२६ रामचन्द्रचरितम्

॥ श्रीगणेशाय नमः ॥

नरानरायणावूचतुः ।
श्रुतस्य चैव नाभाख्यः पुत्रस्तस्य बभूव ह ।
सिन्धुद्वीपस्ततो जज्ञे ज्ञानी पुत्रो महायशाः ॥ १ ॥

अयुतायुः सुतस्तस्य ततो य ऋतुपर्णकः ।
स वै नलसखस्तस्मादश्वविद्यापरायणः ॥ २ ॥

सर्वकामस्ततो जज्ञे तस्माज्जातः सुदासकः ।
सौदासस्तस्य पुत्रोऽभूत् ख्यातः कल्माषपादकः ॥ ३ ॥

कल्माषपादक्षेत्रे वै वसिष्ठो मुनिसत्तमः ।
अश्मकं जनयामास चेक्ष्वाकुकुलवर्धकम् ॥ ४ ॥

अश्मकस्य च पुत्रोऽभून्मूलको नाम पार्थिवः ।
स हि रामभयाद्राजा वनं प्राप्य सुदुःखितः ॥ ५ ॥

तत्र नारीस्वरूपः सन्नारीभिः परिरक्षितः ।
नारीकवचनामाऽभूत् कर्मणा तेन भो मुने ॥ ६ ॥

तस्माच्छतरथश्चैलविलो जज्ञे च तत्सुतः ।
ततो विश्वसहस्तस्मात् खट्वाङ्गो ढुण्ढिमाप्तवान् ॥ ७ ॥

दीर्घबाहुस्ततस्तस्माद्रघुस्तस्मादजोऽभवत् ।
पुत्रो दशरथस्तस्य कश्यपांशः स वै स्मृतः ॥ ८ ॥

तस्य भार्यात्रयं चासीद्रूपेणाप्रतिमं मुने ।
कौसल्या चैव कैकेयी सुमित्रा धर्मसंयुता ॥ ९ ॥

यौवने प्रगते प्राप न राजा पुत्रमुत्तमम् ।
नानायत्नं चकाराऽसौ व्रततीर्थादिकं मुने ॥ १० ॥

ततो वसिष्ठं विप्रेशं सस्त्रीकः शरणं ययौ ।
प्रधानेषु विनिक्षिप्य राज्यं निहतकण्टकम् ॥ ११ ॥

वसिष्ठेन गणेशस्य मन्त्रो दत्तो दशाक्षरः ।
तस्मै राज्ञे तथा चैवोवाच पत्नीसमन्वितम् ॥ १२ ॥

सूर्यस्य कुलदेवत्वं सम्प्राप्तः स गजाननः ।
तस्य वंशे त्वमुत्पन्नः कथं विस्मृतवांश्च तम् ॥ १३ ॥

तस्य विस्मृतिमात्रेण न सिद्धिं पुरुषो लभेत् ।
परत्रेह च विघ्नेन पीडितोऽतिमहाद्भुतम् ॥ १४ ॥

अतस्त्वमपि राजेन्द्र गणपं भज भावतः ।
न त्याज्योऽयं मन्त्रराजस्त्यागे हानिर्भविष्यति ॥ १५ ॥

तथेति तं वसिष्ठं स उक्त्वा नत्वा ययौ वनम् ।
तताप वै दशरथस्तप उग्रं महायशाः ॥ १६ ॥

वायुमात्राशनो भूत्वाऽपूजयद् गणनायकम् ।
पत्न्या सह विनीतात्माऽजपत्तं मन्त्रमुत्तमम् ॥ १७ ॥

ततो वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः ।
आययौ तं वरान् दातुं मूषकारूढ एव सः ॥ १८ ॥

तं दृष्ट्वोत्थाय सस्त्रीको ननाम सहसा प्रभुम् ।
पूजयामास तं देवं स्तुत्वा स्तोत्रैर्ननाम च ॥ १९ ॥

ततस्तं गणराजो वै जगाद स नृपोत्तमम् ।
वरं ब्रूहि महाबाहो दास्ये ते मनसेप्सितम् ॥ २० ॥

ततस्तद्वचनं श्रुत्वोवाच संविनयान्वितः ।
प्रसन्नात्मा दशरथो गणेशं सर्वसिद्धिदम् ॥ २१ ॥

दशरथ उवाच ।

यदि प्रसन्नो देवेश तदा देहि गजानन ।
भक्तिं ते चरणे नाथ ययाऽज्ञानं न विद्यते ॥ २२ ॥

