२५ सगरभगीरथचरितम्

॥ श्रीगणेशाय नमः ॥

नरनारायणावूचतुः ।
अम्बरीषस्य पुत्रोऽभूद्यौवनाश्वो परः स्मृतः ।
हरितो यौवनाश्वस्य हारितस्तु सुतोऽभवत् ॥ १ ॥

पुरुकुत्सस्य पुत्रोऽभूत्त्रसद्दस्युस्ततोऽभवत् ।
अनरण्यस्तस्य पुत्रो हर्यश्वः साधुसम्मतः ॥ २ ॥

अरुणस्तत्सुतः सूर्यवरात् प्रोक्तः समुद्भवः ।
तस्य पुत्रोऽभवत् सत्यव्रतो विद्वान् महाशयाः ॥ ३ ॥

स एवाऽभूत्त्रिशङ्क्वाख्यो देहभृत् स्वर्गर्लोकगः ।
तस्य पुत्रो हरिश्चन्द्रः सर्वधर्मपरायणः ॥ ४ ॥

विश्वामित्राच्च विघ्नेशं ज्ञात्वा गाणेशकोऽभवत् ।
स्वानन्दे गणनाथं सोऽन्ते जगाम महायशाः ॥ ५ ॥

रोहितस्तस्य पुत्रोऽभूद्धरितो वै ततोऽभवत् ।
चम्पस्तस्मात् सुदेवोऽतो विजयो भरुकस्ततः ॥ ६ ॥

ततो वृकस्ततो बाहुः सगरस्तस्य चात्मजः ।
सगरस्याऽपि भार्ये द्वे प्रभा भानुमती तथा ॥ ७ ॥

ताभ्यामाराधितो योगी भृगुः परमपावनः ।
पुत्रार्थं स ददौ ताभ्यां वरं पुत्रप्रदं परम् ॥ ८ ॥

[[५०]]

षष्टिसाहस्रपुत्रा वै वृताश्च प्रभया ततः ।
एकं वंशधरं भानुमती वव्रे महामुने ॥ ९ ॥

भृगोः प्रसादयोगेन भानुमत्यां समुद्भवः ।
असमञ्जसनामा वै पुत्रो वंशधरो मुने ॥ १० ॥

स तु योगयुतः सर्वान् शिशून् धृत्वा महायशाः ।
चिक्षेप शरयूमध्ये बालो बालविनाशकृत् ॥ ११ ॥

वनं ययौ ततः पित्रा स सन्त्यक्तो महामुने ।
जीवयित्वा शिशून् सर्वान् योगी मायाबलेन वै ॥ १२ ॥

तस्य पुत्रः समुत्पन्नोऽंशुमान् धर्मपरायणः ।
प्रभायां षष्टिसाहस्रं पुत्राणां प्रबभूव ह ॥ १३ ॥

सगरेण ततो यज्ञा अश्वमेधाः कृता बलात् ।
शतसङ्ख्याः प्रमाणेन तत्रेन्द्रः क्षुभितोऽभवत् ॥ १४ ॥

अन्त्ये यज्ञे समारब्धे मायया च सुराधिपः ।
अश्वं सङ्गृह्य पाताले स्थापयामास सन्निधौ ॥ १५ ॥

कपिलस्य ततस्तत्र पुत्राश्च सगरस्य ये ।
कुपितास्ते सहस्राणां षष्टिः परमदुर्जयाः ॥ १६ ॥

अश्वपादं ?प्रपश्यद्भिर्भूमिमध्ये विचक्षणैः ।
ततस्तैः खनिता भूमिः सर्वत्र बलसंयुतैः ॥ १७ ॥

तैऽस्तु संवर्धितो विप्र समुद्रो लवणात्मकः ।
तेन सागरनामाऽभूत्तदारभ्य स्वकर्मणा ॥ १८ ॥

तमश्वराजं ददृशुश्चरन्तं कपिलान्तिके ।
तं चौरं सागरा ज्ञात्वा हन्तुं शस्त्राणि सन्दधुः ॥ १९ ॥

कपिलक्रोधवह्नौ ते भस्मीभूता बभूविरे ।
सगरा हर्षितस्तेन स प्रतापी पुरन्दरः ॥ २० ॥

नारदात् सगरो ज्ञात्वाऽंशुमन्तं पौत्रकं ततः ।
प्रेषयामास तं विप्रं ननाम स महाद्युतिः ॥ २१ ॥

स्तुतः सम्पूजितस्तेन कपिलः प्रददौ हयम् ।
सङ्गृह्य स ययौ विप्र सगरं स्वपितामहम् ॥ २२ ॥

ततश्चकार तं यज्ञं सम्पूर्णं त्वश्वमेधकम् ।
ययौ राज्येऽभिषिच्याऽसौ वनं पौत्रं महायशाः ॥ २३ ॥

गुरोः प्राप्य महामन्त्रं गाणेशं योगशान्तिदम् ।
साधयित्वा स वै योगी बभूव परमद्युतिः ॥ २४ ॥

अनन्यमनसा देवं गणेशमभजन्नृपः ।
अन्ते स गणपं विप्र ययौ ब्रह्मपरायणः ॥ २५ ॥

अंशुमान् कपिलाच्चैव ज्ञानं प्राप्य महायशाः ।
गणेशमभजन्नित्यं गाणपत्यस्वभावतः ॥ २६ ॥

तस्य पुत्रो दिलीपश्च दिलीपात्तु भगीरथः ।
दिलीपोऽन्यस्य राज्ये तं ययौ विघ्नेशमुत्तमम् ॥ २७ ॥

