॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
नहुषस्याभवन् पुत्राः पञ्च देवसमा धिया ।
यभ्यातिश्च ययातिश्च तथा संयातिरायतिः ॥ १ ॥
पञ्चमश्चाश्वको नाम ययातिर्भूमिपोऽभवत् ।
माहात्म्यं तस्य मुख्यं ते कथयामि प्रजापते ॥ २ ॥
देवयानीमुशनसः स तां भार्यामवाप ह ।
वृषपर्वसुतां चैव शर्मिष्ठां राजसत्तमः ॥ ३ ॥
यदुं च तुर्वसं चैव देवयानी व्यजीजनत् ।
द्रुह्यं तद्वदनुं पूरुं शर्मिष्ठां वार्षपर्वणी ॥ ४ ॥
सोऽभ्यषिञ्चदतिक्रम्य ज्येष्ठान् पुत्रान् महामतिः ।
पूरुं कनिष्ठमेवं च पितुर्वाक्यपरायणम् ॥ ५ ॥
दक्ष उवाच ।
किमर्थं तेन भूपेन विपरीतं कृतं प्रभो ।
तत् सर्वं वद योगीन्द्र सादरेण शृणोम्यहम् ॥ ६ ॥
मुद्गल उवाच ।
वृषपर्वा प्रजानाथ दैत्यानामधिपः स्मृतः ।
तस्य पुत्री महाभागा शर्मिष्ठा मानिताऽभवत् ॥ ७ ॥
तत्र शुक्रस्य पुत्री या देवयानी प्रकीर्तिता ।
साऽपि पित्रा स्ववात्सल्यात् स्थापिता लालिता भृशम् ॥ ८ ॥
सखीभिरेकदा बाला संवृता राजकन्यका ।
शर्मिष्ठा वाटिकायां सा हर्षयुक्ता जगाम ह ॥ ९ ॥
देवयानी तथा तत्र क्रीडार्थं सा समागता ।
तत्र नानाविधां क्रीडां चक्रिरे कन्यकाः प्रभो ॥ १० ॥
ततस्ताः श्रमसंयुक्ता जग्मुः स्नानार्थमादरात् ।
तीरे क्षिप्त्वा स्ववस्त्राणि चिक्रीडुर्जलमध्यगाः ॥ ११ ॥
ततः सखीभिर्युक्ता सा शर्मिष्ठा निःसृता पुरः ।
सम्भ्रमेण तया वस्त्रं देवयान्या धृतं किल ॥ १२ ॥
निःसृता देवयानी वै दृष्ट्वा कर्म जुगुप्सितम् ।
राजपुत्रीमुवाचाऽथ भर्त्सयन्ती प्रजापते ॥ १३ ॥
ब्राह्मणस्य महादुष्टे पुत्र्यहं किं धृतानि वै ।
वस्त्राणि मे यथा पाकस्पर्शने च शुनी खले ॥ १४ ॥
द्वारपा लोमतः शास्त्रे ब्राह्मणानां विशेषतः ।
राजन्यस्तस्य पुत्री त्वं न योग्याऽसि कदाचन ॥ १५ ॥
एवं नानाविधैर्वाक्यैर्देवयानी च तां प्रभो ।
भर्त्सयामास सोवाच कुपिता तां पुनर्वचः ॥ १६ ॥
शर्मिष्ठोवाच ।
किमात्मानं च दुष्टे त्वं कथ्यसे मम सन्निधौ ।
राजप्रसादसंसर्गाद्ब्राह्मणा मानिता बभुः ॥ १७ ॥
अस्मदीयप्रसादेन वस्त्रान्नादिकमादरात् ।
भुक्त्वा मां स्पर्शसे दुष्टे बलिभुग्वायसी यथा ॥ १८ ॥
एवं नानाविधैर्वाक्यैस्तां निर्भर्त्स्य प्रजापते ।
सखीभिर्देवयानीं सा कूपे चिक्षेप चासुरी ॥ १९ ॥
ततः सा स्वगृहे क्रुद्धा प्रययौ दुःखिता भृशम् ।
देवयानी तथा कूपे संस्थिता जलवर्जिते ॥ २० ॥
दैवयोगेन तत्राऽसौ ययातिः स जगाम ह ।
एकाकी मृगयासक्तः कूपस्थां तां ददर्श ह ॥ २१ ॥
ततोऽतिकरुणायुक्तो हस्तं दत्वा स्वदक्षिणम् ।
