१९ आश्रमधर्मवर्णनम्

॥ श्रीगणेशाय नमः ॥

नरनारायणावूचतुः ।
ततः क्षौरं द्विजः कृत्वा पितृमातृपरायणः ।
स्वगृहे वासमातिष्ठेत् द्विजदेवपरायणः ॥ १ ॥

ऊनेन वयसा युक्तां कुलशीलादिसंयुताम् ।
सर्वावयवसम्पूर्णां वधूं स वरयेत्ततः ॥ २ ॥

ऋतुगामी भवेच्चैव सन्तानार्थं कलत्रवान् ।
देवविप्रातिथिप्रेप्सुः सन्तिष्ठेत् स गृहाश्रमी ॥ ३ ॥

यजनं याजनं चैव दानमध्ययनं तथा ।
प्रतिग्रहोऽध्यापनं च षट् कर्माणि समाचरेत् ॥ ४ ॥

स्नानं सन्ध्यां जपं होममातिथ्यं देवतार्चनम् ।
स्वाध्यायं वैश्वदेवं वै गृही नित्यं समाचरेत् ॥ ५ ॥

चतुर्थीव्रतमाद्यं च कर्तव्यं त्वाश्रमस्थितैः ।
तथाऽन्यानि व्रतादीनि कर्तव्यानि विशेषतः ॥ ६ ॥

चतुर्थी व्रतहीनस्य नाधिकारो व्रतेषु वै ।
सदा शौची भवेन्नूनं चतुःपदविवर्जितः ॥ ७ ॥

शुक्ले चतुर्थिकायां वै योऽन्नं भुङ्क्ते महामुने ।
मांसाहारी मतो नूनं तथा भवति नारकी ॥ ८ ॥

अग्निहोत्रं चरेन्नित्यं तथा श्राद्धादिकं मुने ।
सदा दयापरो भूत्वा सन्तिष्ठेद् गृहसंस्थितः ॥ ९ ॥

अभक्षभक्षणं क्वापि न कुर्यात् स गृहाश्रमी ।
शौचाचारसमायुक्तो भवेन्नियमसंयुतः ॥ १० ॥

तर्पणं पितृदेवानां मुनीनां च समाचरेत् ।
पञ्चयज्ञादिकं सर्वं नित्यं शास्त्रे प्रकीर्तितम् ॥ ११ ॥

स्वस्वसत्ताप्रमाणेन कर्तव्यं गृहमेधिना ।
तत्र धर्ममनुप्रोक्तं तं शृणुष्व महामुने ॥ १२ ॥

अर्धेन पुत्रदारादींश्चतुर्थांशेन सौहृदम् ।
चतुर्थांशेन देवादीन् तोषयेच्च गृहाश्रमी ॥ १३ ॥

एवं नानाविधं धर्मं गृहस्थश्च समाचरेत् ।
तृतीयभाग आयुष्ययुक्तः सोऽपि वनी भवेत् ॥ १४ ॥

संस्थाप्य दारान् पुत्रादिसमीपे वा सह स्त्रिया ।
वनं गच्छेत् स धर्मार्थं तपस्वी कर्मसिद्धये ॥ १५ ॥

पुत्रा जाताश्च नोत्पन्ना अपि तद् वनगो भवेत् ।
तपस्तत्र प्रकुर्यात् स फलकन्दादि भक्षयन् ॥ १६ ॥

वन्येन चाग्निहोत्राद्यतिथीनां पूजनादिकम् ।
समाचरेद्वनस्थश्च नानातपसि संस्थितः ॥ १७ ॥

समीपे संस्थिता पत्नी मैथुनं न समाचरेत् ।
मनसाऽपि महाभाग वानप्रस्थः कदाचन ॥ १८ ॥

वायुभक्षादिकं कुर्याद्वायुसाधनमेव सः ।
प्राणायामैश्च विप्रेश आचरेद्वनसंस्थितः ॥ १९ ॥

पञ्चाग्निसाधनं ग्रीष्मे हेमन्ते जलवासनम् ।
वर्षास्वाकाशवासी स वानप्रस्थो भवेत्तथा ॥ २० ॥

सङ्कटे च वनस्थः स ग्रामे नैव वसेत् कदा ।
प्रवेशोऽपि न कर्तव्यो ग्रामे तेन महात्मना ॥ २१ ॥

एवं नानाविधान् धर्मान् वानप्रस्थग आचरेत् ।
चतुर्थांशं यदा तस्यायुष्यं विद्येत भो मुने ॥ २२ ॥

