१३ नरनारायणमार्कण्डेयसमागमः

॥ श्रीगणेशाय नमः ॥

वालखिल्या ऊचुः ।
वद भानो महायोगिन्नरनारायणावृषी ।
किं चक्रतुस्ततः सर्वं ब्रह्मभूतौ विशेषतः ॥ १ ॥

रविरुवाच ।
स्वाश्रमे तौ स्थितौ देवौ नरनारायणावृषी ।
विष्णुना कथितो योगः साधयामासतुः परम् ॥ २ ॥

क्रमेण शान्तिमापन्नौ गाणपत्यौ बभूवतुः ।
गणपस्य महामन्त्रं शिवात् सङ्गृह्य जेपतुः ॥ ३ ॥

चतुरक्षरकं मन्त्रं हेरम्बस्य विशेषतः ।
मूर्तिं रत्नमयीं कृत्वा पूजयेतां महामुनी ॥ ४ ॥

हेरम्बस्य हृदि ध्यानं चक्रतुः परमादृतौ ।
शान्तिं प्राप्तौ ततो विप्रा न मुञ्चन्तौ गजाननम् ॥ ५ ॥

एवं वर्षशते पूर्णे तयोराश्रमगोऽभवत् ।
हेरम्बः सिंहगो भूत्वा नागयज्ञोपवीतवान् ॥ ६ ॥

चतुर्बाहुधरश्चैव त्रिनेत्रो भूषणैर्वरैः ।
भूषितः सिद्धिबुद्धिभ्यां युतो लम्बोदरः प्रभुः ॥ ७ ॥

नानापुष्पमयीं मालां त्रिशूलं मुद्गरं तथा ।
अङ्कुशं च करैर्विप्रा दधानस्तेजसा युतः ॥ ८ ॥

एतादृशं च हेरम्बं दृष्ट्वा तौ मुनिसत्तमौ ।
प्रणेमतुर्दण्डवत्तु पादयोस्तस्य योगिनौ ॥ ९ ॥

हेरम्बं तत उत्थायापूजयेतां यथाविधि ।
पुनस्तुष्टुवतुस्तत्र तौ प्रणम्य गजाननम् ॥ १० ॥

नरनारायणावूचतुः ।
नमस्ते गणनाथाय भक्तसंरक्षकाय ते ।
भक्तेभ्यो भक्तिदात्रे वै हेरम्बाय नमो नमः ॥ ११ ॥

अनाथानां विशेषेण नाथाय गजवक्त्रिणे ।

[[२८]]

चतुर्बाहुधरायैव लम्बोदर नमोऽस्तु ते ॥ १२ ॥

ढुण्ढये सर्वसाराय नानाभेदप्रचारिणे ।
भेदहीनाय देवाय नमश्चिन्तामणे नमः ॥ १३ ॥

सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिस्वरूपिणे ।
योगाय योगनाथाय शूर्पकर्णाय ते नमः ॥ १४ ॥

सगुणाय नमस्तुभ्यं निर्गुणाय परात्मने ।
सर्वपूज्याय सर्वाय देवदेवाय ते नमः ॥ १५ ॥

ब्रह्मणां ब्रह्मणे तुभ्यं सदा शान्तिप्रदायक ।
सुखशान्तिधरायैव नाभिशेषाय ते नमः ॥ १६ ॥

पूर्णाय पूर्णनाथाय पूर्णानन्दाय ते नमः ।
योगमायाप्रचालाय खेलकाय नमो नमः ॥ १७ ॥

अनादये नमस्तुभ्यमादिमध्यान्तमूर्तये ।
स्रष्ट्रे पात्रे च संहर्त्रे सिंहवाहाय ते नमः ॥ १८ ॥

गताभिमानिनां नाथस्त्वमेवात्र न संशयः ।
तेन हेरम्बनामाऽसि विनायक नमोऽस्तु ते ॥ १९ ॥

