०५ स्कन्दमाहात्म्यम्

॥ श्रीगणेशाय नमः ॥

ततः कामसमायुक्तः शङ्करोऽभूत्तया सह ।
पार्वत्या पुत्रकामार्थं रेमे हर्षसमन्वितः ॥ १ ॥

ततस्तस्य महेशस्य क्रीडतः प्रगतानि वै ।
वर्षाणि हि सहस्राणां षष्टिर्देवर्षिसत्तमाः ॥ २ ॥

महामायायुतः शम्भुर्न बुबोध दिवानिशम् ।
ततस्तस्य महेशस्य रतिभङ्गार्थमागताः ॥ ३ ॥

देवास्तैः प्रेषितो वह्निर्द्विजरूपधरो ययौ ।
भिक्षां देहि जगादासौ तच्छ्रुत्वा तौ समुत्थितौ ॥ ४ ॥

पपात भूतले वीर्यं शिवस्यैवोत्थितस्य च ।
तदेव पार्वती विप्रा ददौ वै भिक्षुकाय च ॥ ५ ॥

शिववीर्यं ततस्तेन प्राशितं दहनेन वै ।
अभवद्दाहसंयुक्तो गङ्गायामक्षिपत् स तत् ॥ ६ ॥

कार्तिकस्नानकार्यार्थं कृत्तिकाभिर्महाद्भुतम् ।
षड्भिः समागताभिस्तत् पीतमाचमनेन वै ॥ ७ ॥

स्नात्वा स्वस्वगृहे ताश्च गताः सद्यः समुज्ज्वलाः ।

[[११]]

पतिभिः परवीर्येण युक्ताः सन्त्याजिता ययुः ॥ ८ ॥

शरस्तम्बे महद्वीर्यं त्यक्त्वा स्नात्वा पुनर्गृहम् ।
ययुस्तत्र समुत्पन्नः षण्मुखो बालको बभौ ॥ ९ ॥

स दृष्टो गच्छता तत्र नारदेन शिशुः पुरः ।
ज्ञात्वा ध्यानेन कैलासे गतोऽभून् मुनिसत्तमः ॥ १० ॥

तत्र शक्त्यै स वृत्तान्तं कथयित्वा महामुनिः ।
यदृच्छाविचरन् यातः पार्वती बालमाययौ ॥ ११ ॥

चकार बालमागृह्य स्तनपानं यशस्विनी ।
वह्निगङ्गाकृत्तिकाद्या मातरस्तस्य तं ययुः ॥ १२ ॥

शिवेन मातरः सर्वाः सत्कृताः स्वगृहं ययुः ।
ब्रह्मेशाद्यैस्ततो देवैर्मुनिभिः सोऽभिषेकितः ॥ १३ ॥

देवसेनापतित्वे स प्रययौ सेनया सह ।
प्रार्थितस्तारकस्यैव नाशाय बलवान् स्वयम् ॥ १४ ॥

स्कन्दस्य तारकस्यैव युद्धं परमदारुणम् ।
सञ्जातं च ततः स्कन्दो भृशं शक्त्या जघान तम् ॥ १५ ॥

सम्मूर्च्छितो महादैत्यः पुनः सञ्ज्ञायुतोऽभवत् ।
ताडयामास तं स्कन्दं गदया क्रोधसंयुतः ॥ १६ ॥

पतितं वीक्ष्य ते देवाः पलायनमकुर्वत ।
गृहीत्वा कार्तिकेयं तं दैत्यः स्वस्थानमाययौ ॥ १७ ॥

तत ओषधिभिर्देवैः सावधानः कृतोऽभवत् ।
स्कन्दः परमदुःखार्तः शङ्करं शरणं ययौ ॥ १८ ॥

जयोपायं वद ब्रह्मन् शिवशान्तिप्रदं तथा ।
सर्वार्थसाधकं पूर्णं तं भजामि विशेषतः ॥ १९ ॥

ततश्च शम्भुना तस्मै गणेशस्य षडक्षरः ।
मन्त्रो दत्तो विशाखाय ज्ञानं सङ्कथितं परम् ॥ २० ॥

शम्भुरुवाच ।
शृणु स्कन्द महायोगं येन शान्तो भविष्यसि ।
चित्ते चिन्तामणिं ज्ञात्वा शान्ता जाता वयं पुरा ॥ २१ ॥

यद्यच्चित्तेन वै पुत्र लभ्यते तत्प्रणश्वरम् ।
भवेज्जानीहि चित्तं ब्रह्माकारं योगसेवया ॥ २२ ॥

अन्तर्बाह्यादिभेदा ये ते सर्वे चित्तसम्भवाः ।
ओङ्कारोऽर्थसमायुक्तश्चित्तरूपो न संशयः ॥ २३ ॥

स्वकोत्थानं बभौ ब्रह्म परोत्थानकमेव च ।
चित्तरूपं विजानीहि बुद्ध्या मोहप्रदं कृतम् ॥ २४ ॥

स्वानन्दश्च निवृत्तिश्च चित्तरूपे न संशयः ।
बहुनाऽत्र किमुक्तेन चित्तं सर्वात्मकं बभौ ॥ २५ ॥

ब्रह्माकारं च जानीहि जगदाकारकं तथा ।
चित्तं पञ्चविधं पुत्र जहि तद् योगसेवया ॥ २६ ॥

