॥ श्रीगणेशाय नमः ॥
नरनारायणवूचतुः ।
इत्यादि राजमाहात्म्यं वक्तुं नैव प्रशक्यते ।
सर्वं मायामयं विद्धि मार्कण्डेय विशेषतः ॥ १ ॥
ब्रह्मणा सृष्टमापूर्णं विष्णुना पालितं तथा ।
हरेण संहृतं सर्वं ब्रह्माण्डं मायया कृतम् ॥ २ ॥
अनन्तानि च सर्वत्र ब्रह्माण्डानि स्थितानि वै ।
महाकारणरूपेण सन्धृता विद्धि मानद ॥ ३ ॥
मायात्मकानि सर्वाणि ज्ञातव्यानि विशेषतः ।
भ्रमनाशेन योगेन ज्ञायन्ते नात्र संशयः ॥ ४ ॥
मनोवाणीमयं सर्वं भ्रमरूपं प्रकथ्यते ।
मनोवाणीविहीनं वै तदेवं तादृशं मतम् ॥ ५ ॥
धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमेव च ।
भ्रमेण मायया विप्र भासते योगिनां हृदि ॥ ६ ॥
रामस्य चरितं पूर्णं कथितं ते समासतः ।
किं श्रोतुमिच्छसि प्राज्ञ गमिष्यावो निजाश्रमम् ॥ ७ ॥
भानुरुवाच ।
तयोर्वचनमाकर्ण्य मार्कण्डेयश्च तौ पुनः ।
जगाद प्रणतो भूत्वा योगार्थं पूर्णभावतः ॥ ८ ॥
[[५७]]
मार्कण्डेय उवाच ।
नरनारायणौ देवौ भवद्भ्यां पावितोऽह्यहम् ।
कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥ ९ ॥
अतो गणेशयोगं मे वदतं येन चाप्यहम् ।
रामवच्छान्तिमाश्रित्य ब्रह्मभूतो भवामि च ॥ १० ॥
नरनारायणावूचतुः ।
गणेशयोगमार्गं ते वदिष्यावः सुयुक्तितः ।
न शक्तिस्तं वर्णयितुं मनसाऽपि मुनीश्वर ॥ ११ ॥
चित्तं पञ्चविधं विप्र तत्र चिन्तामणिः स्थितः ।
पञ्चवृत्तिनिरोधेन लभ्यते नात्र संशयः ॥ १२ ॥
भ्रान्तिदा सर्वभावेषु सिद्धिः सर्वत्र संस्थिता ।
भ्रान्तिधारकरूपा वै बुद्धिः सा कथ्यते बुधैः ॥ १३ ॥
तयोर्बिम्बं च यत् प्रोक्तं तदेव गणनायकः ।
मोहयुक्तः स्वभावेन खेलते मुनिसत्तम ॥ १४ ॥
बिम्बिभावं परित्यज्य भव त्वं गणनायकः ।
अहं गणेशरूपश्च योगोऽयं शान्तिदायकः ॥ १५ ॥
चित्तं पञ्चविधं त्यक्त्वा तदैश्वर्यं भ्रमात्मकम् ।
अधुना गणनाथो वै त्वं योगेन भविष्यसि ॥ १६ ॥
मनोवाणीमयं सर्वं गकाराक्षरवाचकम् ।
मनोवाणी विहीनं च णकारः कथ्यते बुधैः ॥ १७ ॥
तयोः स्वामी गणेशानो वेदे पश्य महामुने ।
तं भजस्व ततः शान्तिं गच्छसि त्वं न संशयः ॥ १८ ॥
एवमुक्त्वा वालखिल्या नरनारायणावृषी ।
विरेमतुरथैवं तं जानीत गणनायकम् ॥ १९ ॥
तौ प्रणम्य पुनः प्राह मार्कण्डेयः प्रतापवान् ।
धन्योऽहं भवतोश्चैव दर्शनेन महामुनी ॥ २० ॥
मायां मोहकरीं नाथौ द्रष्टुमिच्छामि शाश्वतीम् ।
दर्शयेतं महामायां भगवन्तौ नमाम्यहम् ॥ २१ ॥
भानुरुवाच ।
तथेति तं वालखिल्या ऊचतुर्मुनिसत्तमौ ।
पश्यसि त्वं महामायां मार्कण्डेय न संशयः ॥ २२ ॥
आज्ञां प्रगृह्य तेनैव पूजितौ योगिनां वरौ ।
