॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
वर्णाश्चत्वार एवं ते स्वस्वधर्मयुता मुने ।
ब्राह्मणः क्षत्रियो वैश्यः शृणु शूद्रः प्रकथ्यते ॥ १ ॥
व्यभिचारेण तेषां वै वर्णा जाता महामुने ।
नानाविधा विशेषेण जानीह्यत्र न संशयः ॥ २ ॥
तत्र ब्राह्मणधर्मं ते कथयामि समासतः ।
शृणु मायाविनाशार्थं मायारूपं पुरातनम् ॥ ३ ॥
चतुर्धा ब्राह्मणानां वै वृत्तिः शास्त्रैः प्रकीर्तिता ।
उञ्छः शिलं तथा शुक्लं मृतं चामृतकं भवेत् ॥ ४ ॥
अयाचितं च भूमेर्यत् कर्षणं वा वने स्थितिः ।
तेषां मार्गं प्रवक्ष्यामि शृणुष्व सुसमाहितः ॥ ५ ॥
गृहीतं कृषिकैर्धान्यं तत्र शिष्टं तदग्रहम् ।
कणादि तस्य योगेन देहपोषणमाचरेत् ॥ ६ ॥
[[४१]]
अथवा वाणिजादीनां गृहेभ्यो मार्जितं भवेत् ।
कणादि तस्य योगेन देहपोषणमाचरेत् ॥ ७ ॥
एका वृत्तिरियं प्रोक्ता द्वितीयां शृणु साम्प्रतम् ।
भूमेः कर्षणहीनेन वृष्ट्याऽन्नं तत्र जायते ॥ ८ ॥
तेनैव देहनिर्वाहः कर्तव्यो ब्राह्मणैः सदा ।
शुक्लवृत्याऽऽचरेद्भैक्ष्यं रागलोभविवर्जितः ॥ ९ ॥
तेन देहस्य निर्वाहं स कुर्यात्तन्मृतं स्मृतम् ।
अयाचितेन वा कार्योऽमृतमेतत् प्रकीर्तितम् ॥ १० ॥
कृषीवलैः स भूमेर्यत् कर्षणं वा समाचरेत् ।
तत्र धान्योद्भवे नैव देहपोषणकं चरेत् ॥ ११ ॥
स्वधर्मः पूर्वभागे ते कथितश्च महामुने ।
सेवादिवृत्तियोगेन तिष्ठेन्न ब्राह्मणः कदा ॥ १२ ॥
क्षत्रियाणां च शस्त्रादिधारणेन महामुने ।
देहनिर्वाहकः प्रोक्तो न सेवाकारको भवेत् ॥ १३ ॥
अग्निहोमं च विप्रस्य हस्तेनाऽयं समाचरेत् ।
सन्न्यासं नैव विप्रेश कुर्यात् क्षत्रियजः कदा ॥ १४ ॥
वैश्योऽपि क्रयकारी वै विक्रयं च तथाऽऽचरेत् ।
कृषिभिः कर्षणं भूमेर्गवां पालनमादरात् ॥ १५ ॥
सन्न्यासधर्महीनश्च सदा तिष्ठेत् स मानद ।
क्षत्रियाणां विशां विप्र यजनं दानमेव च ॥ १६ ॥
समाख्यातं त्वध्ययनं न प्रोक्तं याजनादिकम् ।
अग्निकर्म तथा देवार्चनं ब्राह्मणहस्ततः ॥ १७ ॥
कारयेद्वैश्यधर्मज्ञः स्वधर्मपालनाय वै ।
तर्पणं ब्राह्मणास्येन मन्त्रेण तु समाचरेत् ॥ १८ ॥
एष वैश्यस्य मार्गो वै कथितस्ते द्विजोत्तम ।
शूद्रस्य तु त्रिवर्णानां सदा सेवा प्रकीर्तिता ॥ १९ ॥
दासवन्नात्र सन्देह आश्रमो गृहिसञ्ज्ञितः ।
दानं दद्याद् द्विजायैव पुराणश्रवणं तथा ॥ २० ॥
कुर्याद्वेदाक्षरस्यायं न कुर्याच्छ्रवणं कदा ।
पुराणादिषु देवानामवताराः प्रकीर्तिताः ॥ २१ ॥
तेषां मूर्तिप्रतिष्ठा वै कृता देवर्षिभिः पुरा ।
तासां स्पर्शादिकं चैव न कर्तव्यं कदाचन ॥ २२ ॥
नरादिभिश्च सर्वत्र स्वेच्छया स्थापिता भवेत् ।
तस्याः स्पर्शश्च कर्तव्यः शूद्रैर्नित्यं महामुने ॥ २३ ॥
नाममन्त्रेण पूजा वै कर्तव्या स्मरणं तथा ।
मृत्तिकार्चां समभ्यर्चेन्नाममन्त्रेण वा मुने ॥ २४ ॥
आवाहनादि प्रारभ्य विसर्गान्तं समाचरेत् ।
पुराणसम्भवैर्मन्त्रैः श्राद्धतर्पणकादिकम् ॥ २५ ॥
ब्राह्मणानां मुखैश्चैव शुद्रैः कर्तव्यमादरात् ।
न पुराणादिसम्भूताः श्लोकास्ते शूद्रजातिभिः ॥ २६ ॥
पठितव्या महाभाग श्रवणं सम्मतं सदा ।
अन्त्यजातिभवाः शूद्रास्तैर्नामस्मरणं सदा ॥ २७ ॥
कर्तव्यं देवमूर्तीनां स्पर्शो नैव कदाचन ।
पुराणसम्भवैर्मन्त्रैर्न कर्तव्यं महामुने ॥ २८ ॥
कर्म किञ्चिच्च तैः सर्वैः स्वस्वधर्मपरायणैः ।
पितॄणां देवतानां चोद्देशं कृत्वा धनादिकम् ॥ २९ ॥
धान्यं तैः सम्प्रदातव्यमेष मार्गः पुरातनः ।
स्वस्वधर्मरता एते स्वर्गगामिन एव च ॥ ३० ॥
भवन्ति नात्र सन्देहो महाभोगाः सुखे रताः ।
प्राजापत्यं ब्राह्मणानां क्षत्रियाणां तथैन्द्रकम् ॥ ३१ ॥
वायवं वैश्यजातीनां गान्धर्वं शूद्रजन्मिनाम् ।
स्वस्वकर्मरतानां वै पदं प्रोक्तं मनीषिभिः ॥ ३२ ॥
[[४२]]
तत्र ते भोगभोक्तारो भवन्त्यत्र न संशयः ।
एवं मायामयं स्वल्पं वर्णधर्मप्रकाशनम् ।
शृणोति यः पठेत्तस्य मायामोहो न विद्यते ॥ ३३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते वर्णधर्मप्रकाशो नाम विंशतितमोऽध्यायः ॥