चतुर्थांशायुषि स्थाता सन्न्यासं स समाचरेत् ।
तदा स्त्रियाऽपि तस्यैवाशां त्यक्त्वा ज्ञापितो भवेत् ॥ २३ ॥

आज्ञा तस्मै प्रदातव्या स्त्रिया चैव विशेषतः ।
स्वयं तपसि देहं स्त्री शोषयेन् मरणावधि ॥ २४ ॥

अग्निहोत्रं स्वदेहेऽसावात्मन्येकस्वभावतः ।
कृत्वा च निःस्पृहो भूत्वा विचरेत् पृथिवीमिमाम् ॥ २५ ॥

अहं ब्रह्मेति भावेन योगभूमिक्रमेण च ।
योगी भवति सन्न्यासी चित्तभूमिविवर्जितः ॥ २६ ॥

[[३९]]

कर्मादिन्याससंयुक्तो विचरेद्यत्र तत्र वै ।
ग्रामैकरात्रवासी स भवेन्न्यासपरायणः ॥ २७ ॥

द्वन्द्वभावविहीनः स भिक्षां नित्यं समाचरेत् ।
करपात्री भवेद्वाऽपि सन्न्यासी च सदा मुने ॥ २८ ॥

करपात्री स सन्न्यासी ग्रासे ग्रासे महामुने ।
अश्वमेधादिकं पुण्यं प्राप्नोत्यत्र न संशयः ॥ २९ ॥

चातुर्मास्ये वसेच्चैव तीर्थक्षेत्रादिभूमिषु ।
जितेन्द्रियो जितप्राणो निःसङ्गः सर्वकर्मसु ॥ ३० ॥

अहिंसा परमो धर्मः सन्न्यासानां विशेषतः ।
तृणादिकं च विप्रेश च्छेदयेन्न कदा न च ॥ ३१ ॥

त्रिदण्डी यस्तु सन्न्यासी कुटीचक उदाहृतः ।
विधिं तत्र प्रवक्ष्यामि शृणु त्वं मुनिसत्तम ॥ ३२ ॥

स्वधर्माचरणं नित्यं देहदण्डः स उच्यते ।
मौनं वाचामयं दण्डो द्वितीयश्च प्रकीर्तितः ॥ ३३ ॥

सर्वत्र रसहीनं च मानसं वर्तते यथा ।
कर्तव्यं तत्तथा तेन मनोदण्डः प्रकीर्तितः ॥ ३४ ॥

कुटीं देहमयीं योगी चालयेत् बिम्बभावतः ।
ब्रह्मणि ब्रह्मभूतश्च स कुटीचक उच्यते ॥ ३५ ॥

ततो बहूदको योगी द्विदण्डी स भवेन् मुने ।
देहदण्डविहीनत्वात् स्वेच्छाचारी विशेषतः ॥ ३६ ॥

एकगर्तस्थमुदकं सर्वैः सङ्गृह्यते यथा ।
गर्ते दोषो नराणां वै विद्यते न कदाचन ॥ ३७ ॥

तथात्मा देहसंस्थश्च चतुर्देही विकारतः ।
भिन्नः सदा न तद्दोषैर्लिप्यते क्वापि निश्चितम् ॥ ३८ ॥

सोऽहं ब्रह्मणि संस्थश्च भेदहीनो महामुनिः ।
बहूदकः स निःसङ्गो देहादिभ्यः प्रकीर्तितः ॥ ३९ ॥

ततो हंसाश्रमः प्रोक्तो मानसे दण्डधारकः ।
देहवाणीदण्डहीनः स्वेच्छाचारी मतो मुने ॥ ४० ॥

देहदेहिसमायोगे ब्रह्म बोधात्मकं मतम् ।
तत्र संस्थः स्वयं योगी द्विविधे तन्मयो भवेत् ॥ ४१ ॥

द्वन्द्वं जलमयं प्रोक्तं देहदेहिस्वरूपकम् ।
तत्र दुग्धं भवेद्ब्रह्म हंसस्तद् ग्राहको भवेत् ॥ ४२ ॥

ततः परमहंसश्च ज्ञानदण्डपरायणः ।
देहवाणीमनोभूतैर्दण्डैर्हीनः प्रकीर्तितः ॥ ४३ ॥

देहदेहिमयं ब्रह्म भ्रान्तियुक्तं विशेषतः ।
तच्च प्रोक्तं सविषयं हंसकर्म परायणम् ॥ ४४ ॥

सदा साक्षिस्वरूपं यत्परं ब्रह्म महामुने ।
तत्र संस्थो महायोगी त्रिविधेषु विभागतः ॥ ४५ ॥

