॥ श्रीगणेशाय नमः ॥
रविरुवाच ।
मदिरायां सुताः पञ्च तस्माद्दैत्यान् महाबलाः ।
तेजस्विनश्च पित्रा ते बभूवुः समशीलकाः ॥ १ ॥
उग्रः क्रूरश्च मेधावी शोचनो हरणस्तथा ।
पञ्चैते शास्त्रसम्पन्ना रेजुस्तन्नगरे द्विजाः ॥ २ ॥
ततः किञ्चिद्गते काले राजा मोहासुरो द्विजाः ।
आह्वयामास दैत्येशान् सकलान् स्वनरैर्महान् ॥ ३ ॥
समागतानुवाचाऽथ वचनं हितकारकम् ।
दैत्येशान्नीतिसंयुक्तं सुखदं प्रीतिवर्धनम् ॥ ४ ॥
मोहासुर उवाच ।
भो भो दैत्याधिपाः सर्वे प्रचण्डाद्या वचो हितम् ।
शृणुध्वं सकलं विश्वं जयेयमधुना किल ॥ ५ ॥
यदि स्वमानसे दैत्या हितं भवति चेत्तदा ।
सर्वेषां भवतां कार्यं कुर्वेऽहं नात्र संशयः ॥ ६ ॥
शुक्रेण पालिता यूयं तथाऽहमसुरेश्वराः ।
अजेयाः प्रभविष्यामो रवेश्च वरदानतः ॥ ७ ॥
ततस्ते तं नमस्कृत्य सञ्जगुर्हर्षसंयुताः ।
महात्मानं महाभागं तपस्तेजःसमन्वितम् ॥ ८ ॥
दैत्येशा ऊचुः ।
सम्यग्विचारिताः स्वामिंस्तृप्ता वाक्यामृतेन ते ।
जेष्यामः सकलान् लोकांस्त्वदाज्ञावशगा वयम् ॥ ९ ॥
न ते पराक्रमे तुल्यो ?विश्वेऽस्मिन् विद्यते प्रभो ।
अतो विष्णुमुखान् देवान् जेष्यामोऽन्यांश्च साम्प्रतम् ॥ १० ॥
रविरुवाच ।
इति मोहासुरस्तेषां वचः श्रुत्वा प्रतापवान् ।
आज्ञापयच्च दैत्येशान् मुदा भवत दंशिताः ॥ ११ ॥
ते सर्वे युद्धमार्गज्ञा ययुस्तस्य प्रसन्निधौ ।
नानाशस्त्रधरा भूत्वा यममत्तुमिवोद्यताः ॥ १२ ॥
तान् दृष्ट्वा हर्षितो दैत्यो वीर्यवांश्च महासुरः ।
रथसंस्थः स्वयं दैत्यैर्निर्जगाम स दंशितः ॥ १३ ॥
चतुरङ्गचमूमध्ये रराज रथसंस्थितः ।
कालरुद्र इवाध्यक्षः सर्वेभ्यो भयदायकः ॥ १४ ॥
स्वयं शुक्रेण संयुक्तः पृथिवीजयनोद्यतः ।
असुरैः सहितः पूर्वं बभ्राम वसुधातले ॥ १५ ॥
अपारा तस्य सेना सा छादयामास वै धराम् ।
चलनोत्थरजस्केन च्छादितो भास्करोऽभवत् ॥ १६ ॥
कालरूपैर्महादैत्यैः प्रयोद्धुं भूमिमण्डले ।
कः समर्थो भवेद्विप्रा जितं तैः स्वेन तेजसा ॥ १७ ॥
सप्तद्वीपवतीं पृथ्वीं जित्वा तेऽसुरसत्तमाः ।
ययुः सर्वे जयार्थाय देवान् विष्णुपुरोगमान् ॥ १८ ॥
देवाः सर्वे समाश्रुत्य ससैन्यं चागतं द्विजाः ।
मोहासुरं भयोद्विग्ना इन्द्रं ते शरणं ययुः ॥ १९ ॥
इन्द्रेण सहिताः सर्वे ब्रह्माणं प्रययुस्ततः ।
तेन सार्धं च कैलासे शङ्करं शरणं ययुः ॥ २० ॥
शङ्करेण युता देवा वैकुण्ठे केशवं ययुः ।
केशवेन युताः सर्वे भास्करं प्रययुस्ततः ॥ २१ ॥
भास्करस्तानुवाचाऽथ भययुक्तान् सुरेश्वरान् ।
निःश्वस्य भयसंयुक्तो वचनं हितकारकम् ॥ २२ ॥
भास्कर उवाच ।
मदीयवरदानेन समर्थो दैत्यपुङ्गवः ।
मोहासुरश्च देवेन्द्रास्तं जेतुं कः क्षमो भवेत् ॥ २३ ॥
कर्मणां फलमुग्रं यच्च्यवते केनचिन्न तत् ।
अतो वयं वनेष्वद्य वसामो भयसंयुताः ॥ २४ ॥
