११ महोदराऽन्तर्धानम्

॥ श्रीगणेशाय नमः ॥

रविरुवाच ।
गते मोहासुरे तत्र शान्तरूपे सुरेश्वराः ।
सुरैश्च मुनिभिः सार्धं महोदरमपूजयन् ॥ १ ॥

पूजयित्वा गणेशानं प्रणता भक्तिसंयुताः ।
तुष्टुवुस्ते विशेषेण हर्षयुक्ताः सुरर्षयः ॥ २ ॥

सुरर्षय ऊचुः ।
अमेयमायामितविक्रमाय निरञ्जनायाऽथ गणेश्वराय ।
अमायिने मायिकमोहनाय नमो नमस्तेऽस्तु महोदराय ॥ ३ ॥

मनोवचोहीनतया स्थिताय मनोवचोयुक्तगजाननाय ।
अयोगसंयोगमयाय ढुण्ढे नमो नमस्तेऽस्तु महोदराय ॥ ४ ॥

विदेहरूपाय च बोधकाय तथाहि सोऽहम्पदभोगकाय ।
सदा सुबिन्द्वात्मकदेहगाय नमो नमस्तेऽस्तु महोदराय ॥ ५ ॥

गुणेशरूपाय सुषुप्तिकाय तथा सुसूक्ष्माय च जागृते ते ।
हरीश ब्रह्मादिषु संस्थिताय नमो नमस्तेऽस्तु महोदराय ॥ ६ ॥

शुभाशुभाकारधराय भूम्ने शुभाशुभादौ च सुपूजिताय ।
शुभाशुभे कर्मणि सिद्धिदाय नमो नमस्तेऽस्तु महोदराय ॥ ७ ॥

कर्त्रे सुपात्रे हरणाय कालप्रकाशरूपाय च भानवे ते ।
क्रियास्वरूपाय च शक्तिदाय नमो नमस्तेऽस्तु महोदराय ॥ ८ ॥

यमाय चन्द्राय च वायवे वै कुबेररूपाय पुरन्दराय ।
शिवाय वन्ह्यात्मकनैर्ऋताय नमो नमस्तेऽस्तु महोदराय ॥ ९ ॥

अनन्तरूपाय जलेशकाय प्रजापते रूपधराय पाशिन् ।
दिगीशपालाय दिशामयाय नमो नमस्तेऽस्तु महोदराय ॥ १० ॥

सुरासुराणां च समाय नित्यं सुरासुराकारधराय धात्रे ।
पिशाचगन्धर्वमयाय यक्ष नमो नमस्तेऽस्तु महोदराय ॥ ११ ॥

[[२४]]

धरास्वरूपाय जलप्रकाश जलस्वरूपाय च तेजसे ते ।
वाताय चाकाशमयाय धाम्ने नमो नमस्तेऽस्तु महोदराय ॥ १२ ॥

अनादिमध्यान्तविहारकाय सदादिमध्यान्तमयाय चित्रम् ।
तत्त्वप्रकाशाय च तत्त्वमूर्ते नमो नमस्तेऽस्तु महोदराय ॥ १३ ॥

नराय वर्णाश्रमसंस्थिताय द्विजस्वरूपाय नराधिपाय ।
वैश्याय शूद्राय तथाऽन्तिमाय नमो नमस्तेऽस्तु महोदराय ॥ १४ ॥

गुरोरधीनाय गृहस्थरूपवनस्थितायाऽथ परिव्रजाय ।
वर्णाश्रमैर्हीनमयाय योगिन् नमो नमस्तेऽस्तु महोदराय ॥ १५ ॥

वृक्षादिवीरुत्तृणसंस्थिताय धराधराकारमयाय देव ।
पशुस्वरूपाय च पक्षिणे ते नमो नमस्तेऽस्तु महोदराय ॥ १६ ॥

रसस्वरूपाय रसाधिपाय तथाऽन्नरूपाय च जीवनाय ।
चराचराकारमयाय नाग नमो नमस्तेऽस्तु महोदराय ॥ १७ ॥

वराङ्कुशाद्यैश्च सुचिह्नितायोन्दुरुध्वजायाऽऽखुसुवाहनाय ।
त्रिनेत्रधाराय च शूर्पकर्ण नमो नमस्तेऽस्तु महोदराय ॥ १८ ॥

स्वानन्दलोकाधिप देवदेव सुसिद्धिबुद्धिप्रभवे परात्मन् ।
सदैकदन्ताय चतुर्भुजाय नमो नमस्तेऽस्तु महोदराय ॥ १९ ॥