चित्ते यद्बिम्बितं ब्रह्म भवति भ्रमसंयुतम् ।
बिम्बभावं परित्यज्य भव चिन्तामणिः सुत ॥ २७ ॥

चित्तं त्यक्त्वा महाभाग त्वन्न भिन्नो भविष्यसि ।
एतदेव परं ज्ञानं शान्तिरूपं वदन्ति च ॥ २८ ॥

रविरुवाच ।
शिवस्य वचनं श्रुत्वा तं प्रणम्य ययौ वनम् ।
कार्तिकेयः स विघ्नेशं ध्यायंश्च विधिपूर्वकम् ॥ २९ ॥

षडक्षरविधानेन पूजति स्म निरन्तरम् ।
मन्त्रं जजाप वै स्कन्दस्तताप तप उत्तमम् ॥ ३० ॥

वायुभक्षः सदा भूत्वा जपध्यानपरायणः ।
दण्डकारण्यदेशे स गजाननमतोषयत् ॥ ३१ ॥

ततो वर्षसहस्रेण शान्तियोगमवाप ह ।
कार्तिकेयः स विघ्नेशमभजत्तदपि द्विजाः ॥ ३२ ॥

ततस्तुष्टो गणेशानो ययौ तं भक्तमुत्तमम् ।
तं दृष्ट्वा प्रणनामाथ पूजयन् भक्तिसंयुतः ॥ ३३ ॥

[[१२]]

ततस्तुष्टाव विघ्नेशं कार्तिकेयो महाद्युतिः ।
कृत्वा करपुटं विप्राः स्वानुभावपरायणः ॥ ३४ ॥

स्कन्द उवाच ।

नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे ।
असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ ३५ ॥

वामाङ्गे भ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो ।
भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ ३६ ॥

माया सिद्धिस्तथा देवो मायिको बुद्धिसञ्ज्ञितः ।
तयोर्योगे गणेशान त्वं स्थितोऽसि नमोस्तु ते ॥ ३७ ॥

जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।
तयोर्योगे गणेशाननामा तुभ्यं नमो नमः ॥ ३८ ॥

चतुर्विधं जगत् सर्वं ब्रह्म तन्त्रं सदात्मकम् ।
हस्ताश्चत्वार एवं ते चतुर्भुज नमो नमः ॥ ३९ ॥

स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् ।
तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ४० ॥

द्वन्द्वं चरसि भक्तानां हृदि तेषां व्यवस्थितः ।
चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ ४१ ॥

जगति ब्रह्मणि स्थित्वा भोगान् भुङ्क्षे सुयोगगः ।
जगद्भिर्ब्रह्मभिस्ते तच्चेष्टितं ज्ञायते न च ॥ ४२ ॥

चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् ।
मूषको मूषकारुढ हेरम्बाय नमो नमः ॥ ४३ ॥

किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् ।
वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ ४४ ॥

इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह ।
वरं वृणु महाभाग चेद्धि दास्यामि दुर्लभम् ॥ ४५ ॥

त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।
मयि भक्तिकरं स्कन्द सर्वसिद्धिप्रदं तथा ॥ ४६ ॥

यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रयन्त्रितः ।
पठते शृण्वते नित्यं कार्तिकेय विशेषतः ॥ ४७ ॥

एवं गणेशवाक्यं वै श्रुत्वा हर्षसमन्वितः ।
जगाद गणपं वाक्यं कार्तिकेयः स योगवित् ॥ ४८ ॥

स्कन्द उवाच ।

किं वृणोमि गणेशान सर्वं भ्रान्तिमयं विभो ।
अतस्त्वदीयभक्तिं मे सुदृढां देहि विघ्नप ॥ ४९ ॥

जगाद गणराजः स ततस्तं भक्तवत्सलः ।
मदीया भक्तिरुग्रा ते भविष्यति सदाऽनघ ॥ ५० ॥

तारकाद्यान् महादैत्यान् त्वमेव च हनिष्यसि ।
यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ ५१ ॥

एवमुक्त्वान्तर्दधेऽसौ गणेशो भक्तमुत्तमम् ।
कार्तिकेयोऽभवत्तत्र संस्थितो गणपं स्मरन् ॥ ५२ ॥

ब्राह्मणैः स्थापयामास मूर्तिं गणपतेः पराम् ।
लक्षं विनायकं नाम्ना स चकार द्विजेरितः ॥ ५३ ॥

तस्य दर्शनमात्रेण वाञ्छितं लभते नरः ।
तत्रैव मरणे प्राप्ते ब्रह्मभूतः स जायते ॥ ५४ ॥

ततो जगाम स्वगृहं कार्तिकेयः प्रतापवान् ।
देवैः सह जघानाऽसौ तारकासुरमुल्बणम् ॥ ५५ ॥

हत्वा तारकदैत्यं स गणेशक्षेत्रगोऽभवत् ।
तत्र विघ्नेशमत्यन्तं भजते नित्यमादरात् ॥ ५६ ॥

इति स्कन्दस्य माहात्म्यं कथितं सर्वदं परम् ।
पठते शृण्वते वाऽपि ब्रह्मभूयकरं भवेत् ॥ ५७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेतृतीये खण्डे महोदरचरिते स्कन्दमाहात्म्यं नाम पञ्चमोऽध्यायः ॥

[[१३]]