॥ श्रीगणेशाय नमः ॥
वालखिल्या ऊचुः ।
श्रुतं सर्वं महाभाग भानो ब्रह्मप्रदायकम् ।
तथापि न वयं तृप्ता भवामोऽमृतपानवत् ॥ १ ॥
अधुना ब्रूहि माहात्म्यं मोहस्य जगदीश्वर ।
शिववीर्यात् समुत्पन्नः किं चकार रवे वद ॥ २ ॥
मुद्गल उवाच ।
मुनीनां वचनं श्रुत्वा तान् जगाद महामतिः ।
सूर्यः सर्वान्तरात्मा च मोहस्य चरितं विधे ॥ ३ ॥
सूर्य उवाच ।
शिववीर्यात् समुत्पन्नो मोहः परमशोभनः ।
जगाम शरणं तत्र काव्यं वेदविदांवरम् ॥ ४ ॥
तं प्रणम्य जगदासौ वृत्तान्तं सर्वमञ्जसा ।
स्वस्योत्पत्तिस्वरूपं यद्विनीतात्मा विशेषतः ॥ ५ ॥
कथयित्वा पुनः प्राह स्वामिन् मां शाधि शिष्यकम् ।
त्वदधीनं विनाथं वै कार्यं वद महामुने ॥ ६ ॥
इति तस्य वचः श्रुत्वा शुक्रो दयासमन्वितः ।
उपवीतादिकं सर्वं कारयामास दैत्यपैः ॥ ७ ॥
जृम्भाय पुत्रभावेन ददौ तं मोहमुल्बणम् ।
तत्र वेदादिकं तेनाधीतं सर्वं महर्षयः ॥ ८ ॥
प्रमादासुरनामा वै तस्मै पुत्रीं ददौ स्वकाम् ।
रूपलावण्यसंयुक्तां नाम्ना च मदिरां द्विजाः ॥ ९ ॥
मोहो नत्वा स्वतातं सङ्गृह्य शुक्रान् महामनुम् ।
सूर्यस्य सवने गत्वा तताप परमं तपः ॥ १० ॥
ऊर्ध्वदृष्टिं बबन्धाऽसौ सूर्यं ध्यायन् स मण्डले ।
मन्त्रं जजाप भावेन निराहारपरायणः ॥ ११ ॥
दिव्यवर्षसहस्रेण प्रसन्नोऽभूद्दिवाकरः ।
तं ययौ वरदानार्थं स्वभक्तं भक्तिभावितः ॥ १२ ॥
अस्थित्वचासमायुक्तं मोहं दृष्ट्वार्यमा प्रभुः ।
विस्मितोऽभून् महद्धैर्यं दैत्यस्य परमाद्भुतम् ॥ १३ ॥
बोधयामास तं शीघ्रं रविर्देववरः स्वयम् ।
वरं ब्रूहि महामोह प्रसन्नोऽहं ददामि ते ॥ १४ ॥
श्रुत्वा मदीयवाक्यं स प्रबुद्धो सुरनायकः ।
पुरतो मां स्थितं वीक्ष्य प्रणनाम कृताञ्जलिः ॥ १५ ॥
उत्थाय पूजयामास परैर्नानोपचारकैः ।
कृताञ्जलिः पुनर्नत्वा स तुष्टाव महर्षयः ॥ १६ ॥
मोहासुर उवाच ।
नमः सूर्याय तपतां श्रेष्ठ ते सर्वरूपिणे ।
भानवे भास्करायैव रवये ते नमो नमः ॥ १७ ॥
कर्मणां फलदात्रे ते कर्ममूलधराय च ।
कर्माकाराय देवाय स्वात्मने ते नमो नमः ॥ १८ ॥
नानाभेदधरायैव नानाभेदविवर्जित ।
सदामृतस्वरूपाय परमात्मन्नमोऽस्तु ते ॥ १९ ॥
अनन्तापाररूपाय जगज्जीवनमूर्तये ।
सत्याय सत्यपात्रे ते दिवाकर नमोऽस्तु ते ॥ २० ॥
त्रयीबोधाय ते त्रय्यै त्रयीकर्मप्रवर्तक ।
सर्वाहङ्कारमूलाय सदाहङ्कारनाशिने ॥ २१ ॥
ज्ञानदात्रे प्रकाशाय प्रकाशानां विशेषतः ।
अनादये महेशाय परेशाय नमो नमः ॥ २२ ॥
वृष्टिबीजाय सर्वेषां कालकर्मप्रवर्तक ।