ययतुः स्वाश्रमं योगाद्गाणपत्यौ महर्षयः ॥ २३ ॥
ततः कदाचिद्विप्रेन्द्रो मार्कण्डेयः स्व आश्रमे ।
संस्थितो योगिनौ ध्यात्वा मायादर्शनलालसः ॥ २४ ॥
ततोऽकस्मात् प्रशुश्राव महानादं समुद्भवम् ।
भयभ्रान्तोऽभवत् सोऽपि ततो मेघा जगर्जिरे ॥ २५ ॥
हस्तिहस्तोपमाभिस्ते धाराभिर्ववृषुस्ततः ।
मेघैस्तत्र जगत् सर्वं मज्जितं पश्यतो मुनेः ॥ २६ ॥
ततः समुद्रजेनैव जलेन प्लावितं महत् ।
सर्वं चराचरं तत्र बभ्राम मुनिसत्तमः ॥ २७ ॥
मत्स्यादिभिश्च विप्रेन्द्रः किञ्चित् क्षतयुतः कृतः ।
सस्मार गणनाथं स मार्कण्डेयोऽतिविह्वलः ॥ २८ ॥
ततो ददर्श तत्रैव वटपत्रस्थितं शिशुम् ।
अङ्गुष्ठपर्वमात्रं स विष्णुं सर्वार्थदं परम् ॥ २९ ॥
तं प्रणम्य प्रतुष्टाव मार्कण्डेयो महर्षयः ।
अथर्वशिरसा देवं सन्तुष्टं स चकार ह ॥ ३० ॥
उवाच तं स विप्रेन्द्रं किमिच्छसि महामुने ।
वद तेऽहं प्रदास्यामि वरदो नात्र संशयः ॥ ३१ ॥
तं प्रणम्य तथोऽवाच मार्कण्डेयः प्रसन्नधीः ।
मायां दर्शय मे विष्णो तां ज्ञात्वा सन्त्यजाम्यहम् ॥ ३२ ॥
ततस्तं विष्णुरूपः स बालको भक्तियन्त्रितः ।
जगाद हास्यसंयुक्तो भक्तरक्षणतत्परः ॥ ३३ ॥
[[५८]]
बालविष्णुरुवाच ।
पश्य मायां महर्षे त्वं ज्ञानदृष्ट्या महामुने ।
ज्ञानचक्षुर्मया दत्तं तुभ्यं भक्तिप्रभावतः ॥ ३४ ॥
मार्कण्डेयस्ततो विप्रा ज्ञानचक्षुःसमन्वितः ।
मायामपश्यदानन्दान्नानाभावप्रकाशिनीम् ॥ ३५ ॥
व्याप्यव्यापकरूपेण द्विजाः सर्वत्र संस्थिताः ।
नानागुणविभेदेन मोहयन्ति नरान् सदा ॥ ३६ ॥
कुत्र ब्रह्माण्डनाशश्च कुत्र ब्रह्माण्डपालनम् ।
कुत्रोत्पत्तिश्च विप्रेन्द्रा दृश्यते तेन योगिना ॥ ३७ ॥
कुत्र शून्यमयं कुत्र पूर्णरूपं तथा पुनः ।
ध्यानसंस्थं परं ब्रह्म ददर्श मुनिसत्तमः ॥ ३८ ॥
कुत्र योगार्थमत्यन्तं नराः परमभाविकाः ।
लिप्यन्ते कुत्र भोगार्थं मोक्षार्थं कुत्रचिद् द्विजाः ॥ ३९ ॥
पुनः पुनश्च सृज्यन्ते म्रियन्ते च पुनः पुनः ।
ईश्वरानेश्वराः कुत्र प्रभवन्तीश्वरा नराः ॥ ४० ॥
अमृतं विषरूपं च विषं चामृतदायकम् ।
ददर्श तत्र विप्रर्षिः सूर्यं शीतत्वमास्थितम् ॥ ४१ ॥
स्थले जलं जले चैव स्थलं नानाविकारजम् ।
मुक्तं नरं तथा बद्धं ददर्श मुनिसत्तमः ॥ ४२ ॥
न प्रलेभे गतिं तत्रेश्वरो भ्रान्त्या ह्यनीश्वरः ।
जगच्च जगदात्मा वै ततोऽसौ विस्मितोऽभवत् ॥ ४३ ॥
एवं नानाविधं भावं ददर्श मुनिसत्तमः ।
न शक्यते मया वक्तुं वर्षकोटिशतैरपि ॥ ४४ ॥
ततस्तं परितुष्टाव बालविष्णुं महामुनिः ।
नानास्तोत्रैः सुतुष्टं स प्रार्थयामास भावतः ॥ ४५ ॥
