१२ नरनारायणविष्णुसंवादः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

सूर्येण कथितं चित्रं महोदरकथानकम् ।
श्रुत्वा विस्मयसंयुक्ता बभूवुर्वालखिल्यकाः ॥ १ ॥

मानसे धारयामासुर्गणेशोऽयं सुशान्तिदः ।
योगरूपो न सन्देहो भानुना बोधिता वयम् ॥ २ ॥

हर्षयुक्ताः पुनस्तं ते वालखिल्याः प्रजापते ।
महोदरस्य पप्रच्छुश्चेष्टितं तस्य शान्तिदम् ॥ ३ ॥

वालखिल्या ऊचुः ।
धन्योऽसि च रवे त्वं वै योगशान्तिप्रकाशकः ।
वयं बोधेन संयुक्ता संशयो न त्वया कृतः ॥ ४ ॥

धन्यं जन्म गणेशस्य कथां तस्य महाप्रभोः ।
श्रुत्वा मनसि सन्तुष्टा भवामस्त्वदनुग्रहात् ॥ ५ ॥

सर्वज्ञोऽसि महाभाग साक्षाद्गणपतिः स्वयम् ।
आत्माकारेण सूर्यस्त्वं तन्न चित्रं किमप्युत ॥ ६ ॥

अधुना ब्रूहि देवेश रामो गणपतिं कथम् ।
अभजद्भक्तिसंयुक्तः शान्तिरूपो बभूव ह ॥ ७ ॥

धन्यास्ते पुरुषा लोके गणेशस्य कथां रवे ।
पृच्छन्ति प्रपठन्त्यन्ये शृण्वते योगशान्तिदाम् ॥ ८ ॥

मुद्गल उवाच ।

इति पृष्टो महातेजा वालखिल्यैः प्रजापते ।
रविस्तान् हर्षितो भूत्वा भो जगाद शृणुष्व तत् ॥ ९ ॥

रविरुवाच ।
अत्राऽहं कथयिष्यामि चेतिहासं पुरातनम् ।
नारायणस्य संवादं मार्कण्डेयस्य सिद्धिदम् ॥ १० ॥

मृकण्डाच्च समुत्पन्नो मार्कण्डेयो महामुनिः ।
कृतोपवीतको भूत्वा तताप परमं तपः ॥ ११ ॥

ब्रह्मचर्यसमायुक्तो वेदशास्त्रज्ञसत्तमः ।
नित्यं जजाप गायत्रीं मोक्षेप्सुः स विशेषतः ॥ १२ ॥

अयुते प्रगते विप्रा वर्षाणां च तदाऽऽश्रमे ।
आययौ शङ्करस्तत्र पार्वत्या गणसंवृतः ॥ १३ ॥

ध्याने विष्णुं समाधृत्वा संस्थितो न बुबोध तम् ।
समागतं महेशानं शिवश्चित्रं तदाऽकरोत् ॥ १४ ॥

[[२६]]

योगमायाबलेनाऽसौ हृदि तस्य गतः शिवः ।
लोपयामास विष्णुं तं हृदि संस्थं मुनेः किल ॥ १५ ॥

हृदये शङ्करं दृष्ट्वा विस्मितोऽसौ महामुनिः ।
त्यक्त्वा ध्यानं बहिर्वीक्ष्य शङ्करं प्रणनाम सः ॥ १६ ॥

अथर्वशिरसा शम्भुं स्तुत्वा हर्षसमन्वितः ।
पुनः पुनर्महेशानं प्रणम्य पुरतः स्थितः ॥ १७ ॥

तमुवाच महादेवो वरं वृणु हृदीप्सितम् ।
दास्यामि तपसा तुष्टो गायत्र्याश्च जपेन ते ॥ १८ ॥

गायत्री वेदमाता वै पिता ओङ्कार उच्यते ।
ओङ्काराच्च वयं जाता जानीहि तापसोत्तम ॥ १९ ॥

अतो जपेन गायत्र्याः सन्तुष्टोऽहं न संशयः ।
स्तुत्या गम्भीरया विप्र दास्यामि हृदि वाञ्छितम् ॥ २० ॥

शिवस्य वचनं श्रुत्वा तं जगाद महामुनिः ।
भक्तिं देहि त्वदीयां मे मुक्तिं संसारसागरात् ॥ २१ ॥

ततस्तं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ।
शिवः सन्तोषदः पूर्णः स्वभक्तेभ्यो विशेषतः ॥ २२ ॥

शिव उवाच ।

मदीया भक्तिरुग्रा ते भविष्यति महामुने ।
मुक्तिश्च शाश्वती पूर्णा पुराणाचार्यता तथा ॥ २३ ॥

आयुश्च सप्तकल्पाख्यं भविष्यति महामुने ।
यद्यदिच्छसि तत्तत्ते सफलं नात्र संशयः ॥ २४ ॥