अन्यद्देहि गणाधीश पुत्रं पृथुलकीर्तिदम् ।
बलेनाप्रतिमं चैव तव भक्तिपरायणम् ॥ २३ ॥

मया यत्र तपस्तप्तं तत्र त्वं सुस्थिरो भव ।
पूरयन् भक्तिभावेन जनानां मनसीप्सितम् ॥ २४ ॥

तथेति वै दशरथं जगाद गणनायकः ।
अन्तर्धाय स्वमात्मानं ययौ स्वानन्दमादरात् ॥ २५ ॥

ततो वसिष्ठहस्तेन स्थापिता मूर्तिरादरात् ।
गणेशस्य च तत्राऽऽसीत् क्षेत्रं सकलसिद्धिदम् ॥ २६ ॥

[[५३]]

पूजयित्वा दशरथः सस्त्रीकश्च स विप्र तम् ।
आययौ नगरेऽयोध्यायां सर्वान् सम्प्रहर्षयन् ॥ २७ ॥

ततो रावणनाशार्थं विष्णुमाज्ञापयत् प्रभुः ।
गणेशः स तु पुत्रोऽभून् मुने दशरथस्य भोः ॥ २८ ॥

चतुर्धात्मानमाभज्य विबभौ हरिरव्ययः ।
कौसल्यायां समुत्पन्नो रामः शस्त्रभृतां वरः ॥ २९ ॥

कैकेय्यां भरतो जज्ञे सुमित्रायां च लक्ष्मणः ।
शत्रुघ्नश्चैव विप्रेन्द्र सर्वे विष्णुसमा बभुः ॥ ३० ॥

ततो दशरथो राजा कामभोगपरायणः ।
सञ्जातस्तं न सस्मार विस्मृत्या गणनायकम् ॥ ३१ ॥

ततो रामस्य मौञ्ज्यादि कर्म तेन कृतं मुने ।
विश्वामित्रेण यज्ञस्य रक्षार्थं याचितोऽभवत् ॥ ३२ ॥

स लक्ष्मणेन रामेण यज्ञस्तस्य प्रपालितः ।
हतः सुबाहको नाम राक्षसो दारुणो मुने ॥ ३३ ॥

प्रसन्नोऽभून् महायोगी विश्वामित्रः प्रतापवान् ।
अस्त्रविद्यां ददौ तस्मै रामाय सकलां मुने ॥ ३४ ॥

ततो जनकयज्ञं वै जगाम मुनिकौशिकः ।
रामलक्ष्मणसंयुक्तः पूजितो जनकेन सः ॥ ३५ ॥

माहेश्वरं धनुस्तत्र सज्यं रामेण वै कृतम् ।
आकर्षणेन महता भग्नं मध्ये महामुने ॥ ३६ ॥

ततो जनकभूपेन दत्ता सीता महात्मने ।
रामाय प्रीतियुक्तेन लक्ष्मणाय तथोर्मिला ॥ ३७ ॥

भ्रातृकन्ये ततो राज्ञा दत्ते तत्र महामुने ।
भरताय तथा शत्रुघ्नाय भावेन मानद ॥ ३८ ॥

ततो दशरथो राजा कैकेय्या प्रार्थितो भृशम् ।
रामस्य वनवासार्थं राज्यार्थं भरतस्य च ॥ ३९ ॥

वरदानप्रभावेन तथेति स चकार ह ।
वर्षाणि वनवासं स चतुर्दश च राघवः ॥ ४० ॥

सलक्ष्मणश्च सस्त्रीकश्चकार पितृगौरवात् ।
स तत्र नासिके रामो वासं चक्रे प्रहर्षितः ॥ ४१ ॥

तत्रातिथिस्वरूपेण रावणश्च समाययौ ।
एकाकिनीं च सीतां सङ्गृह्य लङ्कां ययौ खलः ॥ ४२ ॥

सलक्ष्मणस्ततो रामो न ददर्श विदेहजाम् ।
पपात मूर्च्छितो भूत्वा विललाप भृशातुरः ॥ ४३ ॥

ततो जगाम रामश्च सीतामन्वेषयन् वने ।
कर्णाटे तत्र शैवं स क्षत्रं मुख्यं ददर्श ह ॥ ४४ ॥

तत्र शम्भुं स रामो वै लक्ष्मणेन समन्वितः ।
आराधयन् महाभक्त्या मासं वै शैवरूपधृक् ॥ ४५ ॥

