१५ कालगतिवर्णनम्

॥ श्रीगणेशाय नमः ॥

मार्कण्डेय उवाच ।

भवद्भ्यां कथितं चित्रं मायारूपं विशेषतः ।
श्रुत्वाऽहं तृप्तिसंयुक्तो भवामि भृशहर्षितः ॥ १ ॥

मायारूपं मया नाथौ न ज्ञातं पूर्णभावतः ।
अतो मां विस्तरेणैव वदतं योगिनां वरौ ॥ २ ॥

वर्णाश्रमविभागं वै स्वस्वाचारसमन्वितम् ।
युगमानं तथा विप्रो युगधर्मान् विशेषतः ॥ ३ ॥

पितृदेवासुराणां वै कर्ममार्गं सुतृप्तिदम् ।
सूर्यचन्द्रप्रसूतानां राज्ञां सर्वं चरित्रकम् ॥ ४ ॥

एतानि प्रश्नपीठानि वदतं चर्षिसत्तमौ ।
तत्र द्वन्द्वादिकस्यैव ज्ञानं मे प्रभविष्यति ॥ ५ ॥

भानुरुवाच ।
एवं पृष्टौ महाभागौ नरनारायणावृषी ।
ऊचतुस्तं दयायुक्तो मार्कण्डेयं तु तापसम् ॥ ६ ॥

नरनारायणावूचतुः ।
सम्यक् पृष्टं महाभाग वदिष्यावोऽखिलं च ते ।
येन मायाचरित्राणां ज्ञानं भवति निश्चलम् ॥ ७ ॥

निमेषमात्रः कालो यो लघ्वक्षरसमन्वितः ।
दशपञ्चनिमेषैश्च काष्ठाकालः प्रकीर्तितः ॥ ८ ॥

त्रिंशत्काष्ठाभिरेवं यः कलाकालः प्रजायते ।
त्रिंशत्कलाभिरेकं वै मुहूर्तं परिकीर्तितम् ॥ ९ ॥

त्रिंशन्मुहूर्तमानेन दिवानक्तमयो मतः ।
तैस्त्रिंशद्भिस्तथा कालो मासाख्यो विप्र जायते ॥ १० ॥

मासपक्षद्वयाकारः शुक्लकृष्णविभागतः ।
मासैर्द्वादशभिः संवत्सरः पूर्णश्च जायते ॥ ११ ॥

द्वाभ्यामाभ्यामृतुः प्रोक्तः स षड्ऋतुभिरुच्यते ।
संवत्सरप्रमाणाख्यः कथितः कालवेदिभिः ॥ १२ ॥

निमेषादिभिरेवं स कालः संवत्सरान्तगः ।
नानाभावसमायुक्तः कालधर्मं प्रकाशते ॥ १३ ॥

[[३१]]

संवत्सरात्मकः कालः पञ्चधा परिकीर्तितः ।
आद्यः संवत्सरः प्रोक्तो द्वितीयः परिवत्सरः ॥ १४ ॥

इडावत्सर एवाऽसौ चतुर्थश्चानुवत्सरः ।
वत्सरश्चैव पञ्चैते शृणु तेषां गतिं मुने ॥ १५ ॥

अङ्गप्रत्यङ्गसंयोगः कालेनैव प्रजायते ।
अग्निर्जठरसंस्थश्च कुरुते सर्वमञ्जसा ॥ १६ ॥

देहोत्पत्तिः स्थितिश्चैव नाशस्तस्य प्रकीर्तितः ।
कालेन जायते सर्वं सोऽग्निः संवत्सरः स्मृतः ॥ १७ ॥

पञ्चानां मुख्यरूपोऽयं कालकर्मप्रवर्तकः ।
देहसंस्थो महायोगी बुधैः कालः प्रकथ्यते ॥ १८ ॥

परिवत्सरनामाऽयं सूर्यः कालमयो मुने ।
अयनादिस्वभावेन स्मृतः कालस्य चालकः ॥ १९ ॥

वर्षाशीतोष्णकालेषु ऋतुमासक्रमादिषु ।
कालधर्मं स चरति प्रकाशयति नित्यशः ॥ २० ॥

इडावत्सरनामाऽयं चन्द्रः प्रोक्तो मनीषिभिः ।
तारानक्षत्रकादीनां चालकश्च प्रजायते ॥ २१ ॥

पितॄणां ज्ञानकारी च कालस्यात्र न संशयः ।
कालक्रमेण सोमोऽयं दधात्यमृतमंशुभिः ॥ २२ ॥

