२२ मान्धातुश्चरित्रकथनम्

॥ श्रीगणेशाय नमः ॥

नरनारायणावूचतुः ।
चतुर्दश मनूनां वै षट्कं यत्ते प्रकीर्तितम् ।
तैस्तपश्च कृतं घोरं गणेशस्य महात्मनः ॥ १ ॥

नानामन्त्रजपेनैव नानाध्यानपरायणैः ।
निराहारप्रभावेण तोषितस्तैर्गजाननः ॥ २ ॥

पूर्णवर्षसहस्रेण ययौ विघ्नपतिः प्रभुः ।
उवाच वृणुत प्राज्ञा वरांस्तान् प्रददाम्यहम् ॥ ३ ॥

ततस्तैः पूजितो देवः स्तुतश्च विविधैः स्तवैः ।
बहुत्वान्नैव शक्यं तद्वर्णनं मुनिसत्तम ॥ ४ ॥

सर्वेषामीप्सितं दत्त्वा ययौ स्वानन्दके पुरे ।
ते सर्वे स्वस्वकर्मज्ञाश्चक्रुः स्वस्वक्रियां मुने ॥ ५ ॥

मन्वन्तरेष्वतीतेषु तैः पुनश्च गणेश्वरः ।
आराधितो विशेषेण योगशान्त्यर्थमादरात् ॥ ६ ॥

क्रमेण ब्रह्मभूतास्ते ययुस्तं गणपं पुनः ।
एकभावेन योगज्ञा योगाकारं महामुने ॥ ७ ॥

पुत्राश्च बहवस्तेषां वर्णनं नैव शक्यते ।
पौत्रादिक्रमभावेन पालिता तैर्वसुन्धरा ॥ ८ ॥

वैवस्वतेन्तरे प्राप्तेऽधुना तत्र ब्रवीमि ते ।
शृणु सङ्क्षेपतो विप्र मनुजानां चरित्रकम् ॥ ९ ॥

मनोस्तु दश पुत्रा वै जाताः पितृसमा मुने ।
सुद्युम्नः प्रथमस्तेषां ज्येष्ठा कन्या बभूव ह ॥ १० ॥

इक्ष्वाकुर्नृगशर्यातिदिष्टा धृष्णः करूषकः ।
नरिष्यन्तपृषध्रौ च नभगः परिकीर्तिताः ॥ ११ ॥

नवैते सूर्यवंशे वै शक्रतुल्यपराक्रमाः ।
ज्येष्ठे चन्द्रस्य वंशो वै स्त्रीभावात् सम्बभूव ह ॥ १२ ॥

सुद्युम्नः स कदाचिद्वै मृगयार्थं वने ययौ ।
वनेषु सैन्यसंयुक्तो बभ्रामामितविक्रमः ॥ १३ ॥

दैवयोगेन राजाऽयं ययौ ?गौरीवनं मुने ।
तत्र प्रवेशमात्रेण स्त्रीरूपः स बभूव ह ॥ १४ ॥

शिवेन शैलपुत्र्यर्थं शापितं तद्वनं सदा ।
मृकण्डदेहज शृणुष्वोग्रं वै तत्र कारणम् ॥ १५ ॥

गौरीवने भवान्या स नग्नः शम्भुश्च सा तथा ।
नग्ना रेमे शिवेनैव तया शम्भुश्च मानद ॥ १६ ॥

एकदा मुनयः श्रेष्ठा वसिष्ठाद्याः समाययुः ।
दर्शनार्थं महेशस्य तत्र ते विविशुः सुखम् ॥ १७ ॥

तान् दृष्ट्वा लज्जिता देवी शिवश्चैव महामुने ।
ततस्ते विमुखा जग्मुर्मुनयो लज्जिता भृशम् ॥ १८ ॥

ततः शिवेन शापो वै दत्तस्तत्र वने मुने ।
प्रवेशेऽत्र पुमान् सद्यो भवतु स्त्रीस्वरूपधृक् ॥ १९ ॥

सुद्युम्नस्तत्र सञ्जातो नारीरूपो विशेषतः ।
शुशुभे यौवनश्रिया स्तनभारभरान्वितः ॥ २० ॥