सन्तुष्टस्तत्र रामाय वरं प्रादात् सदाशिवः ।
सीताप्राप्तिस्वरूपं तमुपदेशं चकार सः ॥ ४६ ॥

शिव उवाच ।

शृणु राम महाभाग त्वं वै विष्णुः सनातनः ।
भृगोः शापेन जातोऽसि मानुषे देहधारकः ॥ ४७ ॥

सीतावियोगजं दुःखं वनवासं तथाऽऽश्रितः ।
अतस्त्वं गणराजं वै भज त्वं भक्तिसंयुतः ॥ ४८ ॥

तेन ज्ञानं च ते राम भविष्यति पुरातनम् ।
सीताप्राप्तिर्महाबाहो भविता नात्र संशयः ॥ ४९ ॥

शिवस्य वचनं श्रुत्वा तं पप्रच्छ महायशाः ।
रामः परमशोकार्तो विनयेन समन्वितः ॥ ५० ॥

राम उवाच ।

वद शम्भो महेशान गणेशस्य स्वरूपकम् ।
कीदृशोऽयं विशेषेण सर्वाधीशश्च कथ्यते ॥ ५१ ॥

रामस्य वचनं श्रुत्वा शङ्करस्तमुवाच ह ।
योगं गाणेशकं पूर्णं बोधयन् मुनिसत्तम ॥ ५२ ॥

शिव उवाच ।

शृणु राम गणेशस्य ज्ञानं ते कथयाम्यहम् ।
तेन त्वं सर्वभावज्ञः शान्तिं प्रलभसे प्रभो ॥ ५३ ॥

पञ्चधा हृदि संस्था या बुद्धिः सैव न संशयः ।
चित्तरूपा महाभागा प्रकृतिस्तस्य भो विभो ॥ ५४ ॥

नानाभ्रमकरी माया सिद्धिः सर्वत्र दृश्यते ।
भ्रमन्ति सर्वलोका वै सिद्ध्यर्थं मोहितास्तया ॥ ५५ ॥

सा तस्य प्रकृतिः प्रोक्ता वामभागे प्रसंस्थिता ।
बभूव दक्षिणाङ्गे वै बुद्धिर्मायेति कथ्यते ॥ ५६ ॥

तयोः स्वामी गणेशः स योगशान्तिमयो मतः ।
तं ज्ञात्वा च वयं राम शान्तिं प्राप्ता भजामहे ॥ ५७ ॥

बुद्ध्या यद् बुध्यते राम तदेवं तस्य रूपकम् ।
योगादिसाधने नैव लभ्यते तच्च सिद्धिजम् ॥ ५८ ॥

माये च द्विविधे त्यक्त्वा भजस्व गणनायकम् ।
तेन त्वं योगमार्गज्ञो गणेशश्च भविष्यसि ॥ ५९ ॥

विघ्नराजः स वेदेषु प्रोक्तो वै वेदवादिभिः ।
तमनादृत्य विघ्नेशं विघ्नहीनः कथं भवेत् ॥ ६० ॥

विघ्नाधीनं महाभाग सकलं वेदवर्णितम् ।
अतो विघ्नेन संयुक्तं हीनं प्रभवति प्रभो ॥ ६१ ॥

विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः ।
तं भजस्व विधानेन विघ्नहीनो भविष्यसि ॥ ६२ ॥

हेरम्बं भज भावेन भक्तिमार्गं वदामि ते ।
तेन त्वं लभसे देवं गणेशं नात्र संशयः ॥ ६३ ॥

स्वकीयसत्तया हीनो भवेद्वै यदि मानवः ।
हीनस्तदा समाख्यातः पराधीनस्वभावतः ॥ ६४ ॥

दीनानां रक्षका ये वै ईश्वराः परमेश्वराः ।
ते दीनपालकाः प्रोक्ता विचारय महामते ॥ ६५ ॥

दीनार्थवाचको राम हेर्वेदेषु विनिश्चितम् ।
नाथो रम्बस्तयोर्योगे हेरम्बश्च प्रकथ्यते ॥ ६६ ॥

दीनाः सत्ताविहीनाश्च सत्तायुक्ताश्च पालकाः ।
तेषां स्वामी स हेरम्बस्तं भजस्व विधानतः ॥ ६७ ॥

अभिमानं च द्विविधं त्यज त्वं राघव प्रभो ।
दीनात्मकं तथा पूर्णपालनात्मकमुत्तमम् ॥ ६८ ॥

दीना येन कृता जीवाः पालकाः परमेश्वराः ।
तदधीनं जगद्ब्रह्म मत्वा तं शरणं ब्रज ॥ ६९ ॥