महोदरायादिसुपूजिताय सुवस्त्रसम्भूषणभूषिताय ।
प्रमोदमोदादिगणैः स्तुताय नमो नमस्तेऽस्तु महोदराय ॥ २० ॥

सदामृताभेदमयेक्षुनीरसमुद्रलीलाकरकञ्जपाणे ।
गणेश हेरम्ब च भक्तपोष नमो नमस्तेऽस्तु महोदराय ॥ २१ ॥

प्रविश्य विश्वोदरमेव भोगविहारिणे विश्वमयाय पूर्ण ।
विकारहीनाय सुबोधदाय नमो नमस्तेऽस्तु महोदराय ॥ २२ ॥

अल्पोदरा देवमुखाश्च सर्वे स्वस्वप्रभोगे कुशलाश्च तेन ।
तेषु त्वमेवं सुखभोगकारिन् नमो नमस्तेऽस्तु महोदराय ॥ २३ ॥

भानुरुवाच ।
एवं संस्तुवतां तेषां सुरर्षीणां महर्षयः ।
समुत्पन्नो भक्तिरसस्तेन ते ननृतुः पुरः ॥ २४ ॥

साश्रुनेत्रान् स रोमाञ्चान् रुद्धकण्ठान् विशेषतः ।
तानुवाच स्वयं देवो भक्तान् वै भक्तवत्सलः ॥ २५ ॥

गणेश उवाच ।

वरान् वृणुत देवेशा देवा मुनिगणास्तथा ।
भक्त्या स्तोत्रेण तुष्टोऽहं दास्यामि मनसीप्सितान् ॥ २६ ॥

गणेशवचनं श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
तं प्रणम्य महात्मानं द्विजा ऊचुर्महोदरम् ॥ २७ ॥

देवर्षय ऊचुः ।
यदि तुष्टोऽसि देवेश तदा ते भक्तिमुत्तमाम् ।
देहि नो गणनाथ त्वं तया तृप्ताः स्म साम्प्रतम् ॥ २८ ॥

त्वया शान्तिधरो दुष्टः कृतो मोहासुरः प्रभो ।
तेन सर्वं जगत् पूर्णं वरैश्चापि प्रपालितम् ॥ २९ ॥

अधुना तापसंहीनाः कृता गणपते वयम् ।
त्वं नाथोऽसि जगन्नाथ अनाथानां करोषि तत् ॥ ३० ॥

एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः ।
तथेति तानुवाचैव गणेशोऽन्तर्दधे द्विजाः ॥ ३१ ॥

देवाश्च मुनयः सर्वे स्वस्वस्थानं ययुस्ततः ।
स्वस्वधर्मरता लोका बभूवुर्विगतज्वराः ॥ ३२ ॥

एवं मोहासुरं विप्राः शान्तिरूपधरं प्रभुः ।
चकार गणनाथो वै मोहहीनं जगत्तथा ॥ ३३ ॥

[[२५]]

महोदरस्य तस्यैवावतारा विविधाः स्मृताः ।
चरित्रमखिलं तेषां गदितुं न प्रशक्यते ॥ ३४ ॥

रामः सीतावियोगार्तः शरणं तं महोदरम् ।
ययौ तेन स शान्तोऽभूत् ससीतो भजने रतः ॥ ३५ ॥

दक्षिणस्यां दिशि प्रान्ते स्थापितोऽसौ महोदरः ।
देवर्षिभिश्च भो विप्राः स्थानं तद्भुवि पप्रथे ॥ ३६ ॥

इदं महोदरस्यैव चरितं मोहनाशनम् ।
मोहशान्तिप्रदं पूर्णं कथितं वो मया द्विजाः ॥ ३७ ॥

यः पठेच्छृणुयाद्यश्च तस्मै शान्तिप्रदायकम् ।
भुक्तिमुक्तिप्रदं चैव भविष्यति न संशयः ॥ ३८ ॥

मोहेन मोहिता विप्रा मां वदन्ति परात्परम् ।
स्वल्पयोगधरास्ते ये ज्ञातव्याश्च न संशयः ॥ ३९ ॥

एतद्वः कथितं सर्वं मदीयं सुचरित्रकम् ।
गणेशभक्तिसंयुक्तं तस्मात्तं प्रभजाम्यहम् ॥ ४० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते महोदराऽन्तर्धानं नामैकादशोऽध्यायः ॥