ततस्तत्र ?बुधो देवश्चन्द्रपुत्रः समाययो ।
तेन दृष्टा सुरूपा सा नारी मोहकरी मुने ॥ २१ ॥

साऽपि तं ?चकमे तत्र देवरूपं महाप्रभम् ।
तेन भुक्ता ययौ स्थानं स्वकीयं लज्जिताऽभवत् ॥ २२ ॥

तस्यां पुरुरवा जज्ञे चन्द्रवंशधरः प्रभुः ।
श्राद्धकर्मणि विख्यातो बभूव पितृभक्तितः ॥ २३ ॥

तदर्थं च वसिष्ठेन गणेशस्य महामनुः ।
दत्तो विनायकायेति नमोन्तः स्त्रीस्वरूपिणे ॥ २४ ॥

राजपुत्री वनं गत्वा तताप तप उत्तमम् ।
शतवर्षैर्गणाध्यक्षस्तां ययौ भक्तिभावतः ॥ २५ ॥

तया सम्पूजितो ढुण्ढिः स्तुतस्तस्यै वरं ददौ ।
तया पुरुषभावाय याचितश्च वरः शुभः ॥ २६ ॥

तथेति तं पुनः सद्यः कृत्वा नरसुरूपिणम् ।
गणेशः स ययौ स्थानं स्वकीयं भक्तवत्सलः ॥ २७ ॥

[[४५]]

सुद्युम्नस्य ततस्तस्य पुत्रा जातास्त्रयो मुने ।
उत्कलश्च गयश्चैव विनीतश्च महाबलः ॥ २८ ॥

पुत्रान् स राज्ये संस्थाप्य महातेजा ययौ वनम् ।
गणेशं योगमार्गेण तोषयामास नित्यदा ॥ २९ ॥

शान्तियोगधरः सोऽपि बभूव वनसंस्थितः ।
अन्ते सायुज्यतां प्राप्तो गणेशस्य महाबल: ॥ ३० ॥

सुद्युम्ने स्त्रीत्वमापन्ने इलानामधरे मुने ।
इक्ष्वाकुं राज्यधर्मे तं स्थापयामास वै मनुः ॥ ३१ ॥

वनं ययौ महाभागो मनुर्वैवस्वतो मुने ।
सूर्यात् प्राप्य महामन्त्रं जजाप च षडक्षरम् ॥ ३२ ॥

सूर्येण योगमार्गश्च कथितस्तेन विघ्नपम् ।
अभजद्योगशान्त्यर्थं सोऽपि शान्तो बभूव ह ॥ ३३ ॥

नित्यं गणपतिं स्वर्गेऽभजच्चानन्यचेतसा ।
महायोगी मनुर्देवं न मुमोच कदाचन ॥ ३४ ॥

इक्ष्वाकुः पुत्रकामार्थं वसिष्ठस्योपदेशतः ।
अष्टाक्षरेण मन्त्रेणाऽतोषयद् गणनायकम् ॥ ३५ ॥

शतवर्षैः प्रसन्नोऽभूद्ददौ तं वरमुत्तमम् ।
स्तुतः सम्पूजितस्तेन ययौ स्थानं गणेश्वरः ॥ ३६ ॥

गणेशवरदानेन विकुक्षिस्तस्य चात्मजः ।
बभूव सर्वमान्यः स तेजस्वी दृढविक्रमः ॥ ३७ ॥

संस्थाप्य स्वाधिकारे वै राज्ये राजा ययौ वनम् ।
पुनस्तेन सुमन्त्रेण तोषयामास विघ्नपम् ॥ ३८ ॥

क्रमेण शान्तिमापन्न इक्ष्वाकुर्ब्रह्मणो मुने ।
ब्रह्मभूतः स्वभावस्थः स्वानन्दे गणपं ययौ ॥ ३९ ॥

विकुक्षेरभवन् पुत्रा दश पञ्च महामुने ।
तेषां ज्येष्ठः ककुत्स्थश्च शृणु तस्य विचेष्टितम् ॥ ४० ॥

दैत्यैः सन्ताडिता देवाः शरणं तं नृपात्मजम् ।
ययुः सोऽपि महातेजा दैत्यान् योद्धुं समाययौ ॥ ४१ ॥

