१७ कलियुगवर्णनम्

॥ श्रीगणेशाय नमः ॥

नरनारायणावूचतुः ।
सात्त्विकं च युगं प्रोक्तं कृतं त्रेता च राजसी ।
द्वापरस्तमसा युक्तः स्वयं राजस उच्यते ॥ १ ॥

कलिस्तमोमयः पूर्णस्तत्र सर्वं विनश्यति ।
पापरूपधरः साक्षाद्विप्रधर्मः कुतो भवेत् ॥ २ ॥

कलौ प्रमारको रोगः सततं क्षुद्भयं मुने ।
अनावृष्टिभवं दुःखं देशानां च विपर्ययः ॥ ३ ॥

अधार्मिका अनाचारा महाकोपाऽल्पचेतसः ।
वदिष्यन्त्यनृतं लुब्धाः कलौ जाताः सुदुःप्रजाः ॥ ४ ॥

अरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ।
विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥ ५ ॥

नाधीयते कलौ वेदान्न यजन्ति द्विजातयः ।
पठन्ति न्यायतो वेदान् शूद्राग्रे चाल्पबुद्धयः ॥ ६ ॥

शूद्राणां मन्त्रयोगैश्च सम्बन्धो ब्राह्मणैः सह ।
भविष्यति कलौ विप्र शयनासनभोजनैः ॥ ७ ॥

शूद्रा भवन्ति राजानो ब्राह्मणान् बाधयन्ति ते ।
ब्रह्महत्यां पशोर्हत्यां कुर्वन्ते वै नरेश्वराः ॥ ८ ॥

स्नानं होमं जपं दानं देवतानां तथाऽर्चनम् ।
अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः ॥ ९ ॥

विनिन्दन्ति गणेशानं ब्राह्मणान् दैवतान्यपि ।
वेदान् शास्त्राणि सर्वाणि पुराणानि कलौ युगे ॥ १० ॥

कुर्वन्त्यवेदकर्माणि ह्यनाधाराणि भो मुने ।
स्वधर्मेषु रुचिर्नैव द्विजादीनां प्रजायते ॥ ११ ॥

कुशीलचर्यापाखण्डो वृथाऽनृतभयं भवेत् ।
याचकाः सर्ववर्णाश्च भविष्यन्ति कलौ युगे ॥ १२ ॥

अदृशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलाश्च भविष्यन्ति कलौ युगे ॥ १३ ॥

शुक्लदन्ता अक्षजिता मुण्डाः काषायवाससः ।
शूद्रा धर्मं चरिष्यन्ति ब्राह्मणानां कलौ युगे ॥ १४ ॥

अन्नचौरा भविष्यन्ति तथा वेलाभिमर्षिणः ।
चौरा चौरस्य हर्तारो हर्तुर्हर्तार एव च ॥ १५ ॥

दुःखप्रचुरताऽल्पायुः शिश्नोदरपरायणाः ।
द्यूतमद्यादिसंसक्ताः परस्त्रीलम्पटा मुने ॥ १६ ॥

कापालिकास्तथा चान्ये यतयो गृहमेधिनः ।
वेदविक्रयिणो विप्रास्तीर्थविक्रयिणस्तथा ॥ १७ ॥

आसनस्था द्विजान् दृष्ट्वा न चलन्त्यल्पबुद्धयः ।
ताडयन्ति द्विजान् शूद्रा राजानो राजजीविनः ॥ १८ ॥

उच्चासनसमासीना ब्राह्मणानां च पूजकाः ।
भविष्यन्ति कलौ शूद्रा वेदाध्ययनतत्पराः ॥ १९ ॥

सेवावसरमालोक्य द्वारि तिष्ठन्ति वै द्विजाः ।
उपायनादि सङ्गृह्य शूद्राणां राजजीविनाम् ॥ २० ॥

बुद्धिशालिन एवं वै शूद्रा धर्मान् वदन्ति वै ।
वेदवादविचारज्ञा ब्राह्मणान् शिक्षयन्ति ते ॥ २१ ॥

तपो यज्ञफलानां वै वेदानां च सुकर्मणाम् ।
विक्रेतारो भविष्यन्ति ब्राह्मणाश्च कलौ युगे ॥ २२ ॥

पतिं त्यक्त्वा स्त्रियश्चैव परे पुंसि निरन्तरम् ।
संसक्ताश्च भविष्यन्ति पतिद्रोहपरायणाः ॥ २३ ॥

यतयश्च भविष्यन्ति शतशोऽथ सहस्रशः ।
मद्यस्त्रीसङ्गसंसक्ताश्चरन्ति च कलौ युगे ॥ २४ ॥

वाममार्गाः पाशुपताः साङ्ख्या वै पञ्चवाहकाः ।
भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥ २५ ॥

[[३५]]

ज्ञानमार्गेषु नष्टेषु लोके निष्क्रियतां गते ।
कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ २६ ॥

करिष्यन्त्यवतारांश्च ब्राह्मणानां कुलेषु ते ।
दधीचिशापनिर्दग्धा पुरा दक्षाध्वरे द्विज ॥ २७ ॥

शापयुक्ता गौतमस्य भविष्यन्ति विशेषतः ।
वामादिमार्गसंसक्ता जनान् भ्रष्टांश्च कुर्वते ॥ २८ ॥

अन्यजातिषु सर्वत्र भविष्यन्ति तथा नराः ।
दक्षाध्वरे सर्ववर्णाः शापितास्ते दुराग्रहाः ॥ २९ ॥

