॥ श्रीगणेशाय नमः ॥
मुनिरुवाच ।
मनोर्वंशे महाभागोऽम्बरीषश्च बभूव यः ।
एकादशीव्रती नित्यं वदतं तस्य चेष्टितम् ॥ १ ॥
नरनारायणावूचतुः ।
मनोर्वंशेऽन्त्यपुत्रोऽभूदम्बरीषः प्रतापवान् ।
नित्यं विष्णुं स्वभावेनाऽभजच्चानन्यमानसः ॥ २ ॥
एकादशीव्रतेनैव तोषयामास माधवम् ।
ततो बहुगते काले द्वादश्यां तं ययौ मुनिः ॥ ३ ॥
दुर्वासाः क्रोधशाली चातिथिः पारणकेऽभवत् ।
तं प्रणम्य स राजर्षिरुवाच प्रकृताञ्जलिः ॥ ४ ॥
भगवन् स्वल्पकालस्था द्वादशी मे च पारणे ।
व्रतसाधनकार्यार्थं प्रार्थयामि महामुने ॥ ५ ॥
स्वल्पकालेन सन्ध्यादि कृत्वाऽऽगन्तव्यमादरात् ।
तथेति नृपतिं विप्र उक्त्वा तीर्थं जगाम ह ॥ ६ ॥
तत्र शीघ्रतया तेन कृतं सन्ध्यादिकं मुने ।
तथापि कालयोगेन द्वादशी प्रगता ततः ॥ ७ ॥
मुहूर्तमात्रकालस्योत्क्रमणं तेन वै कृतम् ।
नृपेण पलमात्रा सा द्वादशी साधिताऽभवत् ॥ ८ ॥
विष्णुतीर्थं ततस्तेन भक्षितं व्रतसिद्धये ।
पश्चादतिथिराजस्य प्रतीक्षामकरोन्नृपः ॥ ९ ॥
ततः शीघ्रतया तत्र दुर्वासाः प्रययौ मुने ।
राज्ञा तस्मै स्ववृत्तान्तः कथितो विस्तरेण ह ॥ १० ॥
श्रुत्वा स कुपितोऽत्यन्तं दुर्वासास्तं शशाप ह ।
निमन्त्र्य मां त्वया राजन् प्रकृतं पारणं कथम् ॥ ११ ॥
अतस्त्वं फलहीनो वै भविष्यसि न संशयः ।
एवमुक्त्वा जगामाऽसौ दुर्वासाः स्वेच्छया चरन् ॥ १२ ॥
ततः सोऽपि नृपोऽत्यन्त दुःखितः संस्थितोऽभवत् ।
उपोषणसमायुक्तः स्वगृहे तं प्रतीक्षयन् ॥ १३ ॥
अतिथिं त्वागतं त्यक्त्वा कथं कुर्वे हि भोजनम् ।
निमन्त्र्य तं विशेषेण जपध्यानपरायणः ॥ १४ ॥
[[४७]]
गते संवत्सरे तत्राऽऽजगाम मुनिनारदः ।
प्रपूज्य सर्ववृत्तान्तं कथयामास तं नृपः ॥ १५ ॥
ततस्तं नारदः प्राह शृणु राजन् महामते ।
जलभक्षणमात्रेण पारणं च त्वया कृतम् ॥ १६ ॥
तेनोपोषणयुक्तेन त्वया धर्मः प्रपालितः ।
द्वादशी व्रतगा पूर्णा साधिता व्रतसिद्धये ॥ १७ ॥
अपराधविहीनस्य तवाऽयं विघ्न उत्थितः ।
दुर्वासाः कोपसंयुक्तो जगाम क्षुधितो गृहात् ॥ १८ ॥
अतस्त्वं विघ्नराजं तं भज यत्नेन मानद ।
तेन विघ्नविहीनश्च भविष्यसि न संशयः ॥ १९ ॥
विष्णुना प्रेषितोऽहं वै त्वदर्थं नृपसत्तम ।
सर्वेषामादिरूपोऽयमन्ते सोऽपि गणेश्वरः ॥ २० ॥
शिवविष्ण्वादयस्तस्य गणाः प्रोक्ता न संशयः ।
तेन संस्थापिताः सर्वे नानाकार्येषु भूमिप ॥ २१ ॥
चित्तं बुद्धिस्वरूपं यत्तत्र चिन्तामणिः स्थितः ।
तं गच्छ शरणं वत्स पतिं बुद्धेर्विशेषतः ॥ २२ ॥
त्यक्त्वा सिद्धिपतिं देवं सिद्धिमिच्छति दुर्मतिः ।
तस्यासिद्धिर्भवेन्नित्यं सर्वत्राऽत्र न संशयः ॥ २३ ॥
एवमुक्त्वा मुनिस्तस्मै ददौ मन्त्रं षडक्षरम् ।
महाविष्णुर्जपति यं ततः सोऽन्तर्हितोऽभवत् ॥ २४ ॥
अम्बरीषस्तदारभ्य विघ्नेशं शरणं गतः ।
जजाप मन्त्रराजं तं पूजयित्वा विनायकम् ॥ २५ ॥
विष्णोर्गणेशस्य चैवाभेदस्तेन समाश्रितः ।
गणेशस्य चतुर्धा सा मूर्तिः सर्वत्र दृश्यते ॥ २६ ॥
ततो दुर्वाससो विप्र मनश्चञ्चलतां गतम् ।
दयया स्वयमेवासावम्बरीषं जगाम ह ॥ २७ ॥
समागतं मुनीन्द्रं तं दृष्ट्वा विस्मितमानसः ।
प्रणम्यादावम्बरीषोऽपूजयद् भक्तिसंयुतः ॥ २८ ॥
ततस्तं नृपशार्दूलं जगाद मुनिसत्तमः ।
दुर्वासा विनयेनैव युक्तं परमहर्षितः ॥ २९ ॥
दुर्वासा उवाच ।
क्षमस्वैनं मेऽपराधं साहसं नृपसत्तम ।
अपराधविहीनं त्वामशपं क्रोधसंयुतः ॥ ३० ॥
त्वं तु साधुस्वभावेन संस्थितः स्वगृहे नृप ।
उपोषणसमायुक्तस्तेन सर्वं जितं त्वया ॥ ३१ ॥
मां त्यक्त्वा जलपानेन पारणं यत्त्वया कृतम् ।
सैव निष्फलरूपैकादशी तव भविष्यति ॥ ३२ ॥
अन्याः फलयुताः सर्वास्ते भवन्तु नृपोत्तम ।
एवमुक्त्वा स तेनैव बुभुजे मुनिसत्तमः ॥ ३३ ॥
तमनुगृह्य दुर्वासा ययौ स्वस्याश्रमं शुभम् ।
अम्बरीषस्ततो देवं गणेशमभजत् सदा ॥ ३४ ॥
तस्मात्पुत्राः समुत्पन्नास्तत्र ज्येष्ठं प्रतापवान् ।
राज्ये नृपोत्तमस्तं स स्थापयित्वा वनं ययौ ॥ ३५ ॥
भक्त्या गणपतिं तत्राऽभजच्चानन्यचेतसा ।
कालेनाऽन्ते गणेशानं ययौ योगेन तत्त्वतः ॥ ३६ ॥
अम्बरीषस्य पठति चित्रं यच्च शृणोति यः ।
चरित्रं तस्य भक्तिश्च मुक्तिर्भवति शाश्वती ॥ ३७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते अम्बरीषचरितं नाम त्रयोविंशतितमोऽध्यायः ॥