देवयानीं दधाराऽसौ तया हस्तो धृतस्तथा ॥ २२ ॥
बहिर्निष्कास्य राजा सोऽभवद्गन्तुं समुद्यतः ।
ततस्तं देवयानी सोवाच हर्षसमन्विता ॥ २३ ॥
देवयान्युवाच ।
पाणेस्त्वया मे ग्रहणं कृतं सौम्य महामते ।
कोऽसि त्वं वद मां सर्वं वृत्तान्तं ते यथायथम् ॥ २४ ॥
तामुवाच महीपालः शृणु त्वं वरवर्णिनि ।
ययातिं विद्धि मां देवि नाहुषं क्षत्रवंशजम् ॥ २५ ॥
मृगयाऽऽसक्तभावेन प्राप्तं ते दर्शनं महत् ।
गच्छ त्वं स्वगृहे बाले गमिष्यामि स्वमालयम् ॥ २६ ॥
तमुवाच प्रजानाथं देवयानी प्रहर्षिता ।
काव्यपुत्रीं च मां विद्धि भव त्वं मे पतिः प्रभो ॥ २७ ॥
हस्तस्य ग्रहणं ते वै विशेषेण कृतं मया ।
त्वदृते न वृणोम्यन्यमतस्त्वं मे पतिर्भव ॥ २८ ॥
तस्यास्तद्वचनं श्रुत्वा ययातिस्तामुवाच ह ।
काव्यकन्यां कथं देवि वृणोमि क्षत्रवंशजः ॥ २९ ॥
ततः सोवाच तं देवयानी शृणु वचो महत् ।
ब्राह्मणो मे न भर्ता च भविता कचशापतः ॥ ३० ॥
अतस्वं भयहीनः सन् वृणु मां राजसत्तम ।
काव्यं सम्बोधयित्वाऽहं पत्नी ते प्रभवामि च ॥ ३१ ॥
तथेति नृपवर्योऽसौ तां जगाद तथा ययौ ।
नगरं स महाभागः सा च तत्र स्थिताऽभवत् ॥ ३२ ॥
तत्राऽऽगतं नरं कञ्चित्तमुवाच वद प्रभुम् ।
काव्यमत्र स्थिता पुत्री देवयानी महामते ॥ ३३ ॥
ततस्तेन मुनीन्द्रोऽसौ बोधितः शृणु मे वचः ।
वने ते देवयानी सा पुत्री वत्सल संस्थिता ॥ ३४ ॥
शुक्रस्तां प्रययौ शीघ्रं तमुवाच सुविह्वला ।
रुदती देवयानी सा वृत्तान्तं सर्वमञ्जसा ॥ ३५ ॥
तं श्रुत्वा कुपितः काव्यस्त्यक्त्वा दैत्यं स निर्ययौ ।
वनवासार्थमानन्दादूहयन् वृत्तिमुल्बणाम् ॥ ३६ ॥
ततो दैत्याधिपः श्रुत्वा वृत्तान्तं विह्वलो भृशम् ।
तं ययौ धावमानः स प्रणनाम महामुनिम् ॥ ३७ ॥
उवाच भक्तिसंयुक्तं वचनं दैत्यनायकः ।
त्वदाधारमिदं राज्यं देहोऽयं मे तथा मुने ॥ ३८ ॥
मुनिसत्तम मां त्यक्त्वा कुत्र गन्तुं त्वमिच्छसि ।
राज्यादिकं परित्यज्य याम्यहं ते प्रसन्निधौ ॥ ३९ ॥
तस्य तद्वचनं श्रुत्वा काव्यः पुत्रीमुवाच ह ।
चल त्वं राजकन्याया अपराधं क्षमस्व च ॥ ४० ॥
देवयानी मुनिं तत्रोवाच क्रोधसमन्विता ।
नाऽहं यामि पितः पुर्यां देहत्यागं करोमि वै ॥ ४१ ॥
ततः पुत्रीं स्वयं काव्य ऊचे तां शोकसङ्कुलः ।
किमिच्छसि वद त्वं म उपायं तं करोम्यहम् ॥ ४२ ॥
ततस्तं देवयानी सोवाच क्रोधसमन्विता ।
सखीभिः सहिता दासी शर्मिष्ठा मे भवेद्यदि ॥ ४३ ॥
यत्र दास्यसि मां तात तत्रेयं सहगा भवेत् ।
तदाहं नगरे यामि हृष्टा दैत्याधिपस्य च ॥ ४४ ॥
