॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
सूत त्वया महाख्यानं कथितं सर्वसिद्धिदम् ।
श्रुत्वा तृप्तिं न यामीहाऽमृतं पीत्वा यथा नरः ॥ १ ॥
पुनस्त्वं वद मे ब्रह्मन् भवेद्दक्षेण संश्रुतम् ।
मुद्गलान् मुनिमुख्याच्च सर्वेषां सम्मतं परम् ॥ २ ॥
सूत उवाच ।
सूर्यस्य वालखिल्यानां संवादं ब्रह्मदायकम् ।
श्रुत्वा पप्रच्छ तं दक्षो मुद्गलं विनयान्वितः ॥ ३ ॥
दक्ष उवाच ।
श्रुतं हेरम्बमाहात्म्यं ब्रह्मभूतपदप्रदम् ।
पुनस्त्वं वद विप्रर्षे महोदरचरित्रकम् ॥ ४ ॥
श्रुत्वा श्रुत्वा न मे तृप्तिर्जायते योगिसत्तम ।
कथां ब्रह्ममयीं पूर्णां सुधारससमां पराम् ॥ ५ ॥
सूत उवाच ।
दक्षस्य वचनं श्रुत्वा हृष्टरोमा महायशाः ।
जगाद तं प्रजापालं यत्तच्छृणु हि शौनक ॥ ६ ॥
मुद्गल उवाच ।
युधिष्ठिरेण देवेशो मानप्रद महोदरः ।
आराधितो विशेषेण योगी सोऽभूच्च पाण्डवः ॥ ७ ॥
दक्ष उवाच ।
युधिष्ठिरस्य विप्रर्षे चरित्रं वद साम्प्रतम् ।
प्रारभ्य चन्द्रवंशाच्च तदन्तं पुण्यदं भवेत् ॥ ८ ॥
मुद्गल उवाच ।
अत्रिनेत्रात् समुत्पन्नश्चन्द्रोऽमृतमयः पुरा ।
तेनातितपसा देवः सेवितो गणनायकः ॥ ९ ॥
गणेशवरदानेन ताराणामधिपोऽभवत् ।
ओषधीनां च विप्राणां योगयुक्तः प्रतापवान् ॥ १० ॥
ततः स राजा मोहेन मोहितोऽतितरां विभो ।
गणेशभजनं त्यक्त्वा भोगयुक्तो बभूव ह ॥ ११ ॥
ततो विघ्नेन वै चन्द्रः पीडितो मोहसंयुतः ।
मोहेन गर्हितं कर्म यच्चकार शृणुष्व तत् ॥ १२ ॥
[[६०]]
बृहस्पतेश्च या नारी तारा यौवनशालिनी ।
रूपेणाप्रतिमा तां स जगृहे तीर्थसंश्रिताम् ॥ १३ ॥
मा मेति ब्रुवतीं तारां हाहाकारं प्रकुर्वतीम् ।
गुरुपत्नीं महामूर्खश्चुचुम्ब हठसंयुतः ॥ १४ ॥
वनेषु पर्वतद्रोण्यां नानाभावेषु सोऽत्रिजः ।
रेमे तया प्रजापाल कामबाणप्रपीडितः ॥ १५ ॥
ततो बहौ गते काले गर्भस्तस्यां व्यवर्धत ।
न मुमोच तदाऽप्येतां मोहयुक्तश्च चन्द्रमाः ॥ १६ ॥
बृहस्पतिश्च तं ज्ञात्वा वृत्तान्तं क्षुभितो भृशम् ।
नानायत्नेन चन्द्रं स ययाचे न ददौ शठः ॥ १७ ॥
ततश्च गुरुणा दक्ष शिवस्तेन प्रसादितः ।
शम्भुरङ्गिरसः शिष्यः स वै क्रोधयुतोऽभवत् ॥ १८ ॥
देवैरिन्द्रादिभिः सर्वैः शङ्करः क्रोधसंयुतः ।
हन्तुं चन्द्रं ययौ तत्र क्रोधारुणविलोचनः ॥ १९ ॥
भयभीतः शशी तत्र शुक्रं स शरणं ययौ ।