निवर्तय हरे मायां कुरु मां पूर्ववद्यथा ।
इति प्रार्थयमानं स चक्रे स्वे चाश्रमे स्थितम् ॥ ४६ ॥
ततस्तत्र द्विजेन्द्रेण न दृष्टमिव तद्बभौ ।
यथा स्वप्नगतं जन्तुर्न ददर्श समुत्थितः ॥ ४७ ॥
न जलं नैव सामुद्रं भयं दुःखं न केशवः ।
बालरूपधरश्चैव न माया तेन विस्मितः ॥ ४८ ॥
?वालखिल्यास्ततो विप्रस्त्यक्त्वा मायां भ्रमात्मिकाम् ।
गणेशभजने सक्तोऽजपद्वै मन्त्रमुत्तमम् ॥ ४९ ॥
नरनारायणाभ्यां यः कथितो योग उत्तमः ।
हेरम्बमन्त्रभावेन साधयामास तं पुनः ॥ ५० ॥
रामेण साधितः पूर्वं तथा तेनाऽपि साधितः ।
योगः शान्तिप्रदः पूर्णो गाणपत्यस्वभावतः ॥ ५१ ॥
योगशान्तिपरो भूत्वाऽभजत्तं गणनायकम् ।
अनन्यचेतसा सोऽपि मार्कण्डेयः सुयोगवित् ॥ ५२ ॥
अन्ते गणेशदेहे स सायुज्यं प्राप भक्तितः ।
एवं नानाविधा विप्रा गाणेशाः सम्भवन्ति वै ॥ ५३ ॥
एतन् मृकण्डपुत्रस्य चरितं यः शृणोति वा ।
पठेत्तु तस्य वै मायाबन्धो न प्रभविष्यति ॥ ५४ ॥
महोदरो भवेद्देवो हेरम्बाख्यः प्रकीर्तितः ।
विद्याधीशपुरे भक्तिसिद्धिदस्तत्र तिष्ठति ॥ ५५ ॥
अतोऽहं गणनाथं तं प्रभजे वालखिल्यकाः ।
योगभावेन संसाध्यं कृत्वा भक्तिसमन्वितः ॥ ५६ ॥
मुद्गल उवाच ।
एवं भानोर्वचः श्रुत्वा प्रणेमुर्वालखिल्यकाः ।
रविं सर्वत्र चात्मानं तुष्टुवुर्विविधैः स्तवैः ॥ ५७ ॥
ऊचुः प्राञ्जलयस्ते तं भानुं सर्वप्रियं पुनः ।
कृतकृत्याः कृता भानो वयं देव न संशयः ॥ ५८ ॥
[[५९]]
किं प्रदद्मो महात्मंस्त्वां देहोऽयं ते समर्पितः ।
तेन तुष्टो भव स्वामिन् गुरुरस्माकमादरात् ॥ ५९ ॥
ततः सर्वे पुपूजुस्तं वालखिल्यास्तपोधनाः ।
प्रणम्य प्रययुस्ते वै तपसे वनमुत्तमम् ॥ ६० ॥
साधयित्वा यथायोगं श्रुतमत्र प्रजापते ।
योगिनः सर्ववन्द्यास्ते सम्बभूवुर्विशेषतः ॥ ६१ ॥
हेरम्बं भजमानाश्च नित्यं ध्यानपरायणाः ।
अनन्यबुद्धयः सर्वे योगशान्तिं प्रलेभिरे ॥ ६२ ॥
हेरं?बाख्यावतारश्च महोदरकलात्मकः ।
कथितस्ते प्रजापाल नानाख्यानसमन्वितः ॥ ६३ ॥
एतादृशाऽवताराश्च बहवस्तस्य मानद ।
महोदरस्य तेषां यच्चरित्रं परमाद्भुतम् ॥ ६४ ॥
नैव शक्यं कथयितुं तत् केनाऽपि न संशयः ।
अतः सङ्क्षेपतः प्रोक्तं मया दक्ष प्रजापते ॥ ६५ ॥
सूर्यस्य वालखिल्यानां संवादः परमाद्भुतः ।
ब्रह्मभूयप्रदः प्रोक्तो धर्मकामार्थमोक्षदः ॥ ६६ ॥
प्रभवेत् स विशेषेण सर्वसम्पत्प्रदायकः ।
मोहनाशकरः पूर्णः श्रोतुमिच्छसि किं पुनः ॥ ६७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते सूर्यवालखिल्यसंवादसमाप्तिवर्णनं नाम सप्तविंशतितमोऽध्यायः ॥