०९ मोहासुरज्ञानप्रदानम्

॥ श्रीगणेशाय नमः ॥

रविरुवाच ।
ततो महोदरः क्रोधसमायुक्तः प्रतापवान् ।
परश्वादि स्वायुधानि दधानो प्रबभौ द्विजाः ॥ १ ॥

मूषकोपरि संस्थाय देवर्षिगणसंयुतः ।
मोहासुरं निहन्तुं स ययौ तन्नगरे प्रभुः ॥ २ ॥

एतस्मिन्नन्तरे तत्र समासीनो महासुरः ।
मोहो दैत्याधिपैः सर्वैर्वेष्टितः प्रबभौ द्विजाः ॥ ३ ॥

अकस्मान्नारदो दैत्यं ययौ गानपरायणः ।
तं दृष्ट्वा प्रणनामाऽथ मोहः सर्वसमन्वितः ॥ ४ ॥

समासीनं महादैत्यः पप्रच्छ विनयान्वितः ।
वद चित्रं मुने किञ्चित् भ्रमसि त्वं च सर्वगः ॥ ५ ॥

दैत्यस्य वचनं श्रुत्वा नारदस्तमुवाच ह ।
हर्षयुक्तः कथां पुण्यां दैत्यस्य विषरूपिणीम् ॥ ६ ॥

नारद उवाच ।

मोहासुर महाभाग शृणु मे वचनं हितम् ।
चित्रं वदामि यद् दृष्टं भावपूर्वेण चेतसा ॥ ७ ॥

देवैः सम्प्रार्थितो देवो मुनिभिर्वनसंस्थितैः ।
महोदरवधार्थाय तव दैत्यपतेऽधुना ॥ ८ ॥

स देवो मूषकारूढो वधार्थं ते समागतः ।
दशयोजनदूरस्थो बभूवासुर चाधुना ॥ ९ ॥

इत्युक्त्वा नारदस्तं स मौनभावपरायणः ।
बभूव दैत्यराजस्तु भयोद्विग्नस्तदाऽभवत् ॥ १० ॥

नियम्य दुःखमुग्रं स उवाच नारदं पुनः ।
मोहासुरो भयोद्विग्नो हृदयेन विदूयता ॥ ११ ॥

?मोहासुर उवाच ।

शृणु नारद मे वाक्यं न मृत्युर्मे प्रवर्तते ।
नामरूपात्मकेभ्यश्च किं करिष्यति देवपः ॥ १२ ॥

महोदरात्मको नाम रूपधारी समागतः ।
स देवं तं हनिष्यामि नात्र कार्या विचारणा ॥ १३ ॥

तस्य दैत्याधिपस्यैतद्वचनं नारदो मुनिः ।
श्रुत्वोवाच महायोगी मोहासुरं विचारतः ॥ १४ ॥

शृणु मोहासुर त्वं मे वचनं हितकारकम् ।
महोदरो नरो नैव न देवो न च राक्षसः ॥ १५ ॥

नामरूपविहीनं यद्ब्रह्म वेदेषु कथ्यते ।
नामरूपमयं पूर्णं स एवायं समागतः ॥ १६ ॥

हनिष्यति यदा क्रुद्धस्त्वां तस्माच्छरणं व्रज ।
महोदरं महाभागं तेन त्वं सुखमेष्यसि ॥ १७ ॥

ततस्तं दैत्यराजः स जगाद भयसङ्कुलः ।
वद नारद योगज्ञ भ्रमनाशाय मे वचः ॥ १८ ॥

नामरूपविहीनोऽयं कथ्यसे च महोदरः ।
समागतः कथं देही नामरूपसमन्वितः ॥ १९ ॥

नामरूपमयं ब्रह्म नामरूपविवर्जितम् ।
सर्वत्रयोगभावेन तिष्ठत्यत्र न संशयः ॥ २० ॥

स्वपरभ्रान्तिजो मोहो न कदा तत्र वर्तते ।
देवदैत्यादिभेदेषु समभावयुतं सदा ॥ २१ ॥

अयं महोदरश्चैव देवपक्षविवर्धनः ।
दैत्यानां प्रवधार्थाय किमर्थं कुरुते मतिम् ॥ २२ ॥