उवाच काव्यो दैत्येशं तं पुत्रीवत्सलस्ततः ।
तथेति दैत्यराजः स गृहे काव्यं समानयत् ॥ ४५ ॥
काव्येन नाहुषायैव दत्ता पुत्री विधानतः ।
तत्र दासी स्वभावेन शर्मिष्ठा प्रययौ विधे ॥ ४६ ॥
कदाचित्तत्र शर्मिष्ठाऽभवदृतुयुता स्वयम् ।
राजानं वाटिकामध्ये उवाच विनयान्विता ॥ ४७ ॥
सख्या मे देवयान्या त्वं महीपाल वृतो यदा ।
पतिस्तदा मया नाथ त्वमेव मनसा वृतः ॥ ४८ ॥
ऋतुयुक्तां स्त्रियं स्वामिन् भज त्वं भक्तिसंयुताम् ।
तथेति नाहुषेणैव वृता सा गुप्तभावतः ॥ ४९ ॥
देवयान्या चरित्रं न तस्या ज्ञातं प्रजापते ।
गर्भयुक्तां विदित्वा तां सा पप्रच्छ मुनेः सुता ॥ ५० ॥
[[६९]]
कस्य वीर्यं त्वया देवि धृतं मे वद चाधुना ।
लाञ्छनं दैत्यराजस्य प्राप्तं किं दैवयोगतः ॥ ५१ ॥
शर्मिष्ठा तां जगादाऽथ न कृतं लाञ्छनं मया ।
ब्राह्मणस्य महद्वीर्यं गृहीतं गुप्ततः सखि ॥ ५२ ॥
तस्यां पुत्राः समुत्पन्नास्त्रयो देवसमा बभुः ।
राज्ञा सम्मानिता नित्यं वाटिकायां विशेषतः ॥ ५३ ॥
कदाचिद्देवयानी सा वाटिकायां जगाम ह ।
तत्र पुत्रा ययातिं तं पितरं प्राहुरादरात् ॥ ५४ ॥
तच्छ्रुत्वा क्षुभिताऽत्यन्तं देवयानी गृहं ययौ ।
पितुस्तां सान्त्वयामास ययातिर्विनयान्वितः ॥ ५५ ॥
न शशाक स राजर्षिस्तां स्वगेहे भयाकुलः ।
आनेतुं सा तथा काव्यं जगाद रुदती भृशम् ॥ ५६ ॥
शुक्रेण शापितो राजा जरायुक्तो बभूव सः ।
गत्वा चोशनसं तत्रोवाच शोकसमाकुलः ॥ ५७ ॥
नाऽहं श्वशुर तृप्तोऽस्मि कामभोगेभ्य एव च ।
जराघ्नं मे वदोपायं तं करिष्यामि यत्नतः ॥ ५८ ॥
देवयानीं विनाऽन्यां स्त्रीं न स्पृशामि कदाचन ।
ततस्तमुशनाः प्रीत उवाच वचनं हितम् ॥ ५९ ॥
तव पुत्रा महाभाग यौवनास्था भवन्ति ये ।
जरां तत्र विनिक्षिप्य गृहाण नृप यौवनम् ॥ ६० ॥
त्वदाज्ञया जरां पुत्रो ग्रहीष्यति कुरुष्व तम् ।
राजानं मुख्यभावं त्वं न दोषस्तत्र ते भवेत् ॥ ६१ ॥
तथेति देवयानीं सङ्गृह्य स्वनगरं ययौ ।
ज्येष्ठान् पुत्रान् ययाचे स राजर्षिर्यौवनं ततः ॥ ६२ ॥
न जरां जगृहुस्तस्य सर्वे ते मूर्खभावतः ।
ततः पूरुं स राजर्षिर्ययाचे स ददौ किल ॥ ६३ ॥
शुक्रस्य वरदानेन दोषः पूरोर्न तस्य वै ।
भुक्त्वा भोगाननेकान् स ययातिस्तोषितोऽभवत् ॥ ६४ ॥
यज्ञान् कृत्वा महाभागः साङ्गान् सर्वान् विशेषतः ।
तीर्थादीनि जगामाऽसौ नानारूपाणि भावतः ॥ ६५ ॥
सर्वं कोशगतं द्रव्यं भूषणादिकमादरात् ।
ददौ स ब्राह्मणेभ्यश्च दानशीलोऽभवत्तथा ॥ ६६ ॥
मृत्पात्रैर्गृहकार्येषु चरन्तं गालवो मुनिः ।
