३० नहुषचरितम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

आयुषस्तनया दक्ष पञ्चाऽऽसन् दृढविक्रमाः ।
स्वर्भानुतनयायां वै प्रभायां तेजसा युताः ॥ १ ॥

नहुषः प्रथमस्तेषां शक्रतुल्यपराक्रमः ।
चकार शतयज्ञांश्च राज्ञः सर्वान् विजित्य यः ॥ २ ॥

तत्रेन्द्रः क्षुभितोऽत्यन्तं निराकर्तुं शशाक न ।
राजानं सर्वशास्त्रज्ञं ततः शान्तो बभूव ह ॥ ३ ॥

गौतमेन महेन्द्रोऽथ शापितस्त्रीप्रधर्षणात् ।
भ्रष्टराज्योऽभवद्देवस्ततो देवा भयातुराः ॥ ४ ॥

दैत्यानां वेगमुग्रं ते सहने न क्षमास्ततः ।
बृहस्पतिं समागम्य पप्रच्छुः क्षेमकारकम् ॥ ५ ॥

तेनाज्ञप्तास्ततो देवा मुनयश्च प्रजापते ।
नहुषं स्वर्गराजं तं चक्रुस्तेजस्विनां वरम् ॥ ६ ॥

देवेन्द्रो नहुषो भूत्वा शशास स्वर्गमण्डलम् ।
इन्द्रासने समासीनः पालयामास तान् सुरान् ॥ ७ ॥

तस्मै वरं ददौ देवा मुनयस्ते प्रजापते ।
क्रोधेन यस्त्वया दृश्यः सत्ताहीनो भवेत् सदा ॥ ८ ॥

ततोऽतितेजसा युक्तो बभूव स नराधिपः ।
देवादिभिः सदा दक्ष सेवितो नहुषः किल ॥ ९ ॥

ततोऽतिगर्वितो राजाऽभवत् स्त्रीसङ्गलालसः ।
शचीं देवैश्च निर्लज्ज आह्वयामास दुर्मतिः ॥ १० ॥

देवानुवाच सा देवी नाहं यामि नराधिपम् ।
इन्द्रस्य देवमुख्यस्य पत्न्यहं पुरुषं परम् ॥ ११ ॥

एवमुक्त्वा ततो देवान् ययौ गेहं बृहस्पतेः ।
ननाम तं महाभागा स्नुषां रक्षेति साऽब्रवीत् ॥ १२ ॥

तस्या वृत्तान्तमुग्रं स श्रुत्वा देवगुरुः स्वयम् ।
निकटे तां समास्थाप्य इन्द्रार्थं ह्युद्यतोऽभवत् ॥ १३ ॥

गौतमं सहसाऽऽगत्य तमुवाच महामुनिम् ।
शापहीनं महेन्द्रं त्वं कुरुष्व वचनाच्च मे ॥ १४ ॥

[[६४]]

तमुवाच महायोगी गौतमः किं करोम्यहम् ।
उपायं वद मे तात तं करिष्ये जवादहम् ॥ १५ ॥

गौतमाय ततस्तेन कथितं सुखदं परम् ।
विनायकस्य मन्त्रं त्वं देहीन्द्राय महामुने ॥ १६ ॥

गौतमेन तदा दत्तः स्वमन्त्रो गणपस्य च ।
इन्द्राय स ततस्तेनाऽभवच्छक्रश्च नीरुजः ॥ १७ ॥

जजाप मन्त्रराजं तं शक्रो गणपतेस्ततः ।
ध्यात्वा तं देवदेवेशं तताप तप उत्तमम् ॥ १८ ॥

विदर्भे निर्जने देवो वने वाय्वशनः स्वयम् ।
नासाग्रन्यस्तदृष्टिः स पूजयामास विघ्नपम् ॥ १९ ॥

गते वर्षसहस्रे वै तं ययौ भक्तवत्सलः ।
गणेशानो वरं दातुं तपसा तोषितो भृशम् ॥ २० ॥

सिंहारूढो महाबाहुश्चतुर्भुजविराजितः ।
सिद्धिबुद्धियुतश्चैव नाभिशेषधरः प्रभुः ॥ २१ ॥

इन्द्रं स बोधयामास वरं ब्रूहि हृदीप्सितम् ।
मघवंस्ते प्रसन्नोऽहं दास्यामि तपसाऽधुना ॥ २२ ॥

