॥ श्रीगणेशाय नमः ॥
रविरुवाच ।
ततोऽतिगर्वितो मोहासुरो दैत्यः प्रतापवान् ।
देवानां जीवघातार्थं प्रयत्नं स चकार ह ॥ १ ॥
तदर्थं प्रेषयामास दैत्यान् परमदारुणान् ।
कर्ममार्गस्य ते सर्वे चक्रुः खण्डनमादरात् ॥ २ ॥
स्वल्पकालेन भो विप्राः कर्महीनं महीतलम् ।
कृतं दैत्यैश्च सर्वत्र त्रासिताः कर्मकारकाः ॥ ३ ॥
वर्णाश्रमविहीनं तैः कृतं सर्वत्र भूतलम् ।
धर्ममूलं तथा नष्टं बभूव क्रमतः किल ॥ ४ ॥
न स्वाहा न स्वधा कुत्र प्रबभूव महर्षयः ।
मोहासुरस्य मूर्तिं ते स्थापयामासुरादरात् ॥ ५ ॥
दैत्यपास्तत्र लोकैर्वा पूजां सर्वत्र सम्मताम् ।
कारयामासुरुग्रैश्च दण्डैः सन्ताड्य मानवान् ॥ ६ ॥
ततो मुनिगणाः सर्वे भ्रष्टा जाता विशेषतः ।
मृताः केचित्तथाऽरण्ये गताः परमदारुणे ॥ ७ ॥
तत्र ते भयसंयुक्ताः क्रियां चक्रुर्महर्षयः ।
एवं धर्मस्य विच्छेदः कृतस्तेन सुरारिणा ॥ ८ ॥
ततो देवगणाः सर्वे भययुक्ता विशेषतः ।
उपोषणसमायुक्ता विचारं चक्रिरे द्विजाः ॥ ९ ॥
मिलिता मुनिभिः सार्धं मोहासुरविनाशने ।
न प्रापुर्देवविप्रेन्द्रा उपायं सुखदं परम् ॥ १० ॥
ततस्तानर्यमा प्राह शृणुध्वं सुरसत्तमाः ।
मुनयश्च महाभागा वचो मे हितकारकम् ॥ ११ ॥
नामरूपधरं सर्वं तस्मान् मृत्युर्न वै भवेत् ।
मोहासुरस्य देवेन्द्रास्तत्रोपायं वदाम्यहम् ॥ १२ ॥
गणेश्वरस्य हस्तेन दैत्योऽयं प्रमरिष्यति ।
स्वयं योगमयः प्रोक्तस्तस्मात्तं प्रभजामहे ॥ १३ ॥
स एव निजलोकस्थो निजबोधेन दैत्यपम् ।
हनिष्यति न सन्देहः स्तूयतां स सुरेश्वराः ॥ १४ ॥
सूर्यस्य वचनं श्रुत्वा देवा हर्षसमन्विताः ।
विष्ण्वाद्याश्च पुनस्तं ते जगुर्वचनमुत्तमम् ॥ १५ ॥
देवा ऊचुः ।
सम्यगुक्तं त्वया भानो बुद्ध्या त्वमधिको मतः ।
सर्वेभ्यो जीवदाता भो जातोऽस्यत्र न संशयः ॥ १६ ॥
ततो देवाश्च विप्राश्च तपसा गणनायकम् ।
आराधयन् प्रयत्नेन विघ्नवारणकारणम् ॥ १७ ॥
एकाक्षरविधानेनापूजयंस्तं निरन्तरम् ।
अजपन् मन्त्रमाद्यं तु ध्यायन्तो गणपं हृदि ॥ १८ ॥
नानातपःसमायुक्ता उपोषणपरायणाः ।
ऋषयो देवदेवेशा विघ्नेश्वरमतोषयन् ॥ १९ ॥
वर्षाणां शतकेष्वेवं गतेषु गणनायकः ।
आययौ तान् वरं दातुं भृशं भावेन तोषितः ॥ २० ॥
सौम्यतेजोयुतश्चैवाखुगः पूर्णो गजाननः ।
चतुर्बाहुर्दयापूर्णो महोदरविराजितः ॥ २१ ॥
एकदन्तो विशालाक्षः शूर्पकर्णधरः प्रभुः ।
सिद्धिबुद्धिसमायुक्तो नाभिशेषविराजितः ॥ २२ ॥
चिन्तामणिं गले बद्ध्वा नागयज्ञोपवीतवान् ।
एवं समाययौ देवो देवर्षीणां पुरो विभुः ॥ २३ ॥