मोहयिष्यन्ति च जनान् दर्शयित्वा फलानि वै ।
तमसाऽऽविष्टहृदया बिडालव्रतिकाऽधमाः ॥ ३० ॥

बौद्धमायाधरस्तत्र विष्णुः पाखण्डपोषकः ।
सहायस्तान् सदा देवो दधीचेः शापकारणात् ॥ ३१ ॥

कर्ममार्गस्य सञ्छेत्ता भ्रष्टाचारयुतान्नरान् ।
करिष्यति स्वयं विष्णुर्युगधर्मप्रवर्तकः ॥ ३२ ॥

अतज्ज्ञास्तं भविष्यन्ति शरणागतवत्सलम् ।
बौद्धमायाश्रितं सर्वे भ्रष्टाचारयुता नराः ॥ ३३ ॥

कलौ दशसहस्रं वै वर्षाणां च यदा भवेत् ।
विष्णुस्त्यक्त्वा तदा पृथ्वीमालयं स्वं गमिष्यति ॥ ३४ ॥

वर्षपञ्चसहस्राणि स्थिरा भागीरथी नदी ।
ग्रामदेवास्तदर्धेन गताः स्वर्गं महामुने ॥ ३५ ॥

स्वधर्मविधिसंयुक्तं कर्म यत् क्रियते नरैः ।
तदेव देवभोग्यं वै भवति द्विज सर्वदा ॥ ३६ ॥

विपरीतं कृतं कर्म त्वासुरं तत् प्रजायते ।
कलावासुरभावेन गता देवा निजालयम् ॥ ३७ ॥

आसुरेण स्वभावेन तीर्थायतनकादिषु ।
समागतं नरं दृष्ट्वा गच्छन्ति तीर्थदेवताः ॥ ३८ ॥

तेषु तीर्थेषु देवानां मूर्त्यादिषु तदाऽसुराः ।
प्रविश्य कर्मभोक्तारो भविष्यन्ति कलौ युगे ॥ ३९ ॥

तीर्थानि गुप्तभावेन देवतायतनानि वै ।
संस्थितानि कलौ तस्मिन्नुपवासयुतानि च ॥ ४० ॥

दैवेन संयुतं दृष्ट्वा स्वभावेन महासुराः ।
गच्छन्ति मानवं तीर्थदेवाः स्वस्थानगाः पुनः ॥ ४१ ॥

तत्र वै कर्मकर्तारो नरा आसुरभावतः ।
भविष्यन्ति सदा विप्र भ्रष्टा वै दोषसंयुताः ॥ ४२ ॥

क्रियारूपा महाशक्तिः संस्थिता जगतीतले ।
क्रियाफलप्रदाता वै गणेशः संस्थितो भवेत् ॥ ४३ ॥

असुराणां सुराणां च सिद्धिदाता गजाननः ।
महिमानं स्वकीयं स कलौ सङ्गोप्य संस्थितः ॥ ४४ ॥

धर्मपादाश्च चत्वारस्तपः शौचं दया तथा ।
सत्यं तत्र क्रमेणैव सर्वे नश्यन्ति धर्मजाः ॥ ४५ ॥

त्रेतायां च दया नष्टा नष्टं च द्वापरे तपः ।
आचारश्च कलौ प्राप्ते नष्टरूपो भविष्यति ॥ ४६ ॥

सत्यरूपमयः पादः कलौ तिष्ठति मानद ।
तेन सर्वे जना भूमौ व्यवहारं प्रकुर्वते ॥ ४७ ॥

द्वापरस्य तु सन्ध्यांशे गते पृथुबलः कलिः ।
बहुलानृतभावेनादरात् सत्यं छिनत्ति च ॥ ४८ ॥

ततः क्रमेण सत्यस्य विनाशश्च भविष्यति ।
तदा कोलाहलो विप्र देवानां सदने भवेत् ॥ ४९ ॥

कलौ दुःखयुता लोका अन्नादिकविवर्जिताः ।
ग्रामादि सकलं त्यक्त्वा वसन्ति वनगोचराः ॥ ५० ॥

परस्परं क्षुधाविष्टा भक्षयन्ति विचेतसः ।
सत्यहीना धरित्री वै भविष्यति महामते ॥ ५१ ॥

[[३६]]

षोडशाब्दं परं चायुः पञ्चवर्षसमन्विता ।
अन्तर्वत्नी भवेन्नारी कलौ तस्मिन् विशेषतः ॥ ५२ ॥

एवमासुरभावेन जितं सर्वं महामुने ।
देवता मुनयः सर्वे गणेशानं स्तुवन्ति ते ॥ ५३ ॥

तदा ढुण्ढिः सुराणां स हितायाऽवतरिष्यति ।
धूम्रवर्णो ह्यधर्मं तं हत्वा धर्मं करिष्यति ॥ ५४ ॥

धर्मं प्रवर्तयित्वा स अन्तर्धानं गमिष्यति ।
तदा पुनः कृतं प्राप्तं सन्ध्यांशेन युगक्रमैः ॥ ५५ ॥

एवं युगप्रमाणं च युगधर्मः प्रकीर्तितः ।
मायामयमिदं सर्वं त्वं जानीहि भ्रमात्मकम् ॥ ५६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते कलियुगवर्णनं नाम सप्तदशोऽध्यायः ॥