नाहं देहो न देहस्थो देहदेहिमयो न वै ।
सदा साक्षिस्वरूपस्थो ज्ञानानन्दमयो भवेत् ॥ ४६ ॥

यद्यज्ञानं भवेत्तस्य तत्तत् सर्वं विकारजम् ।
तत्त्यक्त्वा द्वन्द्वहीनश्च स्वेच्छाचारी भवेत् स्वयम् ॥ ४७ ॥

चतुर्विधोऽयं सन्न्यासस्तत्राश्रमसमाश्रितः ।
अहं ब्रह्मेति योगेन ब्रह्मभूतो भवेन्नरः ॥ ४८ ॥

मनसा रसयुक्तेन विषयादिषु भो मुने ।
सन्न्यासश्च कृतो येन नारकः स भविष्यति ॥ ४९ ॥

कपर्दिका यदा तेनैका गृहीता महामुने ।
तदा सहस्रवर्षाणि कुम्भीपाके पतेत् ध्रुवम् ॥ ५० ॥

स्त्रीसम्भोगसुखेच्छा चेत्तस्य वै मानसे क्षणम् ।
सम्भवेच्चेत्तदा विप्र गोसहस्रवधी भवेत् ॥ ५१ ॥

कृते मनः सदाऽऽधीनं नराणां धर्मयोगतः ।
ध्यानं मुख्यं कृतं तत्र तेन सर्वं प्रलभ्यते ॥ ५२ ॥

[[४०]]

त्रेतायां चञ्चलं चित्तं धर्मस्य पादहीनतः ।
तपस्तत्र कृतं मुख्यं तेन सर्वं लभेन्नरः ॥ ५३ ॥

द्वापरे देहकष्टं यन्न भवेत्तेन तत्र च ।
मुख्यः स्वधर्माचारश्च तेन सर्वं लभेन्नरः ॥ ५४ ॥

कलावासुरभावेन नष्टो धर्मः क्रमेण वै ।
तत्र स्मरणमात्रेण नाम्नः सर्वं लभेन्नरः ॥ ५५ ॥

नामस्मरणमार्गे वर्णाश्रमो न च विद्यते ।
सन्न्यासादिः सदाचारो भवेत्तेनासुरं हतम् ॥ ५६ ॥

कलावासुरबाहुल्यान्न सन्न्यासस्य योग्यता ।
चञ्चलं देहचित्तादि तेन नष्टो भविष्यति ॥ ५७ ॥

वर्णाश्रमविहीनश्च यो वै भवति निश्चितम् ।
तस्य दण्डो न विद्येतादण्डी वेदे स कथ्यते ॥ ५८ ॥

ज्ञानदण्डपरित्यागात् स्वयं योगी भवेन्नरः ।
निषेधविधिहीनश्च स्वेच्छाधर्मपरो भवेत् ॥ ५९ ॥

कर्तव्यं यदि तेनाऽपि वेदेषु विधृतं भवेत् ।
तदा विधिसमायुक्तो जन्तुर्भवति निश्चितम् ॥ ६० ॥

किञ्चिन्न तेन कर्तव्यं यदा वेदे प्रकीर्तिम् ।
तदा निषेधसंयुक्तो नरो भवति मानद ॥ ६१ ॥

अतो विधिनिषेधाभ्यां हीनो योगी प्रकीर्तितः ।
तेनाचरित आचारः स एवं तस्य योगदः ॥ ६२ ॥

अतो योगी महाभाग दण्डहीनः प्रकीर्तितः ।
वर्णाश्रमविहीनः स ब्रह्मभूतः प्रजायते ॥ ६३ ॥

स विनायकनामा वै नायकैर्वर्जितः स्वयम् ।
योगी तेन समाख्यातः सर्वेषां नायको भवेत् ॥ ६४ ॥

ब्रह्मणि ब्रह्मभूतश्चेज्जातो योगस्य सेवया ।
यदि वर्णाश्रमे संस्थो भवति स्वेच्छया मुने ॥ ६५ ॥

लोकसङ्ग्रहणार्थं स नित्यं धर्मं समाचरेत् ।
निःस्पृहो धर्मभोगार्थे मतं तदपि तादृशम् ॥ ६६ ॥

एतदाश्रममार्गश्च कथितस्ते महामुने ।
मायया रचितं सर्वं जानीहि भ्रमणात्मकम् ॥ ६७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते आश्रमधर्मवर्णनं नाम एकोनविंशतितमोऽध्यायः ॥