विपरीतमिदं विप्र वचनं ते च साम्प्रतम् ।
भासते पश्य योगीन्द्र नुद मे संशयं प्रभो ॥ २३ ॥

महोदरस्य मामन्यत् ब्रह्मर्षे वद चेष्टितम् ।
किंरूपः किंस्वभावश्च कस्यांशः किम्पराक्रमः ॥ २४ ॥

कुत्र वासकरः सोऽपि कीदृशं ब्रह्म तस्य यत् ।
एतत् सर्वं सुविस्तार्य ज्ञानं मे करुणानिधे ॥ २५ ॥

भानुरुवाच ।
एवं पृष्टो महायोगी गाणपत्यः प्रतापवान् ।
मोहासुरं यथापूर्वं तं जगाद महासुरम् ॥ २६ ॥

[[२०]]

नारद उवाच ।

मोहासुर महाभाग मतिस्ते योगिसम्मता ।
योगरूपं त्वया पृष्टं तेनाऽहं तोषितो भृशम् ॥ २७ ॥

अतस्त्वां सकलं दैत्य कथयामि विशेषतः ।
शृणुष्वैकमना ढुण्ढेश्चेष्टितं योगदं परम् ॥ २८ ॥

नामरूपमयं विद्धि जगत्सर्वं चतुर्विधम् ।
नामरूपविहीनं यद्देहिरूपं जगद्धितम् ॥ २९ ॥

तयोर्योगे च दैत्येन्द्र बोधः सर्वत्र सम्मतः ।
ब्रह्म यद्वेदवादेषु कथ्यते विद्धि चेतसा ॥ ३० ॥

तदेव नामरूपादियुक्तं भवति सर्वदा ।
तदेव नामरूपादि हीनं भवति सर्वदा ॥ ३१ ॥

तद्ब्रह्म पूर्णभावेन संस्थितं योगवाचकम् ।
दैत्यपुङ्गव जानीहि तदेवाऽसौ महोदरः ॥ ३२ ॥

देहदेहिकृतो भोगः स्वस्वस्वानन्ददः परः ।
सर्वत्रगः स उदरे भुक्तभोगश्च कथ्यते ॥ ३३ ॥

उदरेन कृतो भोगो यदि बाह्यपरायणैः ।
तदा ते मरणैर्युक्ता भवन्ति स्वल्पकालतः ॥ ३४ ॥

स्वस्वानन्दमयो भोगो भुज्यते सर्वभावतः ।
सर्वैर्ब्रह्मभिरत्यन्तं जगद्भिश्चैव निश्चितम् ॥ ३५ ॥

भिन्नभोगश्च विश्वस्मिन्नात्मनि ह्यमृतात्मकः ।
एकभावमयो भोगो भोगयुक्तानुभौ मतौ ॥ ३६ ॥

देहेषु जठरं भिन्नं जठरं मतमात्मनि ।
एकभावात्मकं दैत्य जानीहि योगसेवया ॥ ३७ ॥

यदि भोगविहीनौ तौ विश्वात्मानौ महामते ।
विशेषतो यत्नवन्तौ किमर्थं वै बभूवतुः ॥ ३८ ॥

नामरूपधरं विश्वं जातं भोगार्थमेव च ।
नामरूपविहीनं यद्देही जातस्तदर्थतः ॥ ३९ ॥

नास्ति भोगस्य चेच्छा चेत् किमर्थं द्विविधं भवेत् ।
अतो जानीहि दैत्येन्द्र भोगयुक्तौ विशेषतः ॥ ४० ॥

विश्वात्मनोश्च संस्थोऽयं जठरे गणनायकः ।
महोदराख्या सञ्जाता तेन तस्य महात्मनः ॥ ४१ ॥