ततस्तं प्रणनामाऽथ इन्द्रो भक्तिसमन्वितः ।
तुष्टाव सुस्थिरो भूत्वा यथामति गजाननम् ॥ २३ ॥

इन्द्र उवाच ।

नमस्तेऽस्तु गणाध्यक्ष भक्तेभ्यः सिद्धिदायक ।
विनायकाय देवाय हेरम्बाय नमो नमः ॥ २४ ॥

अनादये च सर्वेषामादिभूताय ते नमः ।
आदिपूज्याय विघ्नेश सर्वपूज्याय वै नमः ॥ २५ ॥

आदिमध्यान्तहीनाय ह्यादिमध्यमयाय च ।
अन्त्यरूपाय देवेश विघ्नहर्त्रे नमो नमः ॥ २६ ॥

पाशाङ्कुशधरायैव सिंहवाहाय ते नमः ।
अमेयाय नमस्तुभ्यं नानामायाधराय च ॥ २७ ॥

विघ्नकर्त्रे ह्यभक्तानां सदा स्वानन्दवासिने ।
सिद्धिबुद्धिपते तुभ्यं नाभिशेषाय ते नमः ॥ २८ ॥

ब्रह्मणे ब्रह्मरूपाय ब्रह्मदात्रे कृपालवे ।
धर्मार्थकाममोक्षाणां दात्रे ते वै नमो नमः ॥ २९ ॥

पूर्णाय पूर्णभावज्ञ पूर्णानन्दप्रदाय वै ।
कर्त्रे हर्त्रे च पात्रे ते गणेशाय नमो नमः ॥ ३० ॥

सूक्ष्मेषु सूक्ष्मरूपाय स्थूलेषु स्थूलभोगिने ।
स्थूलसूक्ष्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ ३१ ॥

किं स्तौमि त्वां सदा शान्तिरूपं तस्मान्नमो नमः ।
तेन तुष्टो भव स्वामिन् दयाकाराय ते नमः ॥ ३२ ॥

मुद्गल उवाच ।

एवं स्तुतिं समाकर्ण्य मघवन्तमुवाच ह ।
गणेशो भक्तिभावेन सन्तुष्टो भक्तमुत्तमम् ॥ ३३ ॥

गणेश उवाच ।

इन्द्र त्वया कृतं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
यः पठेच्छृणुयाच्चेद्यस्तस्मै सर्वार्थदं तथा ॥ ३४ ॥

नित्यं त्वमपि देवेन्द्र पठ स्तोत्रं प्रयत्नतः ।
तेन विघ्नविहीनस्तु भविष्यसि महामते ॥ ३५ ॥

वरान् ब्रूहि महाभाग ये ते चित्ते भवन्ति वै ।
तान् दास्यामि न सन्देहो भक्त्या स्तोत्रेण तोषितः ॥ ३६ ॥

ततस्तं मघवा देवं प्रणम्याभिदधे वचः ।
निर्विघ्नं कुरु मां देव स्वपदस्थं तथा प्रभो ॥ ३७ ॥

भक्तिं त्वदीयपादे मे देहि नाथ नमोऽस्तु ते ।
इदं क्षेत्रं सुविख्यातं गाणपत्यं तथा कुरु ॥ ३८ ॥

तीर्थं च सर्वदं स्वामिन् कुरु ते पादलाञ्छितम् ।
स्वानन्ददायकं स्नानमात्रेणात्र न संशयः ॥ ३९ ॥

पुरे कदम्बनाम्न्येव गाणेशं चिन्तितार्थदम् ।
लोके भवतु विख्यातं प्रसादात्ते च विघ्नप ॥ ४० ॥

[[६५]]

तथेति तमुवाचाऽथ गणेशोऽन्तर्दधे ततः ।
इन्द्रेण गणनाथस्य मूर्तिः संस्थापिता द्विजैः ॥ ४१ ॥

तं पूजयित्वा देवेन्द्रः संस्थितस्तत्र मानद ।
नित्यं ध्यानपरो भूत्वाऽभजत्तं गणनायकम् ॥ ४२ ॥

अधुना शृणु भो दक्ष नहुषस्य प्रचेष्टितम् ।
गणेशेन तदा राजा विघ्नयुक्तः कृतः खलः ॥ ४३ ॥

बृहस्पतिमुवाचाऽथ मृत इन्द्रो न संशयः ।
न दृश्यते जनैः कुत्र शचीं मे देहि भो गुरो ॥ ४४ ॥

