॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
पुरूरवाश्चकाराऽसौ राज्यं भूमण्डलस्य च ।
धर्मयुक्तः सुनीत्या तान् पालयामास मानवान् ॥ १ ॥
मुनिशापसमायुक्तोर्वशी नृपतिमाययौ ।
कुरुक्षेत्रे चरन्तं स चकमे तां महीपतिः ॥ २ ॥
सोवाच पुत्रतुल्यौ मे उरणौ रक्षसि प्रभो ।
रतिं विना स्वदेहं त्वं नग्नं मा दर्शयस्व माम् ॥ ३ ॥
तदा तव गृहे राजन् वसामि घृतभोजना ।
तथेति स तु भूपस्तां सङ्गृह्य गृहमाययौ ॥ ४ ॥
तस्यां पुत्रा बभूवुश्च षडिन्द्रसमतेजसः ।
आयुर्मायुरमायुश्च विश्वायुश्च तथा प्रभो ॥ ५ ॥
शतायुः स्थायुरेते च नामभिः परिकीर्तिताः ।
चन्द्रवंशकराः सर्वे बभूवुर्जयशालिनः ॥ ६ ॥
तत इन्द्रेण गन्धर्वाः प्रेषिता राजवेश्मनि ।
उर्वशीनयनार्थं वै विश्वावसुपुरोगमाः ॥ ७ ॥
तैर्मायाप्रकृती तत्र रात्रौ तस्याः समाहृतौ ।
उरणौ च तथा ताभ्यां शब्दैः प्ररुदितं भृशम् ॥ ८ ॥
तयो रुदनमाकर्ण्य राजानं रभसाज्जगौ ।
उर्वशी वीर्यहीनं त्वां न जानामि नरेश्वरम् ॥ ९ ॥
मम पुत्रौ हृतौ केन चौरेण किमु पश्यसि ।
तस्या वचनमाकर्ण्य क्रोधरूपो बभूव सः ॥ १० ॥
नग्नः खड्गधरः सद्यो निर्ययौ भाविगौरवात् ।
विद्युत्पातस्तथा तत्र समभूद्देवनिर्मितः ॥ ११ ॥
तेजसा विद्युतस्तत्र राजा नग्नो बभौ गृहे ।
तथा तमुर्वशी दृष्ट्वाऽन्तर्धानं सा चकार वै ॥ १२ ॥
मेषौ प्रगृह्य गन्धर्वा गताः स्वर्गं विहायसा ।
उर्वशीसहिताः शक्रं प्रणेमुर्हर्षसंयुताः ॥ १३ ॥
राजा स्वगृहमध्ये तां न ददर्श यशस्विनीम् ।
तदा पपात भूपृष्ठे हाहाकृत्वा मुमूर्च्छ सः ॥ १४ ॥
तथाविधो महाराजो विललाप पुरूरवाः ।
बभ्राम वसुधां सर्वामुर्वशीदर्शनोत्सुकः ॥ १५ ॥
ततो बहौ गते काले वर्षमात्रे दयायुताम् ।
कुरुक्षेत्रे पुनस्तां स दृष्टवान् हर्षितोऽभवत् ॥ १६ ॥
मां त्यक्त्वा क्व गताऽसि त्वं प्रिये ते भक्तिसंयुतम् ।
अधुना मां गृहाण त्वं त्यज मा चाप्सरोवरे ॥ १७ ॥
ततस्तेन समायुक्ता रात्रिमेकामुवास सा ।
उवाच तं तु राजानं शोकयुक्तं वचो हितम् ॥ १८ ॥
अहं देवाप्सरो रम्या गन्धर्वाऽधीनतां गता ।
अतस्तं पितृयज्ञेन यज त्वं नित्यमादरात् ॥ १९ ॥
ततः स्वर्गे च ते वासो भविष्यति महामते ।
त्वदधीना भविष्यामि नित्यं राजन्न संशयः ॥ २० ॥
[[६२]]
ततः शोकाकुलो राजा रुरोदातीव दारुणम् ।
सा तथा विह्वलं दृष्ट्वोवाच देवाङ्गना च तम् ॥ २१ ॥
वर्षे वर्षे च भो राजन्नेकरात्रिं वसाम्यहम् ।
त्वया सार्द्धं महाभाग ततः साऽन्तर्हिताऽभवत् ॥ २२ ॥
राज्ञाऽपि तादृशं तत्र कृतं नित्यं प्रजापते ।
तेन पितृगणास्तुष्टा वरं राज्ञे ददौ परम् ॥ २३ ॥
उर्वशी त्वदधीना सा भविष्यति महामते ।
तव नामाङ्किता देवाः श्राद्धेऽस्माकं भवन्तु च ॥ २४ ॥
अक्षयः पितृलोकस्ते भविष्यति न संशयः ।
एवमुक्त्वाऽन्तर्दधुस्ते पितरो भक्तवत्सलाः ॥ २५ ॥
ततः स्वल्पेन कालेन भूमिपो निधनं गतः ।
