॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
ज्ञानं शान्तिप्रदं पूर्णं शृणु त्वं मुनिसत्तम ।
तपसा ब्रह्मचर्येण सिद्धोऽस्यत्र न संशयः ॥ १ ॥
शिवेन रामचन्द्राय कथितं योगदायकम् ।
तेन शान्तिसमायुक्तो बभूवे लक्ष्मणाग्रजः ॥ २ ॥
राज्यसङ्गसमायुक्तस्तेनाभूत्तच्च विस्मृतम् ।
पुनर्वसिष्ठवाक्येन तज्ज्ञानं समपद्यत ॥ ३ ॥
मार्कण्डेय उवाच ।
कोऽसौ रामो महाभागः कस्मिन् वंशे समुद्भवः ।
कस्य पुत्रश्च तत्सर्वं वदतं मां महामुनी ॥ ४ ॥
रविरुवाच ।
एवं पृष्टौ महात्मानौ मार्कण्डेयेन धीमता ।
ऊचतुः परमप्रीतौ चेष्टितं राघवस्य च ॥ ५ ॥
नरनारायणावूचतुः ।
मरीचिर्ब्रह्मणः पुत्रस्तस्माज्जातश्च कश्यपः ।
अदित्यां कश्यपाज्जज्ञे सूर्य आत्मा शरीरिणाम् ॥ ६ ॥
सूर्याच्च मनुनामा यो वैवस्वत इति श्रुतः ।
तस्य मन्वन्तरं प्रोक्तं सप्तमं भूमिमण्डले ॥ ७ ॥
ब्रह्मणो दिवसः प्रोक्तो मुनिभिः कालवादिभिः ।
चतुयुर्गसहस्राख्यस्तावती रात्रिरुच्यते ॥ ८ ॥
एकस्मिन् दिवसे विप्र मनवश्च चतुर्दश ।
भवन्ति स्वस्वकालेन प्रेरिताः क्षत्रकर्मणि ॥ ९ ॥
एकसप्ततिरेषैवाधिका किञ्चिन् महामुने ।
मन्वन्तरं चतुर्णां च युगानां वै प्रकथ्यते ॥ १० ॥
स्वायम्भुवादयश्चैव मनवः कथिता बुधैः ।
तेषु षट्कं तथा भिन्नं भवति स्वाधिकारतः ॥ ११ ॥
मनुर्देवाश्च विप्रा वै सप्त चैव पुरन्दरः ।
मनुपुत्राश्च विष्णोर्यत्रावतारः प्रकीर्तितः ॥ १२ ॥
विभागतश्च मनुना सर्वधर्मः प्रकाश्यते ।
भूमिपालनकं कार्यं वर्णाश्रमविधानतः ॥ १३ ॥
ऋषिभिस्तत्त्वमार्गेण कर्मज्ञानादिकं मुने ।
सुबोधेन नराणां तत् प्रकाश्यं सर्वमादरात् ॥ १४ ॥
यजमानस्य यज्ञादि कर्म सर्वं तथा मुने ।
कारणीयं प्रकर्तव्यं स्वस्वमन्वन्तरेषु तैः ॥ १५ ॥
वृष्ट्यादिना त्रिभुवनं महेन्द्रेण विशेषतः ।
कर्मानुसारभोगेन पालनीयं यथातथम् ॥ १६ ॥
देवैः स्वयज्ञभागस्थं भोगं भुक्त्वा स्वलोकदम् ।
कर्मकर्त्रे तथा स्वर्गे फलं दातव्यमादरात् ॥ १७ ॥
इन्द्रस्य दैत्यजं घोरं भयं प्राप्तं यदा मुने ।
तदा विष्णुः कलांशेन तं रक्षति बिडौजसम् ॥ १८ ॥
मनोः पुत्रैश्च पौत्रैश्च तेषां सन्ततिभिः सदा ।
प्रजापालनकं कार्यं क्षात्रधर्मपरायणैः ॥ १९ ॥
एवं षट्कं समाख्यातं मन्वन्तरमयं मुने ।
मन्वन्तरे समाप्ते वै द्वितीयस्य समुद्भवः ॥ २० ॥
ज्ञाननिष्ठं तदा षट्कं भवेद्वै नित्यमादरात् ।
तपसा देहमुत्सृज्य स्वस्वधाम्नि गतं भवेत् ॥ २१ ॥
लयस्तत्र समाख्यातो मन्वन्तरलयात्मकः ।
तत्र सर्वे लयं प्राप्ता जनाः स्थावरजङ्गमाः ॥ २२ ॥
द्वितीये मनुमुख्ये समुद्यते वै महामुने ।
भृग्वादयः स्वमात्मानं ससृजुर्योगसेवया ॥ २३ ॥
पुनः सृष्टिं प्रचक्रुस्ते चराचरमयीं मुने ।
एवं सर्वान्तरे प्रोक्तं ज्ञातव्यं विबुधैः सदा ॥ २४ ॥
ब्रह्मणो दिवसान्ते यो लयो नैमित्तिकाह्वयः ।
भवति तत्र त्रैलोक्यं नाशमेति न संशयः ॥ २५ ॥
एवं दिनक्रमेणैव शतवर्षमयं मुने ।
ब्रह्मणः पूर्णमायुष्यं भविष्यति न संशयः ॥ २६ ॥
तदा स्वयं लयेनैव मरिष्यति पितामहः ।
एवं क्रमेण त्रैगुण्यं नाशरूपं वदन्ति च ॥ २७ ॥
जन्ममृत्युमयी पूर्णा नानाद्वन्द्वप्रकाशिनी ।
माया ते कथिता विप्र द्वन्द्वभावेषु भ्रान्तिदा ॥ २८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते मायावर्णनं नाम चतुर्दशोऽध्यायः ॥