॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
पुरुकुत्सस्य दायादावभूतां तु महाबलौ ।
अम्बरीषो महाभागो मुचुकुन्दस्तथाऽपरः ॥ १ ॥
अम्बरीषः स्वराज्यं वै कृत्वा गणपतिं ययौ ।
तपस्तप्त्वा सुविपुलं पुत्रे राज्यं निधाय च ॥ २ ॥
चकार मुचुकुन्दः स राजर्षिर्राज्यमुत्तमम् ।
धर्मयुक्तो महातेजाः शक्रतुल्यपराक्रमः ॥ ३ ॥
कदाचिद्देवदैत्यानां युद्धं जातं महाद्भुतम् ।
तत्र देवा जिताः सर्वे दैत्यैः परमदारुणैः ॥ ४ ॥
मुचुकुन्दं ततो देवाः शरणं जग्मुरादरात् ।
ततस्तेन महादैत्या हताः शस्त्रबलेन वै ॥ ५ ॥
तत्र युद्धप्रसङ्गेन कालो विप्र गतो बहुः ।
युगातिक्रमणं तेन प्राप्तं तस्य महात्मनः ॥ ६ ॥
युगभेदं निरीक्ष्याऽसौ देवान् सर्वानुवाच ह ।
ज्ञानं दातव्यमाद्यं मे भवद्भिरधुना परम् ॥ ७ ॥
ततस्ते दैवताः सर्वे जगुः परमभाविताः ।
अधुना पर्वतद्रोण्यां निद्रायुक्तो भव प्रभो ॥ ८ ॥
नृप त्वां यो नरस्तत्र कश्चिदुत्थापयिष्यति ।
स एव मरणं सद्यः प्राप्नोतु त्वत्समीपगः ॥ ९ ॥
तत्र ते वासुदेवस्य दर्शनं प्रभविष्यति ।
स एव ज्ञानसन्दाता महायोगी नृपोत्तम ॥ १० ॥
ययावुवाचैव वनं तान् तथेति महाबलः ।
स गन्धमादनद्रोण्यां सुष्वाप च नृपोत्तमः ॥ ११ ॥
ततो बहुगते काले वसुदेवसुतोऽभवत् ।
विष्णुः साक्षान् महायोगी तपसाऽऽराधितो मुने ॥ १२ ॥
कंसं हत्वा महावीरं मथुरायां स्थितोऽभवत् ।
कंसस्य श्वशुरोऽत्यन्तं क्रोधयुक्तो बभूव ह ॥ १३ ॥
जरासन्धो ययौ तत्र युद्धार्थं सैन्यसंयुतः ।
राजभिः शाल्वकाद्यैश्च संवृतो वीरसत्तमैः ॥ १४ ॥
त्रयोविंशतिरेतस्याऽक्षौहिण्यश्च बलं बभौ ।
तन्ममर्द महातेजाः कृष्णः सङ्कर्षणान्वितः ॥ १५ ॥
पलायत ततो राजा गतः स्थानं पुनर्ययौ ।
तावत् सन्यैन संयुक्तो भवदेवं पराजितः ॥ १६ ॥
एवं महाबलः सप्त दश वारं समागतः ।
जरासन्धस्ततो राजा न यशः प्राप दुःखितः ॥ १७ ॥
तदा तेनाऽपि विप्रेन्द्र यवनाधिपतिः खलः ।
सहायार्थं धृतः पक्षे स कालयवनाभिधः ॥ १८ ॥
स वै यवनराजश्च यादवानां विनाशकृत् ।
गर्गशापात् समुद्भूत आययौ मथुरां मुने ॥ १९ ॥
तमागतं परिज्ञाय मायया निर्ममे स्वयम् ।
द्वारकां जलधौ कृष्णस्तत्र चिक्षेप यादवान् ॥ २० ॥
ततो यवनराजस्य समीपे स समागतः ।
दर्शयित्वा तथाऽऽत्मानं वासुदेवः पलायत ॥ २१ ॥
नारदेन च कृष्णस्य चिह्नानि कथितानि वै ।