एवमुक्त्वान्तर्दधे सशक्तिकोऽसौ शिवः स्वयम् ।
मार्कण्डेयश्च सङ्खिन्नः संस्थितोऽभून् महर्षयः ॥ २५ ॥

प्रकीर्तिता मन्त्रशक्तिर्गायत्री रूपधारिणी ।
देवता शम्भुरूपा च कल्पिताऽभून् महात्मना ॥ २६ ॥

शैवमार्गेण शम्भुं सोऽभजच्चानन्यचेतसा ।
कालात्मकं महेशानं मोहहीनं विशेषवित् ॥ २७ ॥

तत्र तेन समाख्यातं पुराणं सर्वसिद्धिदम् ।
मार्कण्डेयं शिवस्यैव शक्तेर्माहात्म्यसंयुतम् ॥ २८ ॥

ततो बहुगते काले नरनारायणावुभौ ।
आश्रमे तस्य देवर्षेर्जग्मतुः परमेश्वरौ ॥ २९ ॥

वालखिल्या ऊचुः ।
वद भानो महाभाग चरित्रं च तयोः शुभम् ।
परमेश्वरसञ्ज्ञौ तौ भवतः कथमादरात् ॥ ३० ॥

भानुरुवाच ।
मम पुत्रश्च धर्मात्मा धर्मः सर्वसमानगः ।
तेन विष्णोस्तपस्तप्तं कीर्त्या सह महर्षयः ॥ ३१ ॥

गते वर्षशते पूर्णे विष्णुश्च वरदोऽभवत् ।
ताभ्यां पुत्रस्त्वमेवं नौ भव सोऽपि तथाऽकरोत् ॥ ३२ ॥

नरनारायणावेवं तयोः पुत्रौ बभूवतुः ।
नरो जीवमयः प्रोक्तो परो नारायणः शिवः ॥ ३३ ॥

तयोर्योगे च यद्ब्रह्म वैष्णवं कथ्यते बुधैः ।
अतस्तौ प्रसमाख्यातौ मया वः परमेश्वरौ ॥ ३४ ॥

धर्मस्याज्ञां गृहीत्वा वै निमिषारण्यगौ द्विजाः ।
भवतः स्म ततो देवौ तेपाते परमं तपः ॥ ३५ ॥

समाययौ तत्र साक्षात् स्वयं विष्णुर्यदृच्छया ।
तं दृष्टा सन्नतौ तुष्टुवतुर्देवौ च केशवम् ॥ ३६ ॥

नानास्तोत्रैः प्रसाद्यैनं नेमतुर्भक्तितत्परौ ।
तावुवाच महाविष्णुरिच्छथः किं महामुनी ॥ ३७ ॥

ततस्तौ केशवं चैवोचतुः परमधार्मिकौ ।
वद योगं महाभाग सर्वशान्तिकरं परम् ॥ ३८ ॥

एवमुक्तो महायोगी तावुवाच प्रहर्षितः ।
योगं शान्तिप्रदं पूर्णं गाणपत्यप्रियः सदा ॥ ३९ ॥

[[२७]]

विष्णुरुवाच ।
चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं च यत् स्मृतम् ।
मायारूपं तदेवाशु त्यक्त्वा योगं समाप्स्यथः ॥ ४० ॥

यद्यच्चित्तेन सम्प्राप्तं तत्तद्योगेन मानदौ ।
योगरूपं प्रकर्तव्यं तदाकारसमाधिना ॥ ४१ ॥

यद्यच्चित्तेन न ज्ञातं तत्तन्निर्वृत्तिवाचकम् ।
तदेव योगरूपं वै कर्तव्यं योगसेवया ॥ ४२ ॥

चित्ते चिन्तामणिर्नित्यं तिष्ठेद्वै चित्तचालकः ।
भजतं तं महाभागौ तेन शान्तिमवाप्स्यथः ॥ ४३ ॥

मायामोहयुतं चित्तं नानाभावेषु लालसम् ।
मायाहीनं सदा चित्तं शान्तिरूपं भविष्यति ॥ ४४ ॥

चित्तमिच्छति धर्मं वै तथार्थं काममादरात् ।
मोक्षं च ब्रह्मभूतत्वं भ्रमयुक्तं न संशयः ॥ ४५ ॥

अहं चिन्तामणिः साक्षान्न मे भिन्नं प्रविद्यते ।
तदिच्छेयं भ्रामयति किमर्थं मां भ्रमात्मिका ॥ ४६ ॥

अनेन योगमार्गेण चित्तं त्यक्त्वा महामुनी ।
शान्तियोगस्वरूपौ वै संशयो न भविष्यथः ॥ ४७ ॥

एवमुक्त्वाऽन्तर्दधेऽसौ विष्णुर्वैकुण्ठगोऽभवत् ।
नरनारायणौ तत्र योगयुक्तौ बभूवतुः ॥ ४८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते नरनारायणविष्णुसंवादो नाम द्वादशोऽध्यायः ॥