त्यक्त्वा राज्यादिकं सर्वं देहं रक्षामहे वयम् ।
पुण्यान्ते तस्य मृत्युर्वै भविष्यति न संशयः ॥ २५ ॥
[[१६]]
अन्यथा दैत्यभूपेन्द्रो मोहदैत्यः प्रतापवान् ।
हनिष्यति स देवेन्द्रं तस्मात् कुर्वन्तु मे वचः ॥ २६ ॥
एवं मदीयं वाक्यं वै श्रुत्वा प्राह बृहस्पतिः ।
सर्वनीतिविशेषज्ञो देवाचार्यो महायशाः ॥ २७ ॥
बृहस्पतिरुवाच ।
शृणुध्वं देवराजानो वचनं हितकारकम् ।
भानुना भाषितं वाक्यं तन्नो भवति वै हितम् ॥ २८ ॥
ततः सर्वेऽब्रुवन् देवाः साधु साधु त्वयेरितम् ।
भानुना च गुरोर्वाक्यं करिष्यामो वयं तथा ॥ २९ ॥
एवं निश्चित्य देवेन्द्रा देवैः सर्वे ययुर्वनम् ।
गुहासु पर्वतोद्देशे संस्थिता भयसंयुताः ॥ ३० ॥
मोहासुरोऽसुरैः सर्वैर्देवानां नगरेषु च ।
आययौ तत्र देवेन्द्रान् स नापश्यत् सुहर्षितः ॥ ३१ ॥
तेषु दैत्यान् समास्थाप्य स्वयमैन्द्रपदे स्थितः ।
दैत्यैः संसेव्यमानश्च बुभुजे भोगमुत्तमम् ॥ ३२ ॥
गन्धर्वाप्सरसस्तस्य सेवां चक्रुर्भयाकुलाः ।
स्वर्लोकवासिनो नाना तथैव च महर्षयः ॥ ३३ ॥
ततोऽगाद्दैत्यपैः सर्वैः सत्यलोकं महाबलः ।
मोहासुरो द्विजास्तत्र न ददर्श पितामहम् ॥ ३४ ॥
शून्यं नगरमेवं तत् दृष्ट्वा हर्षसमन्वितः ।
ययौ वैकुण्ठमुग्रोऽसावदर्शत्तत्र तादृशम् ॥ ३५ ॥
ततः कैलासमागत्य शङ्करेण विवर्जितम् ।
पुरं वीक्ष्य ययौ सोऽपि सौरलोकं महासुरः ॥ ३६ ॥
तत्रादित्यविहीनं च शक्तिलोकं तथा ययौ ।
दृष्ट्वा शक्तिविहीनं तं मुमुदे दैत्यनायकम् ॥ ३७ ॥
ततो दैत्येन्द्रमुख्योऽसौ स्वसुतान् बलगर्वितान् ।
स्थापयामास देवानां नगरेषु विशेषतः ॥ ३८ ॥
कैलासेऽधिपतिं चक्रे ह्युग्रं पुत्रं महासुरः ।
विकुण्ठाधिपतिं तद्वत् क्रूरं दैत्यसमन्वितम् ॥ ३९ ॥
सौरलोकाधिपं मेधाविनं चक्रे च गर्वितम् ।
शक्तिलोके तथा सोऽपि शोचनं युद्धलालसम् ॥ ४० ॥
सत्यलोकेऽधिपं चक्रे हरणं सर्वहारकम् ।
प्रचण्डमुख्यकान् ?चक्रे इन्द्रलोकादिकाधिपान् ॥ ४१ ॥
कालान्तकश्च पातालदेशेषु प्रेषितस्ततः ।
मोहासुरेण नागेन्द्रं ययौ शेषं स सैनिकः ॥ ४२ ॥
कालान्तकं दैत्यराजमागतं च हि नागराट् ।
विनयेन ययौ तं स साम चक्रे सुरेण वै ॥ ४३ ॥
एवं जिगाय ब्रह्माण्डं स उग्रो दैत्यनायकः ।
मोहासुरो महावीर्यो मुमुदे दैत्यपैर्द्विजाः ॥ ४४ ॥
ततः स्वनगरे दैत्यो ययौ सर्वैः समन्वितः ।
विषयावासके तत्र पुरे स शुशुभे ततः ॥ ४५ ॥
तत्रस्थः प्रशशासाऽसौ ब्रह्माण्डं लोकसङ्कुलम् ।
राज्यं चकार दैत्येन्द्रो दैत्येन्द्रेश्च समन्वितः ॥ ४६ ॥
भोगान् स बुभुजे नाना ह्यतुलान् विषयप्रियः ।
दैत्यैः सह प्रगर्वेण कृतकृत्यममन्यत ॥ ४७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते मोहासुरविजयवर्णनं नाम सप्तमोऽध्यायः ॥
Pageखं. अ.