२१ देवपितृकर्मवर्णनम्

॥ श्रीगणेशाय नमः ॥

नरनारायणावूचतुः ।
स्त्रीणां धर्मं प्रवक्ष्यावस्तं शृणुष्व महामते ।
जातमात्रा च सा देवैर्भुज्यते त्रिभिरादरात् ॥ १ ॥

चन्द्रो गन्धर्वको वह्निर्द्वे द्वे वर्षे महामते ।
कन्यां भुनक्ति धर्मेण षट् वर्षाणि विभागतः ॥ २ ॥

तन्मध्ये न प्रदातव्या कन्या कस्मै सुहृज्जनैः ।
दत्ता चेद्देवताक्षोभो भवेद्वै धर्मनाशनात् ॥ ३ ॥

सप्ताष्टनवदिग्वर्षवयोयुक्ता सुहृज्जनैः ।
कन्या नराय दातव्या साधवे कुलजाय वै ॥ ४ ॥

दशवर्षाधिका कन्या रजोयुक्ता च सम्मता ।
न दत्ता यदि तन्मध्ये महापापप्रवर्धिनी ॥ ५ ॥

पदे पदे ब्रह्महत्यां लभन्ते जनकादयः ।
अतः कन्या प्रदातव्या विधिना स्वर्गदा भवेत् ॥ ६ ॥

कन्यादानसमं पुण्यं विद्यते न कदाचन ।
यया वंशः प्रवर्धेत सर्वेभ्यः सुखदायकः ॥ ७ ॥

रजोदर्शनयुक्ता चेज्जाता स्त्री सा तदा भवेत् ।
वशगा स्वपतेस्तस्या एव तद्दैवतं मतम् ॥ ८ ॥

दासीवत्तं पतिं सा वै सम्भजेद्भक्तिसंयुता ।
वने पतिर्यदा यातस्तदा तमनुगा भवेत् ॥ ९ ॥

यदि पुत्रादयो बालास्तदा तेषां प्रसन्निधौ ।
पोषणार्थं भवेच्चैव संस्थिता वनगे पतौ ॥ १० ॥

यदि सन्न्यासधारी चेत् पतिर्भवति भो मुने ।
तदा स्त्रिया प्रदातव्या तस्मा आज्ञा महामुने ॥ ११ ॥

यदा गृहस्थितो भर्ता मृतश्चेत् सहगा भवेत् ।
वनस्थितस्तदा तद्वत् कर्तव्यं सुस्त्रिया किल ॥ १२ ॥

मृते भर्तरि पत्नी सा गर्भयुक्ता रजस्वला ।
तदा पत्या न सङ्गच्छेद्विधवाधर्मगा भवेत् ॥ १३ ॥

चतुर्थे दिवसे शुद्धा भवेत् सा पतिकर्मणि ।
पञ्चमे दिवसे विप्रादिपूजायां शुचिर्भवेत् ॥ १४ ॥

विधवा स्त्री सदा विप्र एकभुक्तपरायणा ।
व्रतादिना स्वदेहं वै शोषयेन्नित्यमादरात् ॥ १५ ॥

एवमादिः सतीनां वै धर्मो मुख्यः प्रकीर्तितः ।
श्रवणात् पुण्यदस्तासां भवत्येव महामुने ॥ १६ ॥

सर्वेषां पितृदेवानां कर्म कर्तव्यमादरात् ।
मनुजैस्तत्र पितॄणां कर्म सङ्क्षेपतः शृणु ॥ १७ ॥

अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः ।
पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ १८ ॥

पिण्डान्वाहार्यकं श्राद्धं सङ्क्रमेषु प्रशस्यते ।
अपराह्णे द्विजातीनां प्रशस्तेनामिषेण वै ॥ १९ ॥

[[४३]]

पूर्णिमाद्या अमान्ता यास्तिथयः कृष्णपक्षके ।
चतुर्दशीं वर्जयित्वा प्रशस्ताः श्राद्धकर्मणि ॥ २० ॥

शस्त्रादिविषयोगैर्ये मृतास्तेषां महामुने ।
चतुर्दश्यां समाख्यातं श्राद्धं नान्यत्र शस्यते ॥ २१ ॥

कृष्णपक्षेऽष्टकास्तिस्रः पौषमासादिषु त्रिषु ।
चतस्रोऽप्यष्टकाः पुण्याः श्राद्धकर्मणि सर्वदा ॥ २२ ॥

त्रयोदशी समायुक्ता युगादितिथयः स्मृताः ।
मन्वादितिथयः श्राद्धे प्रशस्ताः पुण्यदा मताः ॥ २३ ॥

नैमित्तिकमिदं प्रोक्तं व्यतीपाते च वैधृतौ ।
बान्धवानां मृतानां च दशपिण्डादिकं मुने ॥ २४ ॥

काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ।
अयने विषुवे चैव तीर्थे क्षेत्रे त्वनित्यकम् ॥ २५ ॥

अक्षय्यं वारतिथिषु स्वस्वजन्मदिनेष्वपि ।
नक्षत्रेषु च सर्वेषु कार्यं श्राद्धं विशेषतः ॥ २६ ॥

अथवेह सुखप्राप्त्यै पितृलोकसुखाय च ।
श्राद्धं कामप्रदं प्रोक्तं सर्वदा नित्यवन् मुने ॥ २७ ॥

गयायामक्षयं श्राद्धं प्रयागेऽमरकण्टके ।
मयूरेशपुरे चैव काश्यादिषु विशेषतः ॥ २८ ॥

गायन्ति पितरो गाथां नर्तयन्ति मनीषिणः ।
एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ॥ २९ ॥

तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् ।
गयां प्राप्यानुसर्गेण यदि श्राद्धं समाचरेत् ॥ ३० ॥

तारिताः पितरस्तेन स याति परमां गतिम् ।
वाराहे पर्वते चैव गयायां च विशेषतः ॥ ३१ ॥

मयूरे च तथा काश्यामष्टवैनायकस्थले ।
गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ॥ ३२ ॥

कुरुक्षेत्रे सेतुबन्धे भृगुतुङ्गे महालये ।
केदारे फल्गुतीर्थे वै नैमिषारण्यकादिषु ॥ ३३ ॥

इत्यादिबहुरूपेषु यदि श्राद्धं समाचरेत् ।
तदा भुक्तिप्रदं प्रोक्तमपवर्गप्रदं भवेत् ॥ ३४ ॥

चतुर्थी शुक्लकृष्णैवैकादशी रविवासरः ।
प्रदोषश्च तथा विप्र अष्टमी सर्वसिद्धिदा ॥ ३५ ॥

नित्यं देवार्चनं प्रोक्तं व्रतादिषु विशेषतः ।
एवं नानाव्रतादीनां कर्तव्यं सेवनं नरैः ॥ ३६ ॥

अग्निहोत्रादिमार्गैश्च देवानां सेवनं मतम् ।
तीर्थादिदानसम्भावैरिष्टापूर्तादिसम्मतम् ॥ ३७ ॥

एवं दैवं तथा पित्र्यं विविधं कर्म कथ्यते ।
तदेव ब्रह्मणि प्राज्ञैरर्पितं योगदं भवेत् ॥ ३८ ॥

इदं मायामयं प्रोक्तं कर्म वर्णाश्रमात्मकम् ।
मायामोहनिवृत्त्यर्थं रचितं विश्वयोनिना ॥ ३९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते देवपितृकर्मवर्णनं नामैकविंशतितमोऽध्यायः ॥

[[४४]]