तेनाप्याङ्गिरस्यैव वैरी सम्पादितोऽभवत् ॥ २० ॥
शुक्रेणाकारिता दैत्याः प्रह्लादप्रमुखा ययुः ।
सङ्ग्रामाय शिवेनैव ससुरेण महाबलाः ॥ २१ ॥
ततस्तेषामभूद्युद्धं तुमुलं रोमहर्षणम् ।
दैत्यानां चैव देवानां परस्परविनाशनम् ॥ २२ ॥
मासमात्रं महोग्रं तन्न शान्तिमलभन् कदा ।
दिवारात्रं देवगणा दैत्यानां च गणा विभो ॥ २३ ॥
ततो बृहस्पतिर्दुःखात् सस्मार गणनायकम् ।
निन्दयामास चात्मानं तथा चन्द्रं प्रजापते ॥ २४ ॥
अहो भ्रातृविरोधेन मम ज्ञानं गतं महत् ।
गतो गणेशस्तेनाऽहं विघ्नयुक्तोऽधुनाऽभवम् ॥ २५ ॥
मदर्थं देवदैत्यानामधुना नाश आगतः ।
किं भविष्यति देवेश गजानन नमोऽस्तु ते ॥ २६ ॥
निर्विघ्नं कुरु मां ढुण्ढेऽधुना देव दयानिधे ।
देवानां चैव दैत्यानां मूलच्छेदो भविष्यति ॥ २७ ॥
तथा चन्द्रः स तं देवं सस्मार हृदि भावतः ।
ततो विघ्नहरश्चैव तयोर्दक्ष बभूव ह ॥ २८ ॥
तत्राऽऽजगाम देवेशो ब्रह्मा सर्वपितामहः ।
देवानां दानवानां वै ज्ञात्वा नाशं दयान्वितः ॥ २९ ॥
शङ्कराद्यांश्च देवान् स प्रह्लादाद्यांश्च दानवान् ।
वारयामास सर्वज्ञो विधाता सर्वभावनः ॥ ३० ॥
ब्रह्मणो वचनं श्रुत्वा संस्थिता देवदानवाः ।
प्रणम्य तं विधातारं बद्धाञ्जलिपुटाः पुरः ॥ ३१ ॥
चन्द्रं ततस्तिरस्कृत्य ददौ तारां पितामहः ।
गुरवे तत्र संवादः पुत्रार्थं च तयोरभूत् ॥ ३२ ॥
ताराया उदरे गर्भो वा चन्द्रस्य बृहस्पतेः ।
न ज्ञायते देवगणैस्ततस्तां विधिरब्रवीत् ॥ ३३ ॥
त्यज गर्भं महाभागे कस्याऽंशोऽयं वद स्नुषे ।
तथा तया च सन्त्यक्तो गर्भः सम्पतितोऽभवत् ॥ ३४ ॥
महातेजोमयं पुत्रं वीक्ष्य देवा विसिस्मिरे ।
लज्जयाऽधोमुखी तारा कथयामास नैव तम् ॥ ३५ ॥
ततो गर्भः स्वयं तत्रोवाच ब्रह्माणमादरात् ।
चन्द्रस्याऽहं न सन्देहस्तं ताराऽपि तथाऽब्रवीत् ॥ ३६ ॥
तस्य नाम कृतं देवैर्बुधस्तेन सुकर्मणा ।
चन्द्राय तं ददौ धाता सर्वे स्वस्वालयं ययुः ॥ ३७ ॥
एवं पुरा तारकार्थे सङ्ग्रामस्तारकामयः ।
बभूव परमुग्रश्च दैत्यदेवविनाशकृत् ॥ ३८ ॥
[[६१]]
बुधस्य चरितं पूर्णं कथितं ते प्रजापते ।
पुरूरवास्तस्य पुत्रो बभूवाऽपि महायशाः ॥ ३९ ॥
इलायां गर्भसन्दानात्तस्य जन्म मया पुरा ।
कथितं सोऽपि राजर्षिः पितृतृप्तिकरोऽभवत् ॥ ४० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते बुधोत्पत्तिवर्णनं नामाष्टाविंशतितमोऽध्यायः ॥