किं स्तुवस्त्वां गणाधीश योगाभेदमयं परम् ।
अतस्त्वां प्रणमावो वै तेन तुष्टो भव प्रभो ॥ २० ॥

एवमुक्त्वा नतौ तत्र नरनारायणावृषी ।
तावुत्थाप्य गणेशान उवाच घननिस्वनः ॥ २१ ॥

हेरम्ब उवाच ।

वरं चित्तेप्सितं दास्यामि ब्रूतं भक्तियन्त्रितः ।
महाभागावादिमुनी योगमार्गप्रकाशकौ ॥ २२ ॥

भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ।
पठते शृण्वते चैव भुक्तिमुक्तिप्रदं तथा ॥ २३ ॥

यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
मम भक्तिप्रदं चैव भविष्यति सुसिद्धिदम् ॥ २४ ॥

भानुरुवाच ।
हेरम्बवचनं श्रुत्वा हर्षितौ मुनिपुङ्गवौ ।
कृताञ्जलिपुटौ चोभावूचतुस्तं गजाननम् ॥ २५ ॥

यदि प्रसन्नभावेन वरं दास्यसि विघ्नप ।
तदा ते भक्तिमुग्रां नौ देहि चाव्यभिचारिणीम् ॥ २६ ॥

तथेति गणनाथस्तौ जगाद भक्तिभावितः ।
अन्तर्धानं चकाराऽसौ स्वानन्दस्थो बभूव ह ॥ २७ ॥

ततस्तौ नित्यमत्यन्तं गणेशभजने रतौ ।
हेरम्बेति सदा मन्त्रं वाण्या प्रोचतुरादरात् ॥ २८ ॥

ततो बहुगते काले मार्कण्डेयाश्रमे द्विजाः ।
जग्मतुर्ज्ञानदानार्थं करुणायुक्तमानसौ ॥ २९ ॥

नरनारायणौ दृष्ट्वा मार्कण्डेयो महामुनिः ।
प्रणनाम स साष्टाङ्गं पूजयन् भक्तिसंयुतः ॥ ३० ॥

पूजयित्वा स्वयं तत्र पादसंवाहने स्थितः ।
उवाच तौ विनीतात्मा मार्कण्डेयो महामुनिः ॥ ३१ ॥

मार्कण्डेय उवाच ।

धन्यं मे जन्म विद्या च तपो ज्ञानादिकं तथा ।
धन्यौ मे जनकौ चैव युवयोः पाददर्शनात् ॥ ३२ ॥

एवं नानाविधैर्वाक्यैः संस्तुतौ मुनिपुङ्गवौ ।
ऊचतुस्तं विनीतं तौ भक्तिभावेन तोषितौ ॥ ३३ ॥

नरनारायणावूचतुः ।
मार्कण्डेय वृणुष्व त्वं वरं स्वमनसीप्सितम् ।
तवातिथ्यकृतेनैव सन्तुष्टौ नात्र संशयः ॥ ३४ ॥

तयोर्वचनमाकर्ण्य मार्कण्डेयः प्रतापवान् ।
प्रणम्य तावुवाचाऽथ भक्तिनम्रात्मकन्धरः ॥ ३५ ॥

मार्कण्डेय उवाच ।

ज्ञानं शान्तिप्रदं पूर्णं वदतं मुनिसत्तमौ ।
तेन तृप्तो भविष्यामि शान्तियोगपरायणः ॥ ३६ ॥

दर्शयेथां महामायां तां ज्ञात्वा सन्त्यजाम्यहम् ।
भक्तिरेव गुरोः पादे दीयतां मे वरस्त्वयम् ॥ ३७ ॥

[[२९]]

रविरुवाच ।
तथेति तं महात्मानावूचतुर्ज्ञानमुत्तमम् ।
शान्तियोगप्रदं पूर्णं गाणेशं मुनिपुङ्गवौ ॥ ३८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते नरनारायणमार्कण्डेयसमागमो नाम त्रयोदशोऽध्यायः ॥