तं दृष्ट्वा देवविप्रास्ते हर्षिता भक्तिसंयुताः ।
प्रणेमुः पूजयामासुर्यथाशास्त्रविधानतः ॥ २४ ॥
ततस्तं तुष्टुवुः सर्वे कृताञ्जलय आदरात् ।
तद्दर्शनमहोत्साहा यथामतय भो द्विजाः ॥ २५ ॥
देवर्षय ऊचुः ।
नमस्ते गणनाथाय महोदरस्वरूपिणे ।
अनाथाय च नाथाय सर्वेषां ते नमो नमः ॥ २६ ॥
[[१८]]
अनादिसिद्धिनाथाय बुद्धिनाथाय ढुण्ढये ।
हेरम्बाय स्वभक्तेभ्यः सर्वदाय नमो नमः ॥ २७ ॥
चतुर्बाहुधरायैव शूर्पकर्णाय ते नमः ।
लम्बोदराय विघ्नेश विघ्नवारण ते नमः ॥ २८ ॥
गजाननाय देवायाऽखुवाहाय महात्मने ।
शेषनाभिस्थितायैवैकदन्ताय नमो नमः ॥ २९ ॥
महागणपते तुभ्यं सर्वकारणकारण ।
भक्तवाञ्छाविधातानां हराय तु नमो नमः ॥ ३० ॥
मायाश्रयाय मायायाधारकाय महाभुज ।
अभक्तकामदहनरूपाय च नमो नमः ॥ ३१ ॥
योगानां पतये तुभ्यं योगदात्रेऽव्ययाय ते ।
स्वानन्दवासिने चैव योगाकाराय ते नमः ॥ ३२ ॥
सर्वेषां जठरेषु त्वं स्थित्वा भोगान् करोषि वै ।
भोक्ता त्वदुदरे वै न कोऽपि तेन महोदरः ॥ ३३ ॥
देहदेहिसमायोगे बोधब्रह्मणि संस्थितम् ।
को जानाति च तं देवं सोऽपि दर्शनतां गतः ॥ ३४ ॥
भक्तवत्सलभावेन प्रकटस्त्वं समागतः ।
वयं तेन कृतार्थाश्च देवदेवेश निश्चितम् ॥ ३५ ॥
वयं धन्या यतो दृष्टः सर्वोदरविलासकृत् ।
महोदरः प्रसन्नात्मा साक्षाद्ब्रह्मपतिः प्रभुः ॥ ३६ ॥
किं स्तौमि त्वां गणाधीश वेदादीनां तथोदरे ।
संस्थितं प्रणमामस्तं योगगम्यं सनातनम् ॥ ३७ ॥
रविरुवाच ।
एवं स्तुतिं समाकर्ण्य प्रणयेन सुतोषितः ।
जगाद तान् गणेशानो भक्तिभावनियन्त्रितः ॥ ३८ ॥
महोदर उवाच ।
वृणुध्वं सर्वदेवेशा मुनयश्च यथेप्सितम् ।
दास्यामि सकलं तद्वो भक्त्या स्तोत्रेण तोषितः ॥ ३९ ॥
भवत्कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् ।
पठतां शृण्वतां देवाः सर्वसिद्धिप्रदायकम् ॥ ४० ॥
इति तस्य वचः श्रुत्वा देवा मुनिगणैः सह ।
हर्षयुक्ताः प्रणम्यैनं जगुस्ते तं गणेश्वरम् ॥ ४१ ॥
देवर्षय ऊचुः ।
यदि प्रसन्नतां यातो देवदेवेश विघ्नप ।
तदा ते पादपद्मे नो भक्तिं देहि विशेषतः ॥ ४२ ॥
मोहासुरेण दुष्टेन स्थानभ्रष्टाः कृता वयम् ।
मुनयः कर्महीनाश्च जहि तं गर्वसंयुतम् ॥ ४३ ॥
ब्रह्माण्डं विजितं तेन तत्र लोकाः सुदुःखिताः ।
कृतास्तान् सुखदाता वै भव स्वामिन्नमोऽस्तु ते ॥ ४४ ॥
तेषां वचनमाकर्ण्य तानुवाच तथेति ह ।
महोदरः प्रसन्नात्मा भक्तवत्सलभावतः ॥ ४५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते देवर्षिवरप्रदानं नामाष्टमोऽध्यायः ॥
[[९]]