एवमुक्त्वा महादेवो राघवं च सलक्ष्मणम् ।
अन्तर्धानं जगामाऽपि राघवस्तत्र संस्थितः ॥ ७० ॥

विद्याधीशपुरे रामस्तताप तप उत्तमम् ।
शिवोपदिष्टमन्त्रेण तोषयामास विघ्नपम् ॥ ७१ ॥

हेरम्बं तं सदा रामो लक्ष्मणश्च विशेषतः ।
पुपूज भक्तिसंयुक्तो निराहारसमन्वितः ॥ ७२ ॥

ध्यानेन तस्य देवस्य स्वल्पकालेन च प्रभुः ।
रामः शान्तियुतो विप्र समभूद् योगसेवया ॥ ७३ ॥

निश्चयं तस्य रामस्य दृष्ट्वा भक्तं तमाययौ ।
षण्मासैश्च वरं दातुं गणेशः करुणानिधिः ॥ ७४ ॥

सलक्ष्मणं च रामं स बोधयामास विघ्नपः ।
ततो ध्यानं परित्यज्य गणपं नेमतुः परम् ॥ ७५ ॥

ततस्तं पूजयामास रामो देववरो मुने ।
तुष्टाव स गणाधीशं भक्तिनम्रात्मकन्धरः ॥ ७६ ॥

[[५५]]

राम उवाच ।

हेरम्बाय नमस्तुभ्यं दीनकर्त्रे कृपालवे ।
दीनानाथस्वरूपाणां कर्त्रे ते वै नमो नमः ॥ ७७ ॥

ईश्वराणां च दीनानामभेदाय च ते नमः ।
विघ्नेशाय गणानां वै पतये ते नमो नमः ॥ ७८ ॥

अनादये च सर्वेषामादिरूपाय ते नमः ।
अन्तमध्यप्रतिष्ठाय लम्बोदर नमो नमः ॥ ७९ ॥

चिन्तामणे च चित्तानां चालकाय नमो नमः ।
भेदाभेदादिहीनाय तदाकाराय ते नमः ॥ ८० ॥

सर्वपूज्याय सर्वादिपूज्याय परमात्मने ।
अनन्ताय परेशाय ढुण्ढिराजाय ते नमः ॥ ८१ ॥

पूर्णाय पूर्णनाथाय स्वानन्दस्थाय ते नमः ।
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिवराय च ॥ ८२ ॥

समर्थानां च ते भक्तिहीनानां दैन्यकारिणे ।
दीनानां भक्तियुक्तानां नमः सामर्थ्यकारिणे ॥ ८३ ॥

दीनत्वं च समर्थत्वं त्वदधीनं न संशयः ।
अतो मां रक्ष योगेश योगेशाय नमो नमः ॥ ८४ ॥

किं स्तौमि त्वां गणाधीश शान्तियोगस्वरूपिणम् ।
न समर्थाश्च वेदा यं योगीन्द्रास्तत्र कोऽप्यहम् ॥ ८५ ॥

रामस्य तस्य स्तुवत एवं सम्भक्तिभावितः ।
रोमोद्गमः प्रादुरासीत् कण्ठरोधस्तथैव च ॥ ८६ ॥

ततो भक्तिरसे मग्नं रामं वीक्ष्य गजाननः ।
जगाद तं वरं ब्रूहि मनसीप्सितमादरात् ॥ ८७ ॥

त्वया कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् ।
शान्तियोगप्रदं चैव भक्तिलक्षणवर्धनम् ॥ ८८ ॥

यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
श्रवणेन न सन्देहः प्रियो मे स भविष्यति ॥ ८९ ॥

हेरम्बस्य वचः श्रुत्वा तमुवाच जनार्दनः ।
रामः परमभावेन भक्त्या च प्रकृताञ्जलिः ॥ ९० ॥

राम उवाच ।

यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा त्वदीयपादाब्जे भक्तिर्भवतु शाश्वती ॥ ९१ ॥

योगशान्तिः स्मृतिर्नित्यं यथा शङ्करभाषितम् ।
तथा योगीन्द्रवन्द्यं मां कुरुष्व गणप प्रभो ॥ ९२ ॥

रावणेन हृता सीता तद्वधार्थं समुद्यतः ।
अहं तत्र च हेरम्ब जयं देहि विशेषतः ॥ ९३ ॥

मदीयस्य च नाम्नो वै महिमानं महाद्भुतम् ।
कुरु सर्वत्र मान्यं मां कीर्तियुक्तं गजानन ॥ ९४ ॥