ततस्तं वाक्पतिर्देवोऽवदत् क्रोधसमन्वितः ।
द्विजवाहनगो भूत्वा शचीं याहि नराधिप ॥ ४५ ॥

नानावाहेषु सा देवी देवेन्द्रेण प्रलालिता ।
अपूर्वं वाहनं चैवेच्छति तस्मात्तथा करु ॥ ४६ ॥

तथेति मदयुक्तः स चकार नहुषस्ततः ।
विमानवाहान् सङ्गृह्य दुरात्मा ब्राह्मणान् बलात् ॥ ४७ ॥

ततो दुःखं द्विजानां स ज्ञात्वाऽत्रेयः समाययौ ।
दुर्वासास्तं प्रगृह्यैव वाहकं स चकार ह ॥ ४८ ॥

ततोऽतिवेगभावार्थं सर्पध्वं ब्राह्मणान्नृपः ।
उवाच शिबिकायां स संस्थितो मोहसंयुतः ॥ ४९ ॥

दुर्वासाः कुपितोऽत्यन्तं ददौ शापं सुदारुणम् ।
सर्पो भव महादुष्ट पत भूमौ नृपाधम ॥ ५० ॥

ततस्तं प्रणनामाऽथ गतगर्वो महीपतिः ।
उच्छापं वद मे ब्रह्मन् दयया त्वं दयानिधे ॥ ५१ ॥

धिङ् मां ब्राह्मणभावेषु विपरीतं प्रवर्तिनम् ।
मोहेन मोहितं पूर्णं तारयस्व महामुने ॥ ५२ ॥

ततस्तापसमायुक्तं नहुषं मुनिसत्तमः ।
दुर्वासाः प्रत्युवाचेदं वचनं दयया युतः ॥ ५३ ॥

दुर्वासा उवाच ।

तव वंशे महाराज धर्मः साक्षाद्भविष्यति ।
युधिष्ठिरस्तदा तस्य दर्शनं ते भविष्यति ॥ ५४ ॥

तेन सङ्कथितं ज्ञानं ज्ञात्वा शापविवर्जितः ।
भविष्यसि न सन्देहोऽधुना गच्छ महीतलम् ॥ ५५ ॥

द्विजाः पूज्याः सदा राजन्नृपैर्नान्ये कदाचन ।
त्वयाऽवमानिता विप्रा वाहकास्ते कृता बलात् ॥ ५६ ॥

तेनाऽतिधर्मलोपो वै जातस्ते नात्र संशयः ।
पुनर्धर्मं निरीक्ष्य त्वं धर्मयुक्तो भविष्यसि ॥ ५७ ॥

एवमुक्त्वा स दुर्वासा गतः स्वेच्छापरायणः ।
नहुषः सर्परूपोऽभूत् पपात धरणीतले ॥ ५८ ॥

तत इन्द्रं समानीय सामरश्च बृहस्पतिः ।
इन्द्रासने समास्थाप्य मुदितः स बभूव ह ॥ ५९ ॥

नहुषो वनमध्ये स चचार गणपं स्मरन् ।
अहो विघ्नयुतं सर्वं जगत् स्थावरजङ्गमम् ॥ ६० ॥

अहं विघ्नेन संयुक्तः कृतो विघ्नेशरूपिणा ।
अतस्तं शरणं यामि तेन सर्वं शुभं भवेत् ॥ ६१ ॥

ततः क्रमेण तेनाऽपि जितं चित्तं प्रजापते ।
सर्पदेहगतेनैव गाणपत्यस्वभावतः ॥ ६२ ॥

ततो बहौ गते काले वनमायाद् युधिष्ठिरः ।
द्रौपद्याः भ्रातृभिः सार्द्धं द्यूतदोषेण निश्चितम् ॥ ६३ ॥

ततो भीमो वने तत्र चचार फलकाम्यया ।
नहुषेण समादृष्टो बद्धो ज्ञात्वा स पाण्डवः ॥ ६४ ॥

स्वदेहेनावृतं भीमं कृत्वा नागस्वरूपधृक् ।
पातयामास भूमौ तं बलेन बलवान्नृपः ॥ ६५ ॥

भीमेन तत्र नादश्च कृतो मेघसमो महान् ।

[[६६]]

तं श्रुत्वा धर्मराजः स ययौ भीमं महाबलम् ॥ ६६ ॥

सर्पेण वेष्टितं भीमं दृष्ट्वा दुःखसमन्वितम् ।
युधिष्ठिरं स तं तत्रोवाच नागो महाबलः ॥ ६७ ॥