द्विविधस्य च दैत्येन्द्र जठरं स्वल्पवाचकम् ।
स्वस्वभोगपरत्वाद्वै विचारय महामते ॥ ४२ ॥

सकलानां विशेषेणोदरेषु स सदा स्थितः ।
महोदरश्च तेनाऽयं कथितो वेदवादिभिः ॥ ४३ ॥

विश्वं देहमयं तस्य मस्तकं चात्मवाचकम् ।
तयोर्योगे गणेशोऽयं कथ्यते स गजाननः ॥ ४४ ॥

जायते सकलं यस्मादन्ते गच्छति यत्र च ।
दैत्यनायक जानीहि गजरूपं तदेव वै ॥ ४५ ॥

विश्वात्मानौ च संसृष्टौ ताभ्यां ज्ञानार्थमेव सः ।
तपसाऽऽराधितो देवो देहधारी बभूव ह ॥ ४६ ॥

न तस्य प्राकृतो देहः सर्ववत्पश्य दैत्यप ।
भुक्तिमुक्त्यर्थमेवं स स्वेच्छया देहभोगवत् ॥ ४७ ॥

स्वसंवेद्येन योगेन लभ्यते गणनायकः ।
तदेव नगरं तस्मात्तस्य जानीहि सर्वगम् ॥ ४८ ॥

सिद्धिर्भ्रान्तिप्रदा माया ततो भ्रमति वै जनः ।
बुद्धिर्भ्रान्तिधरा प्रोक्ता चित्तरूपा विशेषतः ॥ ४९ ॥

चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं भ्रमात्मकम् ।
त्यक्त्वा शान्तिमवाप्नोति योगीशो योगसेवया ॥ ५० ॥

तस्मात्सिद्धेश्च बुद्धेश्च स्वामी प्रोक्तो महोदरः ।
तं भजस्व महादैत्य नोचेत्त्वां स हनिष्यति ॥ ५१ ॥

सुरासुरमयं तेन सृष्टं विश्वं विशेषतः ।
स्वस्वधर्मसमायुक्तं तेन खेलति विघ्नपः ॥ ५२ ॥

देवा दैत्यविनाशार्थं यतन्ते स्म यदा प्रभो ।
तदा दैत्याय भवति सिद्धीशः सिद्धिदायकः ॥ ५३ ॥

[[२१]]

देहधारी स्वयं भूत्वा वरदो भवति प्रभुः ।
असुरेभ्यो न सन्देहस्तं जानीहि महोदरम् ॥ ५४ ॥

दैत्या देवविनाशार्थं यतन्ते सर्वभावतः ।
तदा देहधरश्चाऽयं हन्ति दैत्यान्न संशयः ॥ ५५ ॥

देवाः सङ्ख्यायुता वेदे वर्तन्ते दैत्यनायक ।
वृद्धिक्षयविहीनत्वाद् हन्ति तान्न विशेषतः ॥ ५६ ॥

दैत्या अपाररूपाश्च वृद्धिक्षययुता मताः ।
तस्मात्तान् हन्ति वेगेन गणेशो ब्रह्मनायकः ॥ ५७ ॥

स्वस्वधर्मरता एते यदा खलु सुरासुराः ।
तदा तिष्ठत्ययं योगरूपश्च जठरे विभुः ॥ ५८ ॥

सर्वं ते कथितं दैत्य ब्रह्मभूतोऽयमुच्यते ।
तस्यांशैः सर्वमुत्पन्नं जगद्ब्रह्म च कथ्यते ॥ ५९ ॥

तस्मात्तं शरणं गच्छ यदि जीवितुमिच्छसि ।
भोगार्थं दैत्यराज त्वं मोक्षार्थं लालसा यदि ॥ ६० ॥

एवमुक्वान्तर्दधेऽसौ नारदः करुणानिधिः ।
गणेशगानसंयुक्तो वीणावादे प्रलालसः ॥ ६१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते मोहासुरज्ञानप्रदानं नाम नवमोऽध्यायः ॥