ततो भगीरथो राजा दिलीपस्थापितः स वै ।
पालयामास सम्पूर्णं राज्यं सद्धर्मभावतः ॥ २८ ॥

एकदा नारदस्तत्र जगाम नृपतिं मुने ।
पूजितस्तेन होवाच नृपं वचनमुत्तमम् ॥ २९ ॥

नारद उवाच ।

भगीरथ महाभाग शृणु मे वचनं हितम् ।
तव ब्राह्मणसङ्क्रोधाद्दग्धाश्च प्रपितामहाः ॥ ३० ॥

विप्रक्रोधेन दग्धा ये गतिस्तेषां न विद्यते ।
अतस्त्वं च महाराज कुरु तेषां हितं परम् ॥ ३१ ॥

स्वर्णदीं त्वं समानीय प्लावयस्व च तान् जलैः ।
स्वर्गवासिन एवं ते प्रभविष्यन्ति पूर्वजाः ॥ ३२ ॥

एवमुक्त्वा महायोगी नारदो गणपं स्मरन् ।
ययौ स्वर्गं ततो विप्र राजा सन्दुःखितोऽभवत् ॥ ३३ ॥

[[५१]]

प्रधानेषु स्वकीयं तद्राज्यं त्यक्त्वा वनं ययौ ।
तपसाऽऽराधयामास स्वर्णदीं च भगीरथः ॥ ३४ ॥

पूर्णे वर्षशते चैव तं ययौ स्वर्गवाहिनी ।
वरेण च्छन्दयामास राजानं भक्तिसंयुतम् ॥ ३५ ॥

पूजयामास तां देवीं स्तुत्वा च विविधैः स्तवैः ।
प्रतापवान् जगादाऽसौ भूमिपः स भगीरथः ॥ ३६ ॥

भगीरथ उवाच ।

यदि तुष्टा महाभागे तदा मे प्रपितामहान् ।
प्लावयस्व महीसंस्था सा तथेति तमब्रवीत् ॥ ३७ ॥

मदीयमुग्रवेगं सन्धारणार्थं महामते ।
पात्रं पश्य महाभागाऽऽगमिष्यामि महीतलम् ॥ ३८ ॥

तथेति स महीपालः पूजयामास शङ्करम् ।
वर्षेणैकेन तं शम्भुः प्रसन्नो वरदोऽभवत् ॥ ३९ ॥

स्वर्णदीं धारयस्व त्वं यदि तुष्टोऽसि शङ्कर ।
तथेति शिव ऊचे तं सस्मार स महानदीम् ॥ ४० ॥

आगतां तां तदा प्राह पत देवि महीतले ।
धारयिष्यति ते वेगं शङ्करः करुणानिधिः ॥ ४१ ॥

स्वर्गङ्गा गर्वयुक्ता च तथेति शिवमस्तके ।
पपात सैव धाराभिः सहस्रेण समन्ततः ॥ ४२ ॥

शिवमस्तकमाप्लाव्य गमिष्यामि रसातलम् ।
इति सन्धार्य मनसि महावेगयुता ययौ ॥ ४३ ॥

तस्या गर्वं परिज्ञाय शङ्करेण स्वमायया ।
जटायां गोपिता देवी तत्र बभ्राम वै नदी ॥ ४४ ॥

नान्तं जगाम शम्भोः सा जटायास्तं नमाम वै ।
ततः शिवेन राजार्थे मोचिता धरणीं ययौ ॥ ४५ ॥

तत्र जन्हुं महीपालं ददर्श स्वर्गवाहिनी ।
तं तपन्तं तपो घोरं जगाद चल तापस ॥ ४६ ॥

नोचेत्त्वां प्लावयिष्यामि स जगाद न तां यदा ।
तदा सा क्रोधसंयुक्ता प्लावितुं तं समाययौ ॥ ४७ ॥

तामागतां समाज्ञाय क्रोधयुक्तो महीपतिः ।
तपोबलेन तां पीत्वा सन्तस्थौ तपसि प्रभुः ॥ ४८ ॥

ततो भगीरथस्तं प्रणनामाऽथ महायशाः ।
प्रार्थितः स मुमोचाऽपि स्वोरुं भित्वा ततो नदीम् ॥ ४९ ॥

तस्य पुत्रीत्वमापन्ना जाह्नवी तेन कथ्यते ।
पुनः सा वेगसंयुक्ता प्लावयामास सागरान् ॥ ५० ॥

विमानवरमारूढास्ते भगीरथसन्निधौ ।
ते गताः स्वर्गलोके च जलस्पर्शेन तत्क्षणात् ॥ ५१ ॥

राज्ञा भगीरथेनैवं पूजिता स्वर्गवाहिनी ।
पुत्रीभावेन सङ्क्लृप्ताऽभवत् भागीरथी ततः ॥ ५२ ॥

एवं भगीरथोऽसौ प्रभावयुक्तः प्रतापवान् ।
भगीरथसुतोऽप्यासीच्छ्रुतो नाम महीपतिः ॥ ५३ ॥

संस्थाप्य स्वपदे राज्ये स ययौ वनमुत्तमम् ।
वसिष्ठात् स विदित्वा च योगं गाणेशकं मुने ॥ ५४ ॥

साधयित्वा स वै राजा गाणपत्यो बभूव ह ।
अन्ते जगाम गाणेशसायुज्यं योगसेवया ॥ ५५ ॥

इदं भगीरथाऽऽख्यानं यः शृणोति नरोत्तमः ।
पठेद्वा तस्य भो विप्र भुक्तिमुक्तिप्रदं भवेत् ॥ ५६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते सगरभगीरथचरितं नाम पञ्चविंशतितमोऽध्यायः ॥