स्वर्गं पुण्यबलेनैव जगाम स पुरूरवाः ॥ २६ ॥
तत्रोर्वशी समायुक्तो बुभुजे विषयप्रियः ।
भोगान् स्वर्गोद्भवान् नित्यं तामवाप्य पुरूरवाः ॥ २७ ॥
ततो बहौ गते काले पितृलोके गतेन सः ।
नारदेन महीपालो बोधितो दयया विधे ॥ २८ ॥
नारद उवाच ।
किं राजंस्त्वं महाभाग विषयेषु विशेषतः ।
सक्तः पश्य स्वमात्मानं पतिष्यसि न संशयः ॥ २९ ॥
देहोऽयं बन्धनागारं तत्र त्वं निगडेन च ।
बद्धस्तस्माच्च योगेन बन्धहीनो भव प्रभो ॥ ३० ॥
पुनः पुनश्च भोगाः किं भोक्तव्यास्तादृशास्त्वया ।
न तृप्तिमधिगच्छन्ति जना अज्ञानसंयुताः ॥ ३१ ॥
ब्रह्मामृतं पिब त्वं च सदा स्वानन्ददायकम् ।
तत्त्यक्त्वाऽल्पसुखे सक्तः पतिष्यसि पुनर्ह्यधिः ॥ ३२ ॥
चतुरशीति लक्षासु नरो भ्रमति योनिषु ।
तत्र स्त्रीपुत्रकाद्यं स लभते नाऽत्र संशयः ॥ ३३ ॥
मनुष्ययोनिगो भूत्वा नरः सर्वार्थवान् भवेत् ।
तत्र ज्ञानं विशेषेण भवत्यत्र न संशयः ॥ ३४ ॥
कर्मार्हो नरदेहोऽयं तत्र योगो न साधितः ।
पतिष्यति पुनः सोऽपि नानायोनिषु मानद ॥ ३५ ॥
द्वन्द्वभावमयं दुःखं यत्र तत्र च विन्दति ।
न शाश्वतस्वरूपं स ब्रह्म भुङ्क्ते नरः कदा ॥ ३६ ॥
त्वमपि ज्ञानयुक्तः सन् किं करोषि महामते ।
तारयस्व स्वमात्मानं योगेन नरसत्तम ॥ ३७ ॥
नारदस्य वचः श्रुत्वा तं जगाद नराधिपः ।
सत्यमुक्तं त्वया योगिन् मया तच्चैव सन्धृतम् ॥ ३८ ॥
अहं विषयदोषेण पीडितोऽतितरां प्रभो ।
निर्वेदं मे मनः प्राप्तं ज्ञानं ब्रूहि महामुने ॥ ३९ ॥
नारद उवाच ।
गणेशं भज भावेन ततः क्षेमं भविष्यति ।
एकाक्षरविधानेन सर्वेभ्यश्च परात्परम् ॥ ४० ॥
हृदि बुद्धिप्रदातारं बहिः सिद्धिप्रदं परम् ।
योगाकारं च सर्वत्र संस्थितं ब्रह्मनायकम् ॥ ४१ ॥
चित्तं त्यक्त्वा महाराज भव चिन्तामणिः स्वयम् ।
एवमुक्त्वा च तस्मै स ददावेकाक्षरं मनुम् ॥ ४२ ॥
ततस्तेनाभ्यनुज्ञातो नारदः प्रजगाम ह ।
सोऽपि तामुर्वशीं त्यक्त्वा ध्यानसंस्थो बभूव ह ॥ ४३ ॥
कालेन स्वल्पभावेन गाणपत्यो बभूव ह ।
ततः स निन्दयामास स्वात्मानं भृशदुःखितः ॥ ४४ ॥
[[६३]]
अहो मयाऽतिमूर्खेण कृतं कर्म विशेषतः ।
भोगदं मोहितेनैव स्त्रीकामेन न संशयः ॥ ४५ ॥
अस्थिमांसमयो देहस्तत्र दुर्गन्धसंयुतः ।
छिद्रं मूत्रगृहं नीचं तत्र सक्तो भवाम्यहम् ॥ ४६ ॥
सर्वार्थदं मनुष्याणां देहं प्राप्य मया सदा ।
नरकाधिप्रदं कर्म कृतं वै नात्र संशयः ॥ ४७ ॥
नरदेहमवाप्यैव मद्विना को भवेच्छठः ।
स्त्रीसंसक्तो विशेषेण त्यक्त्वा गणपतिं नरः ॥ ४८ ॥
एवं खेदसमायुक्तो बभूव नृपसत्तमः ।
अभजत्तं स्वभावेन गणेशं सर्वसिद्धिदम् ॥ ४९ ॥
अन्ते जगाम योगेन गणेशं स पुरूरवाः ।
महिमा कथितस्तस्य पापनाशकरो यतः ॥ ५० ॥
पुरूरवस आख्यानं यः शृणोति नरोत्तमः ।
पापक्षयकरं तस्य भवतीदं प्रजापते ॥ ५१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते पुरूरवसश्चरितकथनं नामैकोनत्रिंशोऽध्यायः ॥