॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
वर्णाश्रमाश्च चत्वारस्ताञ्छृणुष्व महामुने ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णाः प्रकीर्तिताः ॥ १ ॥
ब्रह्मचर्यं च गार्हस्थ्यं वानप्रस्थ्यं तथैव च ।
प्रोक्ता वेदेषु सन्न्यास आश्रमा वेदवादिभिः ॥ २ ॥
ब्राह्मणानां क्रमेणैते मताश्चत्वार आश्रमाः ।
क्षत्रियाणां च वैश्यानां सन्न्यासो न प्रविद्यते ॥ ३ ॥
गार्हस्थ्यमेव शूद्राणामाश्रमः परिकीर्तितः ।
अन्त्यजानां तदेवापि ज्ञातव्यं विबुधैः सदा ॥ ४ ॥
ब्राह्मणश्च समुत्पन्नो बालभावपरायणः ।
पञ्चमे सप्तमे चैवाऽष्टमे मौञ्जीं समाचरेत् ॥ ५ ॥
कृतोपवीतको विप्रः प्रगच्छेद्गुरुसन्निधौ ।
तत्र वेदादिकं सर्वमभ्यसेद् विनयान्वितः ॥ ६ ॥
तत्रैव ब्रह्मचर्यान्तं ब्राह्मणः प्रसमाचरेत् ।
सायं प्रातश्चरेद्भिक्षां गायत्रीमभ्यसेत्ततः ॥ ७ ॥
प्रातःकाले ब्रह्मरूपां मध्याह्ने रुद्ररूपिणीम् ।
गायत्रीं विष्णुरूपां तां ध्यायेत् सायाह्न आदरात् ॥ ८ ॥
भूर्भुवःस्वस्त्रिभिश्चैवाचामेन्नियमसंयुतः ।
स्वाहान्ताभिर्महातेजाः स्पृशेन्न्यासेषु चेन्द्रियम् ॥ ९ ॥
तर्जन्याद्यङ्गुलीभिश्च तिसृभिः संस्पृशेन् मुखम् ।
तर्जन्यङ्गुष्ठयोगेन नासिकां संस्पृशेद् बुधः ॥ १० ॥
अङ्गुष्ठानामिकाभ्यां वै तथा चक्षूंषि संस्पृशेत् ।
कनिष्ठया च कर्णौ वै संस्पृशेन्नात्र संशयः ॥ ११ ॥
अङ्गुष्ठाभ्यां स्पृशेन्नाभिमुरः करतलेन च ।
सर्वाङ्गुलीभिर्भ्रूमध्यमङ्गुष्ठाग्रेण वै शिखाम् ॥ १२ ॥
सर्वाङ्गुलीभिर्बाहुं स्वं स्पृशेन्न्यासादिकर्मसु ।
एवमाचमनं प्रोक्तं स्वस्वशाखोक्तनामभिः ॥ १३ ॥
मन्त्रैर्वैदिकसम्भूतैः सन्ध्या कार्या विशेषतः ।
न्यासांश्च कारयेत्तत्र प्रणवस्य महामुने ॥ १४ ॥
व्याहृतीनां च गायत्र्याः षडङ्गेष्वक्षरोद्भवान् ।
गायत्रीशिरसो न्यासांस्तत आचमनं चरेत् ॥ १५ ॥
सूर्यश्चेति च मन्त्रेण प्रातःकाले विशेषतः ।
आपः पुनन्तु मध्याह्ने सायाह्नेऽग्निश्च मन्त्रतः ॥ १६ ॥
ततो मार्जनकं कुर्यान्नवविंशतिसङ्ख्यया ।
ततोऽर्घ्यदानकं कुर्यादुपस्थानं ततश्चरेत् ॥ १७ ॥
[[३७]]
गायत्र्याः शापमोक्षं वै ततो ध्यानं जपं चरेत् ।
ब्रह्मचारी शतान्येव पञ्चकालेषु वै पृथक् ॥ १८ ॥
गायत्र्याश्च जपं कुर्याद्वाग्यतो मानसैक्यतः ।
अष्टोत्तरशतं काले गृहस्थो जपमाचरेत् ॥ १९ ॥
वानप्रस्थश्च काले वै सहस्रं जपमाचरेत् ।
एवं सन्ध्या त्रिकालेषु ब्राह्मणैः क्रियते सदा ॥ २० ॥