एवं तस्य वचः श्रुत्वा हेरम्बो राममब्रवीत् ।
यथा सम्प्रार्थितं विष्णो तथाऽस्तु तव नित्यदा ॥ ९५ ॥

मदीयस्मरणेनैव सर्वं ते सुलभं भवेत् ।
तव नामप्रभावेण तरिष्यन्ति तु जन्तवः ॥ ९६ ॥

एवमुक्त्वा गणेशानोऽन्तर्धानं प्रचकार ह ।
रामो लक्ष्मणसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ ९७ ॥

ततोऽगस्त्यं समानीय रामो विपेन्द्रसत्तमैः ।
मूर्तिं संस्थापयामास हेरम्बस्य विधानतः ॥ ९८ ॥

तदादिगणनाथस्तु हेरम्बः संस्थितोऽभवत् ।
विद्याधीशपुरे विप्र भक्तेभ्यः सर्वसिद्धिदः ॥ ९९ ॥

तं पूजयित्वा रामः स शोकहीनतया मुने ।
जगाम लक्ष्मणेनैव युक्तो रक्षोवधाय च ॥ १०० ॥

सुग्रीवं मित्रभावेन वानरैः सहितं मुने ।
कृत्वा च वालिनं हत्वा ययौ लङ्कां महाबलः ॥ १०१ ॥

हनूमदङ्गदाद्यैश्च सुग्रीवाद्यैश्च संवृतः ।
अन्यैर्जाम्बवदाद्यैश्च वानरैर्देवरूपिभिः ॥ १०२ ॥

[[५६]]

सलक्ष्मणश्च रामोऽयं युयुधे राक्षसैस्ततः ।
हत्वा राक्षससङ्घान् स कुम्भकर्णं जघान च ॥ १०३ ॥

लक्ष्मणश्चेन्द्रजेतारं मारयामास वेगतः ।
ततोऽतिकोपसंयुक्तो रावणो युयुधे भृशम् ॥ १०४ ॥

तेन सर्वे कपीन्द्राश्च हताः सम्मूर्च्छिताः कृताः ।
लक्ष्मणो मूर्च्छितस्तत्र भृशं रामश्च पीडितः ॥ १०५ ॥

शस्त्रास्त्राणि च रामस्य कुण्ठितानि विशेषतः ।
ततोऽतिविह्वलो रामः सस्मार गणनायकम् ॥ १०६ ॥

स्मृतिमात्रेण रामस्य हृदि चिन्तामणिः स्वयम् ।
ददौ स्फूर्तिं तथा रामो जघान रावणं मुने ॥ १०७ ॥

स्वयं बुद्धिपतिः साक्षाद्रामार्थं बुद्धिदोऽभवत् ।
बुद्ध्यधीनं विशेषेण जगद्ब्रह्म महामुने ॥ १०८ ॥

ततो हत्वा महावीरं रावणं रविवंशजः ।
रामश्चकार लङ्कायां राजानं च बिभीषणम् ॥ १०९ ॥

ययौ सीतां विमानेन सङ्गृह्य नगरे स्वके ।
चकार राज्यमुग्रं वै सदा धर्मेण धर्मवित् ॥ ११० ॥

सीतयाऽऽसक्तचित्तः स व्यस्मरत् ज्ञानमुत्तमम् ।
गाणेशं च ततस्तस्य वियोगः सीतयाऽभवत् ॥ १११ ॥

अश्वमेधादिकं कृत्वा संस्थितो राज्यकर्मणि ।
ततो वसिष्ठयोगेन पुनर्ज्ञानमवाप ह ॥ ११२ ॥

ततः शान्तिसमायुक्तो गणेशं मनसा सदा ।
पुपूज भक्तिसंयुक्तो बहिर्मूर्तिधरं मुने ॥ ११३ ॥

अन्ते जगाम रामः स विकुण्ठं विष्णुरव्ययः ।
तत्र तं गणनाथं सोऽभजतानन्यचेतसा ॥ ११४ ॥

इदं रामचरित्रं यः शृणुते भक्तिसंयुतः ।
पठेद्वा भुक्तिदं तस्य मुक्तिदं प्रभविष्यति ॥ ११५ ॥

अयं महोदरस्यैवावतारस्ते महामुने ।
हेरम्बाख्यस्तथा प्रोक्तः श्रवणात् सर्वसिद्धिदः ॥ ११६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते रामचन्द्रचरितं नाम षड्विंशतितमोऽध्यायः ॥