॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
दिव्यवर्षसहस्राणि द्वादशाऽथ महामुने ।
चतुर्युगमयः कालो ज्ञातव्यो विबुधैः सदा ॥ १ ॥
चत्वारि च सहस्राणि वर्षाणि कृतनामकम् ।
युगं प्रकीर्तितं तत्राष्टशतैः सन्धिरुच्यते ॥ २ ॥
त्रीणि वर्षसहस्राणि युगं त्रेता प्रकीर्तितम् ।
सन्ध्यांशो द्विगुणैस्तत्र ज्ञातव्यो विबुधैः शतैः ॥ ३ ॥
सहस्रे द्वे च वर्षाणि द्वापरः परिकीर्तितः ।
सन्ध्यांशो द्विगुणैस्तस्माच्छतैस्तु परिकीर्तितः ॥ ४ ॥
एकवर्षसहस्रं वै कलिः परमदारुणः ।
तस्याऽपि सन्धिर्द्विगुणो ज्ञातव्यो विबुधैस्तथा ॥ ५ ॥
शतानि सन्धिरूपाणि ज्ञातव्यानि विशेषतः ।
सर्वत्र युगमानेष्वाद्यं तयोर्भोगदानि वै ॥ ६ ॥
एवं द्वादशसाहस्रदेववर्षाणि तानि वै ।
चतुर्युगानां मानं च कथितं कालवेदिभिः ॥ ७ ॥
आद्यं कृतयुगं प्रोक्तं ततस्त्रेता प्रकीर्तिता ।
ततो द्वापरनामाऽपि कलिस्तस्मात् प्रकीर्तितः ॥ ८ ॥
ध्यानं कृतयुगे मुख्यं त्रेतायामध्वरस्तपः ।
द्वापरे पूजनाचारः कलौ स्तवनमुच्यते ॥ ९ ॥
ब्राह्मः कृतयुगे धर्मश्चतुष्पादः सनातनः ।
त्रेतायां त्रिपदः प्रोक्तो धर्मो धर्मविदां वरैः ॥ १० ॥
द्वापरे द्विपदो धर्मः सर्वशास्त्रेषु सम्मतः ।
कलावेकपदः प्रोक्तः सोप्यऽन्ते नाशमेष्यति ॥ ११ ॥
कृते ज्ञानं सदा पूज्यं त्रेतायां रविरुच्यते ।
द्वापरे दैवतं विष्णुं कलौ शम्भुं वदन्ति च ॥ १२ ॥
चतुर्युगानां मानेषु गणेशो मुख्यभावतः ।
पूज्यते मानवैः सर्वैः स्वस्वसिद्ध्यर्थमादरात् ॥ १३ ॥
कृते विनायकः प्रोक्तः कश्यपात्मज एव सः ।
सिंहारूढश्च दिग्बाहुस्तेजोरूपी प्रकथ्यते ॥ १४ ॥
[[३३]]
त्रेतायां पूज्यते देवो मयूरेशश्च षड्भुजः ।
मयूरवाहनः पुत्रः शशिवर्णः शिवस्य वै ॥ १५ ॥
द्वापरे मूषकारूढः पूज्यते च चतुर्भुजः ।
गजाननो वरेण्यस्य रक्तवर्णः सुतः स्मृतः ॥ १६ ॥
कलावश्वस्थितश्चैव धूम्रवर्णो द्विबाहुभृत् ।
तारकः सर्वभावज्ञो गणेशः पूज्यते जनैः ॥ १७ ॥
ब्रह्माकारमयश्चैव तेन भेदो न विद्यते ।
चतुर्युगेषु धर्मेषु सिद्धिदाता विशेषतः ॥ १८ ॥
कृते नराणामायुष्यं लक्षवर्षाणि सम्मतम् ।
त्रेतायां दशसाहस्रं द्वापरे तु सहस्रकम् ॥ १९ ॥
कलौ तु शतवर्षाण्यन्ते तन्न्यूनं भविष्यति ।
वर्षाणि पञ्चदश वै क्रमेण परमं मतम् ॥ २० ॥
कृते स्वधर्मसन्निष्ठा जनाः सर्वे हिते रताः ।
परस्परं भावयन्तो भेदहीना विशेषतः ॥ २१ ॥
न मात्सर्यादि संयुक्ताः कलहादिविवर्जिताः ।
बाल्याद् धर्मधरा विप्र सदानन्दयुतास्तथा ॥ २२ ॥
विषयात्मसुखं तुच्छं मन्यन्ते सततं नराः ।
सुखे सन्ति सदा ज्ञानयुक्ता ध्यानपरायणाः ॥ २३ ॥
वर्णाश्रमविभागस्थाः स्वस्वाचारसमन्विताः ।
ब्रह्मणि श्रद्धया युक्ता योगाभ्यासपरायणाः ॥ २४ ॥
ऋतुगामिन एवं ते नानाधर्मकराः सदा ।
अन्तर्बाह्यैकभावाश्च भवन्ति सुखभोगिनः ॥ २५ ॥
त्रेतायां पादहीनेन नरा धर्मेण संयुताः ।
तत्रान्तर्बाह्यभावेषु भिन्नभावधरा मताः ॥ २६ ॥
तथा स्वार्थं परार्थं ते न समाना विशेषतः ।
विषयेच्छायुता विप्र किञ्चित् किञ्चित् क्रमेण वै ॥ २७ ॥
तत्र सन्ध्यांशमार्गं त्वं शृणुष्वैतं महामुने ।
अष्टौ शतानि वर्षाणि कृते सन्ध्यांश उच्यते ॥ २८ ॥
चतुःशतानि तत्रैव कृतान्ते वर्षकाणि च ।
शतानि त्रीणि त्रेताया अर्धांशेन युतानि च ॥ २९ ॥
शतसप्तकवर्षाणि सन्ध्यांशः परिकीर्तितः ।
दिने दिने क्रमेणैव कृतधर्मो विनश्यति ॥ ३० ॥
त्रेताधर्मोऽधिकत्वेन तत्र तिष्ठति निश्चितम् ।
शतसप्तकवर्षेषु गतेषु मुनिसत्तम ॥ ३१ ॥
केवलं प्रभवे त्रेतायुगं सर्वस्वभावतः ।
ज्ञातव्यमेवं सर्वत्र सन्ध्यांशेषु युगक्रमैः ॥ ३२ ॥
द्वापरे द्विपदो धर्मस्तत्र स्वार्थपरायणाः ।
कलहादिसमायुक्ता भवन्ति किल मानवाः ॥ ३३ ॥
बाह्यभावेषु साधूनां धर्माणां सेवका मताः ।
लज्जायुक्ततया विप्र अन्तरे विषयप्रियाः ॥ ३४ ॥
परेषां लज्जया धर्मं चरन्ति द्वापरे नराः ।
विषयेच्छायुताः सर्वे स्वगृहे धर्मलोपकाः ॥ ३५ ॥
एतादृशास्ते भवन्ति द्वापरे मलसंयुताः ।
नराः सर्वत्र भावेषु जानीहि मुनिसत्तम ॥ ३६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते युगधर्मवर्णनं नाम षोडशोऽध्यायः ॥
[[३४]]