त्रिपदां चैव गायत्रीं जपेदोङ्कारसंयुताम् ।
तत्र क्रमं प्रवक्ष्यामि शृणु तं मुनिसत्तम ॥ २१ ॥
आदौ प्रणवमुच्चार्य पश्चाद्व्याहृतिरुच्यते ।
भूर्भुवः स्वरिति प्रोक्ता ततः प्रणव उच्यते ॥ २२ ॥
ततः सा त्रिपदा विप्र गायत्री च ततः पुनः ।
ओङ्कारो विधिना नित्यं जपः सङ्क्रियते द्विजैः ॥ २३ ॥
सन्न्यासिभिश्च विप्रेन्द्र चतुष्पादा विशेषतः ।
जप्तव्या सैव गायत्री स्वस्वाश्रमविभागतः ॥ २४ ॥
ब्रह्मचारी स्वगोत्रादिगृहस्थेषु महामुने ।
भिक्षां चरेद्विधानेन गुरवे तां निवेदयेत् ॥ २५ ॥
भवत् पूर्वं व्रती विप्रो भवन् मध्यं तु क्षत्रियः ।
भवदन्तं तथा वैश्यः सदा भिक्षार्थमुच्चरेत् ॥ २६ ॥
गृहीता गुरुणा भिक्षा सम्पूर्णा यदि मानद ।
तदोपवाससंयुक्तो वसेद्वै ब्रह्मचर्यवान् ॥ २७ ॥
स्वल्पा वा परिपूर्णा वा दत्ता भिक्षा महात्मना ।
गुरुणा तावतीं भुक्त्वा सन्तिष्ठेत्तस्य सन्निधौ ॥ २८ ॥
पालाशदण्डसंयुक्तः सायं प्रातः स वह्निषु ।
जुहुयात् समिधं चैव नखलोमधरो भवेत् ॥ २९ ॥
गुरुदेवपरं तस्य दैवतं सर्वभावतः ।
गुरुस्त्रीपुत्रसेवां स गुरुवत्तां समाचरेत् ॥ ३० ॥
एकान्ते गुरुपत्नीभिर्न वसेच्च कदाचन ।
न स्त्रीभिः सह सम्भाषां स कुर्यात् कार्यहीनकः ॥ ३१ ॥
स्त्रीगानादिकभावान् वै शृणुयान्न सुयन्त्रितः ।
न शुक्रं सन्त्यजेतापि ब्रह्मचारी विशेषतः ॥ ३२ ॥
स्वप्ने शुक्रं गतं चेद्वै तदा स्नानं समाचरेत् ।
अष्टोत्तरशतं तत्र गायत्री जप उच्यते ॥ ३३ ॥
गुरुणाऽध्यापितश्चैव कुर्यादध्ययनं मुने ।
न स्वयं संवदेत् प्राज्ञो गुरुं विद्यापरायणः ॥ ३४ ॥
एवं नानाविधैः प्रोक्तैर्लक्षणैः संयुतो भवेत् ।
ब्रह्मचारी महाभागो वेदाध्ययनतत्परः ॥ ३५ ॥
वर्षाणि द्वादशैवाऽयं षोडशाऽप्यथ वा द्विजः ।
अथ वेच्छाप्रमाणेन ब्रह्मचर्यं समाचरेत् ॥ ३६ ॥
वेदादिकं समभ्यस्य कृत्वा कण्ठगमादरात् ।
पश्चाद्गुरुं समभ्यर्च्य दद्यात्तस्मै स दक्षिणाम् ॥ ३७ ॥
मनोविषयसंयुक्तं यदा तत्र गृही भवेत् ।
नोचेत् सन्न्यासकं कुर्यादथवा वनगो भवेत् ॥ ३८ ॥
अथवा ब्रह्मचर्यस्थः सदा तिष्ठेद् द्विजोत्तमः ।
यादृशी चित्तशुद्धिर्वै तादृशं सर्वमाचरेत् ॥ ३९ ॥
कृतमध्ययनं येन तदधीनं महामुने ।
ज्ञानं योगादिकं कर्म तस्मात्तच्च समाचरेत् ॥ ४० ॥
ब्रह्मचर्यमिदं प्रोक्तं सङ्क्षेपेण महामुने ।
श्रवणात् पुण्यदं पूर्णं लोकोपकृतये भवेत् ॥ ४१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते ब्रह्मचर्याश्रमवर्णनं नामाष्टादशोऽध्यायः ॥
[[३८]]