नाग उवाच ।

अहं नहुषनामा ते नृपः पुत्र न संशयः ।
दर्शनार्थं मया चाऽयं भीमः सञ्जगृहेऽधुना ॥ ६८ ॥

अहं पृच्छामि राजंस्त्वां तद्वदस्व यथातथम् ।
तदा भीमं प्रमोक्ष्यामि सर्वज्ञस्त्वं मतो यतः ॥ ६९ ॥

नहुषस्य वचः श्रुत्वा हर्षितः स युधिष्ठिरः ।
तमुवाच महाभागं स्ववंशवरभूषणम् ॥ ७० ॥

युधिष्ठिर उवाच ।

वद नाग महाभाग मान्योऽसि त्वं महामते ।
संशयं छेदयिष्यामि प्रसादात्तव मानद ॥ ७१ ॥

नहुष उवाच ।

किं सत्यं किं तथा राजन्ननृतं धर्ममुत्तमम् ।
पापं बन्धं च मोक्षं किं योगं ध्यानं वदस्व च ॥ ७२ ॥

किं कर्म किमकर्म त्वं किं विकर्म स्मृतं भवेत् ।
किं ज्ञानं किं तपोमूलं दैवतं किं वदस्व मे ॥ ७३ ॥

किं सारं किमसारं च किं मान्यं च तथा नृप ।
अवमान्यं च सर्वेशं किं वदस्व युधिष्ठिर ॥ ७४ ॥

एतान् वै वद मे वत्स तदा भीमं महामते ।
मोचयिष्यामि वेगेन गमिष्यामि यथेच्छया ॥ ७५ ॥

युधिष्ठिर उवाच ।

सत्यं ब्रह्म च विज्ञेयं जगद्वै ह्यनृतात्मकम् ।
धर्मः स्वधर्मरूपश्च जानीया राजसत्तम ॥ ७६ ॥

स्वधर्महीनं रूपं यत् पापं सर्वैः प्रकीर्तितम् ।
अहं ममात्मको बन्धो मोक्षस्ताभ्यां विवर्जितः ॥ ७७ ॥

योगश्चित्तस्य रोधो वै ध्यानं निर्विषयं मनः ।
कर्म सत्कर्मरूपं वै ज्ञातव्यं विबुधैः सदा ॥ ७८ ॥

ब्रह्मार्पणात्मकं सर्वमकर्म कथितं किल ।
विकर्म पापाचरणं सर्वशास्त्रैः प्रकाशितम् ॥ ७९ ॥

ज्ञानं ब्रह्माहमित्युक्तं तपो द्वन्द्वसमात्मकम् ।
दैवतं सर्वपूज्यं वै गाणेशं विद्धि मानद ॥ ८० ॥

देवस्य भजनं सारं नवधा सततं नृप ।
असारं विषयाणां वै भजनं नवधा स्मृतम् ॥ ८१ ॥

मान्यं सङ्कथितं वेदैः पुराणैः स्मृतिभिर्भवेत् ।
वेदाधारविहीनं यदवमान्यं मनीषिभिः ॥ ८२ ॥

सर्वेशं हृदि संस्थं वै विद्धि बुद्धिप्रचालकम् ।
सर्वं ते कथितं स्वामिन् मोचयस्वाऽनिलात्मजम् ॥ ८३ ॥

एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम् ।
दिव्यभोगसमायुक्तं तद्ददर्श युधिष्ठिरः ॥ ८४ ॥

मुमोच नहुषो भीमं तं तदा बन्धनात् प्रभो ।
देहं त्यक्त्वा विमानस्थो ययौ स्वर्गं नराधिपः ॥ ८५ ॥

तत्रेन्द्रस्य समीपे सोऽभवदर्धासनस्थितः ।
गणेशमभजन्नित्यं स नृपोऽनन्यचे?तसा ॥ ८६ ॥

स्वर्गान्ते स गतो भूपः शुक्लगत्या गजाननम् ।
विघ्नहीनः स्वभावेन पुण्यश्लोको बभूव ह ॥ ८७ ॥

नहुषस्य चरित्रं ते कथितं पापनाशनम् ।
शृणुयाद्वा पठेद्वाऽपि तस्मै कामप्रदं भवत् ॥ ८८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते नहुषचरितं नाम त्रिंशत्तमोऽध्यायः ॥

[[६७]]