मायाधाराय मायायाश्चालकाय नमो नमः ॥ २३ ॥
किं स्तौमि त्वां दिवानाथ आत्माकारधरं प्रभो ।
तथापि ज्ञानप्रामाण्यात् संस्तुतोऽसि नमाम्यहम् ॥ २४ ॥
यदि तुष्टो?ऽसि देवेश वरं दातुं समागतः ।
तदा मे मरणं स्वामिन्न भवेन्मां तथा कुरु ॥ २५ ॥
नामरूपधरं सर्वं तस्मान् मृत्युर्न मे भवेत् ।
राज्यं त्रैलोक्यसंस्थं यद्देहि तज्जगदीश्वर ॥ २६ ॥
[[१४]]
आरोग्यादिसमायुक्तां देहसत्तां महाप्रभो ।
सर्वातिगां च मे देहि सङ्ग्रामे विजयं तथा ॥ २७ ॥
यद्यदिच्छामि देवेश तत्तन्मे सुलभं भवेत् ।
त्वदीयपादपद्मे ते भक्तिं देहि महाप्रभो ॥ २८ ॥
एवमुक्त्वा महादेवं भास्करं प्रणनाम सः ।
उत्थाय तस्य सामीप्ये संस्थितो विनयान्वितः ॥ २९ ॥
ततः स सविता तत्र विस्मितस्तमुवाच ह ।
त्वया यत् प्रार्थितं दैत्य तत् सर्वं लभसे महत् ॥ ३० ॥
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
सर्वकामप्रदं चैव भविष्यति सुशृण्वते ॥ ३१ ॥
इत्युक्त्वान्तर्दधे देवः सविता स्वस्थलं ययौ ।
दैत्योऽपि हर्षितोभूत्वा स्वगृहं प्रजगाम ह ॥ ३२ ॥
मातरं पितरं तत्र प्रणनाम महासुरः ।
सुहृदो मानयामास यथा सम्बन्धपूर्वकम् ॥ ३३ ॥
ततः शुक्रं जगामाऽसौ तं प्रणम्य महासुरः ।
मोहः सङ्कथयामास वृत्तान्तं तस्य सन्निधौ ॥ ३४ ॥
उपचारैः प्रपूज्याऽसौ प्रणम्य स्वगृहं पुनः ।
आययौ हर्षसंयुक्तो नगरं निर्ममे ततः ॥ ३५ ॥
विषयावासकं नाम मुनिस्तस्य चकार वै ।
शुक्रः परमतेजस्वी तत्र वासं चकार सः ॥ ३६ ॥
असुरादय एवं वै वृत्तान्तं यत्र तत्र ते ।
श्रुत्वा समागतास्तस्य नगरे चक्रिरे स्थितिम् ॥ ३७ ॥
चातुर्वर्ण्यसमायुक्तं नगरं शुशुभे द्विजाः ।
सर्वातिगं चानुपमं पृथिव्यां पूर्णभोगदम् ॥ ३८ ॥
ततो दैत्यगणाः सर्वे श्रेष्ठास्तत्र समागताः ।
शुक्रेण प्रेरितास्तं ते प्रणेमुर्भावसंयुताः ॥ ३९ ॥
प्रचण्डश्चैव चण्डश्च महाकालश्च वीर्यवान् ।
कालान्तकादयश्चान्ये बहवो दैत्यनायकाः ॥ ४० ॥
मिलिता दैत्यसंयुक्तास्तदाज्ञावशवर्तिनः ।
भूत्वा ते नगरे तस्य समीपे संस्थिता बभुः ॥ ४१ ॥
ततो द्विजैः स्वयं काव्यस्तं चकार महर्षयः ।
दैत्याधिपं स सिषेच तदर्थं राज्यसम्पदि ॥ ४२ ॥
ततस्ते मुदिताः सर्वे दैत्याः स्वस्वस्थलं ययुः ।
मुख्यास्तत्र स्थिता विप्राः सेवार्थं लालसायुताः ॥ ४३ ॥
एवं मोहासुरः श्रेष्ठोऽसुराणां नायकोऽभवत् ।
तमाश्रित्य महादैत्या हर्षिता अचरन् धराम् ॥ ४४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते मोहासुरराज्याभिषेको नाम षष्ठोऽध्यायः ॥
[[१५]]