तमाययौ ययाचे वै राजानं खेदसंयुतः ॥ ६७ ॥
गुरोश्च दक्षिणार्थं मे देह्यश्वान् श्यामकर्णकान् ।
सहस्रसङ्ख्यायुक्तांस्त्वं श्रेष्ठः सकलभूभुजाम् ॥ ६८ ॥
माधवीं स्वां ददौ तस्मै ततः कन्यां महीपतिः ।
तया तस्य मुनेः कार्यं कृतं सर्वं प्रजापते ॥ ६९ ॥
ततः स राजशार्दूलो जरां सङ्गृह्य यौवनम् ।
पूरवेऽदात् पुनः सद्यस्तं चकार नराधिपम् ॥ ७० ॥
दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् ।
दक्षिणापश्चिमायां स यदुं ज्येष्ठं न्ययोजयत् ॥ ७१ ॥
प्रतीच्यामुत्तरायां स द्रुह्यं चानुमयोऽजयत् ।
तैरियं पृथिवी सर्वा धर्मतः परिपालिता ॥ ७२ ॥
सर्वत्र सार्वभौमेन पूरुस्तत्र रराज च ।
धर्मयुक्तो विनीतात्मा सत्यसन्धः प्रतापवान् ॥ ७३ ॥
ततो वनं ययौ राजा तताप तप उत्तमम् ।
अन्ते जगाम स्वर्गं स नानाभोगप्रदं परम् ॥ ७४ ॥
तत्र सर्वानतिक्रम्य बुभुजे भोगमुत्तमम् ।
न मत्समश्च स्वर्गेषु पुण्यभोगकरः परः ॥ ७५ ॥
[[७०]]
इति गर्वेण संयुक्तमिन्द्रस्तं प्रजगाद सः ।
त्वया राजन् महत्पुण्यं कीदृशं प्रकृतं वद ॥ ७६ ॥
उवाच नरशार्दूलः ततस्तं मोहसंयुतः ।
न सङ्ख्या विद्यते देव मम पुण्यस्य देवप ॥ ७७ ॥
स्वर्गेषु ये स्थिता देवाः पुण्यकर्मकरा इमे ।
न मे कलां च पुण्यस्य लभन्ते देवनायक ॥ ७८ ॥
तस्य तद्वचनं श्रुत्वा तमिन्द्रः प्रत्युवाच ह ।
न जानासि महाराज एषां पुण्यप्रभावकम् ॥ ७९ ॥
सर्वानिमांस्तिरस्कृत्य त्वं प्रमोहसमन्वितः ।
स्वप्रशंसां तथाऽपारं पुण्यं वदसि चाऽद्य माम् ॥ ८० ॥
तेन ते पुण्यमुग्रं तत् सर्वं नष्टं नराधिप ।
प्रपत त्वं महीपृष्ठे पुनः पुण्यं समाचर ॥ ८१ ॥
ततः पपात भूपृष्ठे ययातिर्दुःखसंयुतः ।
तं पतन्तं च दौहित्रा ददृशुः शिबिमुख्यकाः ॥ ८२ ॥
मातामहं च विज्ञाय ददुः पुण्यं पुनः स्वकम् ।
तेन स्वर्गस्थितो राजा मुमुदे देववत् स्वयम् ॥ ८३ ॥
ततस्तं नारदो योगी जगाद करुणायुतः ।
त्वया विघ्नो महाराज प्राप्तः पुण्यविनाशकृत् ॥ ८४ ॥
विघ्नेशं भज राजंस्त्वमन्ते स्वानन्दगस्ततः ।
भविष्यसि न सन्देहो नोचेद्भूमौ पतिष्यसि ॥ ८५ ॥
ततस्तेन गणेशस्य मन्त्रो दत्तो दशाक्षरः ।
तं जजाप ययातिश्च गणेशध्यानतत्परः ॥ ८६ ॥
पुण्यक्षये स राजेन्द्रः शुक्लगत्या प्रजापते ।
गणेशं प्रययौ भक्त्या गाणपत्यो महायशाः ॥ ८७ ॥
ययातेश्चरितं पुण्यं सङ्क्षेपेण निरूपितम् ।
शृण्वते कामदं पूर्णं भविष्यति न संशयः ॥ ८८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते ययातिचरितं नामैकत्रिंशत्तमोऽध्यायः ॥