ओषधीनामंशुभिर्वै काले भावं प्रकाशते ।
काले देवजनानाममृतपानं ददाति सः ॥ २३ ॥

अनुवत्सरनामाऽसौ वायुः सर्वत्र पठ्यते ।
प्राणापानादिभिर्भावैश्चालकः कामकारकः ॥ २४ ॥

आवहप्रवहाद्यैः स नेमिभिर्ज्योतिषां गणम् ।
सञ्चालयति कालेन कालज्ञः कालरूपधृक् ॥ २५ ॥

वत्सरो रुद्ररूपोऽयं तथा कालः प्रकाशते ।
महालये समुत्पन्ने लयमोषधयो गताः ॥ २६ ॥

तत्र कालप्रमाणेन त्र्यम्बकः पुनरेव च ।
स ओषधीनां प्रस्रष्टा जायते कालसंस्थितः ॥ २७ ॥

गायत्री जगती त्रिष्टुबम्बिका नामतः स्मृताः ।
ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः ॥ २८ ॥

पुनश्चौषधयः सृष्टास्तत्र रुद्रेण कालतः ।
तेनाऽयं कालभावेन जगद्भावयति प्रभुः ॥ २९ ॥

एवं पञ्चविधं कालं यो जानाति स्वभावतः ।
न तस्य कालभावस्य दुःखं भवति कर्हिचित् ॥ ३० ॥

अधुना शृणु विप्रर्षे कालमानं विशेषतः ।
अयनं द्विविधं प्रोक्तं षण्मासात्मकमुच्यते ॥ ३१ ॥

तदेव देवतानां वै दिनमेकं प्रकथ्यते ।
उत्तरायणरूपश्च दिवसः परिकीर्तितः ॥ ३२ ॥

दक्षिणायनरूपा वै रात्रिस्तेषां प्रकीर्तिता ।
एवं त्रिंशद्भिराख्यातो मासश्चैव महामुने ॥ ३३ ॥

मासैर्द्वादशभिश्चैव वर्षस्तेषां प्रकीर्तितः ।
एवं सर्वत्र विप्राग्र्य ज्ञातव्यं कालजं वपुः ॥ ३४ ॥

शुक्लपक्षमयी रात्रिः कृष्णपक्षोऽहरेव च ।
पितॄणां सुखदः कालो मासेन दिवसो भवेत् ॥ ३५ ॥

मासौ च द्विविधौ प्रोक्तौ सौरचान्द्रौ विधानतः ।
सङ्क्रमेण रवेर्मासो जायते रविजः स्मृतः ॥ ३६ ॥

पूर्णिमायां स सम्पूर्णश्चन्द्रो लोकैः प्रदृश्यते ।
तदाधारेण मासो वै ज्ञातव्यश्चन्द्रमानतः ॥ ३७ ॥

अथवा क्षीणचन्द्रायाममायां ज्ञायते बुधैः ।
मासश्चान्द्रमसो विप्र द्विविधः परिकीर्तितः ॥ ३८ ॥

तत्रैव कारणं ब्रूवः शृणु तत्त्वार्थसिद्धये ।
अधिमासस्तथा लोकैः क्षयमासो मलात्मकः ॥ ३९ ॥

[[३२]]

अमायां चन्द्रचिह्नेन ज्ञायते नान्यथा क्वचित् ।
स्नानार्थं मासमाहात्म्यं पूर्णिमायां विशेषतः ॥ ४० ॥

चन्द्रचिह्नेन विप्रर्षे ज्ञातव्यं विबुधैः सदा ।
अन्यच्च पितृणां कालश्चन्द्रमासेन जायते ॥ ४१ ॥

देवानां पितृणां स्वर्गे सुधापानं प्रकीर्तितम् ।
पूर्णं सोमकलाभूतं चान्द्रमासे न जायते ॥ ४२ ॥

देवानां दिवसे काल: सूर्यचिह्नेन जायते ।
शुक्लकृष्णगतिश्चैव कारणं परिकीर्तितम् ॥ ४३ ॥

त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः ।
त्रिंशताधिकरूपाणि मतः सप्तर्षिवत्सरः ॥ ४४ ॥

नव वर्षसहस्राणि मानुषेण प्रमाणतः ।
अन्यानि नवतिश्चैव ध्रौव्यः संवत्सरः स्मृतः ॥ ४५ ॥

एवं कालप्रमाणं यत् कथितं ते द्विजोत्तम ।
मृत्युयुक्तं सदा भ्रान्तं ज्ञातव्यं द्वन्द्वसंयुतम् ॥ ४६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते कालगतिवर्णनं नाम पञ्चदशोऽध्यायः ॥