॥ श्रीगणेशाय नमः ॥
रविरुवाच ।
गते मुनौ महाभागा मोहो जातः सुहर्षितः ।
विचारमकरोच्चित्ते नारदोक्तविचारवित् ॥ १ ॥
एकान्ते संस्थितो दैत्यो गणेशध्यानतत्परः ।
महोदरस्य माहात्म्यं ज्ञात्वा मनसि हर्षितः ॥ २ ॥
स शुक्रमुपसङ्गम्याकथयत् प्रकथानकम् ।
नारदोक्तं च काव्येन तेनैवं बोधितो द्विजाः ॥ ३ ॥
ततः स्वगृहमागत्य गणेशे मोहितोऽभवत् ।
मोहासुरश्च मोहेन वर्जितः प्रबभौ स्वयम् ॥ ४ ॥
एतस्मिन्नन्तरे तत्र विष्णुः स्वयमुपाययौ ।
प्रेषितो गणराजेन सामार्थं दैत्यसन्निधौ ॥ ५ ॥
केशवं मानयामास मोहासुरः प्रतापवान् ।
अपूजयन् महादैत्यो निवेश्य शुभ आसने ॥ ६ ॥
पप्रच्छ तं महाविष्णुं किमर्थं त्वमिहागतः ।
वद विष्णो महाभाग कारणं ते करोम्यहम् ॥ ७ ॥
विष्णुरुवाच ।
महोदरः समायातो धर्मरक्षणतत्परः ।
देवैश्च मुनिभिः सार्धं तेनाऽहं प्रेषितोऽसुर ॥ ८ ॥
सामार्थं ते महाभागाऽसि धन्यो दैत्यनायक ।
मित्रभावं त्वया सार्धं स इच्छति महोदरः ॥ ९ ॥
देहदेहिमयं ब्रह्म तदेव गणनायकः ।
महोदरः समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥ १० ॥
सर्वेषामुदरे स्थित्वा भोगान् सर्वान् भुनक्ति सः ।
महोदरश्च तेनाऽसौ वयं स्वल्पोदराः स्मृताः ॥ ११ ॥
नगरस्य पुरो राजन् दशयोजनदूरगः ।
संस्थितो देवविप्राद्यैः संस्तुतः प्रबभौ विभुः ॥ १२ ॥
स उवाच तदेवाऽहं कथयामि शृणुष्व तत् ।
वचनं सर्वभावज्ञ सर्वेभ्यः सुखदायकम् ॥ १३ ॥
[[२२]]
विरुद्धं त्यज दैत्येन्द्र तिष्ठ स्थाने स्वके सुखम् ।
देवा हविर्भुजः सन्तु ब्राह्मणाः कर्मकारकाः ॥ १४ ॥
तिष्ठन्तु लोका वर्णाश्रमयुता दुःखवर्जिताः ।
एतत् कुरु महादैत्य नोचेद्युद्ध्यस्व दैत्यपैः ॥ १५ ॥
एतत्ते कथितं वाक्यं गणेशेन विशेषतः ।
तत् कुरुष्व महाभाग भव मित्रं महात्मनः ॥ १६ ॥
रविरुवाच ।
श्रुत्वा विष्णुवचो रम्यं तमुवाच महाबलः ।
मोहासुरः प्रसन्नात्मा सर्वेषां मोहकारकम् ॥ १७ ॥
मोहासुर उवाच ।
सम्यग् ब्रवीषि विष्णो त्वं मदीयहितकारकम् ।
करिष्यामि तथा देवं मानयिष्ये महोदरम् ॥ १८ ॥
एवमुक्त्वा स दैत्येन्द्रानाह्वयामास सत्वरम् ।
समागतानुवाचाथ विष्णुना कथितं वचः ॥ १९ ॥
मोहासुरस्य वाक्यं तच्छ्रुत्वा ते दैत्यसत्तमाः ।
क्रोधयुक्ताश्च पातालं विविशुर्भयसङ्कुलाः ॥ २० ॥
शुक्रेण सहितो मोहासुरो दैत्यः प्रतापवान् ।
विष्णुना च तथा विप्रा गणेशं शरणं ययौ ॥ २१ ॥
समागत्य स दैत्येन्द्रो ननाम स महोदरम् ।
भक्तिभावसमायुक्तः पूजयामास यत्नतः ॥ २२ ॥
पूजयित्वा यथान्यायं पुनस्तं प्रणनाम सः ।
कृत्वा करपुटं मोहस्तुष्टाव च महोदरम् ॥ २३ ॥
मोहासुर उवाच ।
नमस्ते ब्रह्मरूपाय महोदर सुरूपिणे ।
सर्वेषां भोगभोक्त्रे वै देहदेहिमयाय ते ॥ २४ ॥