यवनेन्द्राय तैः कृष्णं ज्ञात्वा सन्धावितोऽभवत् ॥ २२ ॥
अभर्त्सयन् महात्मानं कृष्णकालसमः स्वयम् ।
यवनः किं यदोर्वंशे लाञ्छनप्रद धावसि ॥ २३ ॥
ततः कृष्णो गतस्तत्र यत्र सुष्वाप वै नृपः ।
मुचुकुन्दः स तं त्यक्त्वा गुहान्तरगतोऽभवत् ॥ २४ ॥
यवनेन्द्रेण सुप्तोऽसौ दृष्टस्तं स्वपदाऽहनत् ।
किं सुप्तोऽसि च निर्लज्ज कुरु युद्धं मया सह ॥ २५ ॥
बोधितो यवनेनैवं मुचुकुन्दः प्रतापवान् ।
तस्य नेत्रोद्भवो वह्निर्यवनं स ददाह च ॥ २६ ॥
[[४९]]
एवं तं कालयवनं हतं दृष्ट्वा जनार्दनः ।
आययौ नृपनाथं तं हर्षनिर्भरमानसः ॥ २७ ॥
तमागतं समादृष्ट्वा मुचुकुन्दो ननाम च ।
उवाच भक्तिसंयुक्तः कृष्णं योगीश्वरं मुने ॥ २८ ॥
मुचुकुन्द उवाच ।
देवैः सङ्कथितं कृष्ण ममैतदभवत् प्रभो ।
अधुना ज्ञानमार्गं वै कथयस्व कृपानिधे ॥ २९ ॥
मुचुकुन्दस्य वाक्यं स श्रुत्वा हर्षसमन्वितः ।
जगाद तं महाभागं कृष्णः परमयोगवित् ॥ ३० ॥
श्रीकृष्ण उवाच ।
अहं गणेश्वरः पूर्णो न भिन्नश्च महामते ।
एतदेव परं ज्ञानं सञ्ज्ञातव्यं त्वया नृप ॥ ३१ ॥
त्यक्त्वा पञ्चविधं चित्तं तदैश्वर्यं च मोहदम् ।
योगेन ब्रह्मणि प्रोक्तं गणेशस्त्वं भविष्यसि ॥ ३२ ॥
चित्तरूपा महाबुद्धिर्मोहरूपा च भूमिप ।
सिद्धिर्गणपतेर्माये तत्र बिम्बं स्थितं च यत् ॥ ३३ ॥
तदेव गणनाथोऽयं पश्य तं योगसेवया ।
चित्ते चिन्तामणिं भूप त्यक्त्वा बिम्बभवं भ्रमम् ॥ ३४ ॥
गकारात्मकरूपां वै सिद्धिं जानीहि मानद ।
णकाररूपिकां बुद्धिं तयोः स्वामी गणेश्वरः ॥ ३५ ॥
तं भजस्व महाभाग तेन शान्तिमवाप्स्यसि ।
ज्ञानं गुह्यतमं प्रोक्तं मया ते नृपसत्तम ॥ ३६ ॥
एवमुक्त्वा महायोगी कृष्णस्तेन प्रपूजितः ।
आगत्य मथुरायां स जघान यवनान् प्रभुः ॥ ३७ ॥
जरासन्धं समागत्य धावितो रामसंयुतः ।
वञ्चयित्वा ययौ तं स द्वारकायां महामुने ॥ ३८ ॥
मुचुकुन्दश्च राजर्षिः साधयामास यत्नतः ।
कृष्णेन कथितं योगं तेन शान्तिं जगाम ह ॥ ३९ ॥
ततो भ्रमन् स राजेन्द्रः पृथिव्यां यत्र तत्र च ।
गणेशमभजत् भक्त्या तं प्राणान्तं महायशाः ॥ ४० ॥
मुचुकुन्दस्य यो मर्त्यश्चरितं शृणुयात् परम् ।
पठेत्तस्मै तु सर्वं स प्रदद्याद्गणपः प्रभुः ॥ ४१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते मुचुकुन्दचरितं नाम चतुर्विंशतितमोऽध्यायः ॥