तत्रेन्द्रं वृषभं तस्य कृत्वा ककुदि संस्थितः ।
जघान दैत्यपान् सर्वान् विजयी चाऽभवन्नृपः ॥ ४२ ॥

ककुत्स्थस्तेन देवेन्द्रैर्नाम्ना सङ्कीर्तितो नृपः ।
स गणेश्वरभक्तो वै ययौ विघ्नेश्वरं परम् ॥ ४३ ॥

ततोऽनेनाः पृथुस्तस्माद्विश्वरन्धिश्च तत्सुतः ।
तस्माच्चन्द्रो महाबाहुस्तस्माच्च युवनाश्वकः ॥ ४४ ॥

तस्माच्छाबस्तनामाऽभूद् बृहदश्वश्च तत्सुतः ।
ततः कुवलयाश्वश्च पुत्रोऽभूदेव धुन्धुहा ॥ ४५ ॥

धुन्धुं हत्वा महादैत्यं धुन्धुमारो बभूव ह ।
धुन्धुमारस्य पुत्रा वै त्रयः प्रोक्ता महामुने ॥ ४६ ॥

दृढाश्वः कपिलाश्वश्च भद्राश्वश्च महाबलः ।
दृढाश्वस्य च हर्यश्वो महाबलपराक्रमः ॥ ४७ ॥

हर्यश्वस्य निकुम्भोऽभून्निकुम्भाद्बर्हणाश्वकः ।
कृशाश्वश्च रणाश्वश्च द्वौ पुत्रौ तस्य सम्मतौ ॥ ४८ ॥

कृशाश्वस्य च पुत्रोऽभूद्युवनाश्व इति स्मृतः ।
स युद्धे देवतुल्यो वै बभूव परमद्युतिः ॥ ४९ ॥

तेन पुत्रार्थमानन्दान् मुनिभिश्च महात्मना ।
वरुणस्य कृतो यज्ञस्तत्र तैर्मन्त्रितं जलम् ॥ ५० ॥

रात्रौ राजा पपौ विप्र तृषितो दैवयोगतः ।
ब्राह्मणैश्च तदा पृष्टं केन पीतं जलं महत् ॥ ५१ ॥

राज्ञा पीतं विदित्वा ते विस्मिता ब्राह्मणास्ततः ।
ऊचुस्तं राजशार्दूलं किं कृतं च त्वया प्रभो ॥ ५२ ॥

तवोदरे तथा गर्भो भविष्यति न संशयः ।
एवमु?क्त्वा च ते यज्ञं पूर्णं कृत्वा ययुः स्थलम् ॥ ५३ ॥

[[२३]]

उदरे युवनाश्वस्य गर्भः संववृधे मुने ।
सम्पूर्णे तत्र देवेन्द्रो गर्भे तस्य महात्मनः ॥ ५४ ॥

विदार्य जठरं सद्यः पूर्ववत्तं चकार ह ।
कं धास्यति कुमारोऽयं तत्रेन्द्रस्तानुवाच ह ॥ ५५ ॥

मां धास्यति ततस्तेन मान्धाता कथितो द्विजैः ।
इन्द्रेण वर्धितः सोऽपि रराज परमद्युतिः ॥ ५६ ॥

स तु सर्वान् वशे कृत्वा सार्वभौमो बभूव ह ।
अव्याहतगतिर्लोके देवतुल्यो विशेषतः ॥ ५७ ॥

गुणा वर्णयितुं शक्या मान्धातुर्न महात्मनः ।
स एव गणराजं तमभजन्नित्यमादरात् ॥ ५८ ॥

वसिष्ठाद्योगमाश्रित्य योगिवन्द्यो बभूव ह ।
पुरुकुत्सः सुतस्तस्य संस्थाप्य स वनं ययौ ॥ ५९ ॥

गणेशभक्तिं वै तत्र चकाराऽन्ते लयं ययौ ।
स्वानन्दे गणपे विप्र ब्रह्मभूतः स्वभावतः ॥ ६० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते मान्धातुश्चरित्रकथनं नाम द्वाविंशतितमोऽध्यायः ॥