्रार्थं यतते स्मातिनानाधर्मपरायणः ॥ २४ ॥
न लेभे सन्ततिं राजा ततोऽसौ दुःखसंयुतः ।
प्रधानेषु समाक्षिप्य राज्यं निहतकण्टकम् ॥ २५ ॥
सपत्नीको वनं राजा ययौ तपसि संस्थितः ।
पूर्वसंस्कारयोगेन गणेशे प्रीतिमानभूत् ॥ २६ ॥
नानातपश्चकाराऽसौ सन्ततिं न तथाऽपि च ।
लेभे नृपः प्रजानाथ नेत्रप्राणावशेषितः ॥ २७ ॥
अस्थित्वचासमायुक्तं दृष्ट्वा तं नारदो मुनिः ।
स्वर्गस्थं धनकं तत्र वृत्तान्तमवदन्नृपम् ॥ २८ ॥
तव पुत्रो वने संस्थः पुत्रार्थं यतते नृप ।
नानायत्नसमायुक्तोऽस्थित्वचाप्रयुतोऽस्ति वै ॥ २९ ॥
न लेभे सन्ततिं राजा स्वल्पकाले मरिष्यति ।
पुत्रहीनस्य भो राजन् का गतिः प्रभवेद्वद ॥ ३० ॥
इत्युक्वा तं मुनीन्द्रः स ययौ कैलासमादरात् ।
धनको मनसाऽत्यन्तं विचारमकरोत्ततः ॥ ३१ ॥
ब्रह्माणं शरणं यामि सर्वज्ञं तेन चेप्सितम् ।
भविष्यति न सन्देहस्ततः सोऽपि ययौ विधिम् ॥ ३२ ॥
प्रणिपत्य प्रतुष्टाव नानास्तोत्रैः प्रजापतिम् ।
उवाच तं महाभागं विनयेन समन्वितः ॥ ३३ ॥
धनक उवाच ।
[[७२]]
धर्मशीलश्च मे पुत्रः पुत्रहीनो बभूव हि ।
पुत्रार्थं यतते ब्रह्मन्नानाव्रतपरायणः ॥ ३४ ॥
राज्यादिकं समुत्सृज्य वने तपति संस्थितः ।
तपस्तेनाऽवशेषोऽसावस्थिचर्मवृतो बभौ ॥ ३५ ॥
केनोपायेन पुत्रश्च भविता तं वदस्व मे ।
प्रापयिष्याम्यहं तत्र स्ववंशस्य विवृद्धये ॥ ३६ ॥
ततस्तं प्रत्युवाचेदं वचनं चतुराननः ।
पूर्वजन्मनि सम्भूतं द्विजहत्यायुतं व्रतम् ॥ ३७ ॥
पुन: प्रोवाच तं देवो विधिः सर्वार्थकोविदः ।
पुत्रप्राप्त्यर्थमेवैकमुपायं सर्वसिद्धिदम् ॥ ३८ ॥
अज्ञानेन व्रतं तेन कृतं सङ्कष्टहारकम् ।
चतुर्थीप्रभवं तेन पापं सर्वं लयं गतम् ॥ ३९ ॥
महापापानि नश्यन्ति सङ्कष्टीव्रतसाधनात् ।
सङ्कष्टीव्रतसम्बन्धिदिवसे यत् कृतं भवेत् ॥ ४० ॥
तदेवाक्षयभावेन तिष्ठत्यत्र न संशयः ।
चतुर्थ्यां भूप कृष्णायां पुण्यमेव समाचरेत् ॥ ४१ ॥
तव पुत्रेण राजेन्द्र द्वादश ब्राह्मणा हताः ।
चतुर्थ्यां पूर्वजन्मस्थेन पापं तत्स्थितं महत् ॥ ४२ ॥
नानातपःप्रभावेण व्रततीर्थादिकेन च ।
यज्ञादिभिश्च तत्पापं लयं नैव गमिष्यति ॥ ४३ ॥
सङ्कष्ट्यां यत्कृतं पापं वज्रलेपं च तत्स्मृतम् ।
तत्र कश्चिदुपायो न तथाऽपि शृणु मे वचः ॥ ४४ ॥
येन सङ्कष्टिका पुण्या चतुर्थी साधिता नृप ।
तस्य जन्मादिकं नैव भविष्यति कदा पुनः ॥ ४५ ॥
चतुर्विधं प्रजानीहि सर्वं मायामयं जगत् ।
सङ्कष्टं चैव जीवानां तेन युक्ता भ्रमन्ति ते ॥ ४६ ॥
चतुर्थी गणनाथस्य सङ्कष्टी साधिता यदा ।
चतुर्विधं तस्य कष्टं न भवेद्वै कदाचन ॥ ४७ ॥
ब्रह्मणि ब्रह्मभूतोऽन्ते स्वानन्दे वर्तते नरः ।
व्रतस्यैव प्रभावेणेहलोके सुखमाप्नुयात् ॥ ४८ ॥
चतुर्थ्यां पापकारा ये तेषां मुक्तिर्न विद्यते ।
पापयुक्ततया राजन् स्वर्गस्थास्ते भवन्ति च ॥ ४९ ॥
पुनर्जन्मधरा भूमौ तत्र पापफलं स्वकम् ।
भुञ्जन्ति च पुनः सर्वे गाणपत्या भवन्ति ते ॥ ५० ॥
अतो गणेशदूतैः स कैलासे स्थापितोऽन्त्यजः ।
पापभोगार्थमेवं च तव पुत्रोऽधुनाऽभवत् ॥ ५१ ॥
चतुर्थ्यां यत्कृतं पापं चतुर्थी हन्ति तत् सदा ।
तदर्थं ते सुतो राजंश्चतुर्थीमाचरिष्यति ॥ ५२ ॥
तदा पापविहीनोऽयं भविता नात्र संशयः ।
पुत्रयुक्तश्च ते पुत्रो भविष्यति महामते ॥ ५३ ॥
अपराधयुतं कर्म कृतं नाशार्थमादरात् ।
तस्य पुण्यं प्रकर्तव्यं दुरितं तेन नश्यति ॥ ५४ ॥
चतुर्थी महिमाऽनन्तो भूतं यदपि तद्दिने ।
पापं क्रोधसमायुक्ता महाकृच्छ्रेण हन्ति सा ॥ ५५ ॥
अतस्तत्पापनाशार्थं सङ्कष्टीर्द्वादशाऽऽचरेत् ।
तदा द्वादशविप्रान्तभवं पापं गमिष्यति ॥ ५६ ॥
ततस्तं करुणायुक्तः स विधि व्रतमादरात् ।
कथयामास वै ब्रह्मा ययौ राजा प्रणम्य तम् ॥ ५७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते धनकस्य व्रतोपदेशो नाम द्वात्रिंशोऽध्यायः ॥
[[७३]]