मूषकारूढदेवाय त्रिनेत्राय नमो नमः ।
चतुर्भुजाय देवानां पतये ते नमो नमः ॥ २५ ॥
अनादये च सर्वेषामादिरूपाय ते नमः ।
विनायकाय हेरम्ब दीनपालाय वै नमः ॥ २६ ॥
गणेशाय निजानन्दपतये ब्रह्मनायक ।
सिद्धिबुद्धिप्रदात्रे वै ब्रह्मभूताय वै नमः ॥ २७ ॥
ब्रह्मभ्यो ब्रह्मदात्रे वै योगशान्तिमयाय च ।
योगिनां पतये तुभ्यं योगिभ्यो योगदायक ॥ २८ ॥
सिद्धिबुद्धिपते नाथ एकदन्ताय ते नमः ।
शूर्पकर्णाय शूराय वीराय च नमो नमः ॥ २९ ॥
सर्वेषां मोहकर्त्रे वै भक्तेभ्यः सुखदायिने ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ३० ॥
मायाविने च मायाया आधाराय नमो नमः ।
मायिभ्यो मायया चैव भ्रान्तिदाय नमो नमः ॥ ३१ ॥
किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सहाङ्गकाः ।
शान्तिं प्राप्तास्तथापि त्वं संस्तुतोऽसि दयापरः ॥ ३२ ॥
धन्यौ मे पितरौ ज्ञानं तपः स्वाध्याय एव च ।
धन्यं वपुश्च देवेश येन दृष्टं पदाम्बुजम् ॥ ३३ ॥
इत्युक्त्वा प्रणनामाथ तमुवाच महोदरः ।
भक्तं भावयुतं दृष्ट्वा वचः परमशोभनम् ॥ ३४ ॥
महोदर उवाच ।
मोहासुर वृणुष्व त्वं वरं यं मनसीप्सितम् ।
दास्यामि भक्तिमोहेन मोहितोऽहं त्वयाऽधुना ॥ ३५ ॥
त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः ।
शरणागतमेवं त्वां हन्मि नो भक्तिसंयुतम् ॥ ३६ ॥
मदीयं स्तोत्रमेतद्वै सर्वदं यत्त्वया कृतम् ।
भविष्यति जनायैव पठते शृण्वतेऽसुर ॥ ३७ ॥
मोहनाशकरं चैव भुक्तिमुक्तिप्रदं भवेत् ।
धनधान्यादिदं सर्वं पुत्रपौत्रसुखप्रदम् ॥ ३८ ॥
[[२३]]
रविरुवाच ।
एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः ।
मोहासुर उवाचाऽथ निबद्धकरसम्पुटः ॥ ३९ ॥
मोहासुर उवाच ।
महोदर नमस्तुभ्यं यदि दास्यसि मे वरम् ।
तदा ते पादपद्मे वै भक्तिं देहि दृढां प्रभो ॥ ४० ॥
त्वदीयभक्तमित्रत्वं स्थानं भक्ष्यादिकं तथा ।
देहि मे देवदेवेश तत्र स्थास्यामि निश्चलः ॥ ४१ ॥
मोहासुरस्य तद्वाक्यं श्रुत्वा तं प्रत्युवाच ह ।
महोदरः प्रसन्नात्मा भक्तिभावेन तोषितः ॥ ४२ ॥
महोदर उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति महामते ।
मदीयभक्तमित्रत्वं प्राप्स्यसि त्वं न संशयः ॥ ४३ ॥
कर्मज्ञानादिभावेषु मदीयं पूजनं न हि ।
स्मरणं तत्र दैत्य त्वं भोगभोक्ता भविष्यसि ॥ ४४ ॥
स्वस्थाने तिष्ठ दैत्येन्द्र स्वधर्मस्थितमादरात् ।
नरं मोहविहीनं च तं कुरुष्व भजस्व माम् ॥ ४५ ॥
तथेति गणपं मोहासुरो नत्वा प्रतापवान् ।
स्वस्थाने संस्थितो गत्वा शान्तियुक्तो बभूव ह ॥ ४६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते मोहासुरशान्तिवर्णनं नाम दशमोऽध्यायः ॥