॥ श्रीगणेशाय नमः ॥
[[८]]
मुद्गल उवाच ।
श्रुत्वा सूर्यचरित्रं ते गणेशभक्तिसंयुतम् ।
हृष्टास्तं वालखिल्या वै पप्रच्छुः पुनरादरात् ॥ १ ॥
वालखिल्या ऊचुः ।
भानो त्वया महच्चित्रं कथितं चेष्टितं प्रभो ।
तव वाक्यामृतेनैव सन्तृप्ता भृशमुत्तमम् ॥ २ ॥
अधुना ब्रूहि देवेश मोहपाशनिकृन्तनम् ।
गणेशचरितं येन मोहहीना भवन्ति च ॥ ३ ॥
अहो मोहस्य माहात्म्यं येन सञ्छादितो महान् ।
गणेशस्तेन सम्भ्रान्ता न विदुस्तं गजाननम् ॥ ४ ॥
मुद्गल उवाच ।
एवं पृष्टो महातेजा भानुस्तैः स महर्षिभिः ।
उवाच तान् प्रहृष्टात्मा गाणपत्यो महायशाः ॥ ५ ॥
भानुरुवाच ।
अत्र वः कथयिष्यामि इतिहासं पुराभवम् ।
मोहासुरचरित्रं यद्गणेशज्ञानसंयुतम् ॥ ६ ॥
कदाचित्तारको नाम दैत्योऽभूद्दारुणः खलः ।
ब्रह्मणो वरदानेन त्रैलोक्याधिपतिः स्वयम् ॥ ७ ॥
सर्वदेवगणास्तेन मुनयश्च प्रपीडिताः ।
वनेषु भयसन्त्रस्ता अवसन् दुःखभागिनः ॥ ८ ॥
ततो बहुगते काले देवाः सर्षिगणाः पुरा ।
शिवस्य ध्यानसंयुक्ताः शरणं पार्वतीं ययुः ॥ ९ ॥
शिववीर्यभवो देवः सेनाधीशो हनिष्यति ।
तारकं नात्र सन्देहो ज्ञात्वा तां तुष्टुवुः पराम् ॥ १० ॥
महादेवो वने गत्वा तपसे संस्थितोऽभवत् ।
तत्र देवगणैर्युक्ता पार्वती तं ययौ द्विजाः ॥ ११ ॥
दृष्ट्वा ध्यानस्थितं शम्भुं मोहार्थं तस्य सा सती ।
भिल्लीवेषं चकारैव ययौ तं शङ्कराश्रमम् ॥ १२ ॥
इतस्ततश्च बभ्राम भिल्लीरूपा गुणाधिका ।
पुष्पाणां ग्रहणे सक्ता महामोहप्रवर्धिनी ॥ १३ ॥
एतस्मिन्नन्तरे तत्र त्यक्त्वा ध्यानं शिवः स्थितः ।
तेन दृष्टा महाभागा रूपयौवनशालिनी ॥ १४ ॥
तां दृष्ट्वा सहसा शम्भुर्मोहितो मायया भृशम् ।
आदिमायां ययौ तत्र कामविह्वलमानसः ॥ १५ ॥
हावभावयुतां भिल्लीं दृष्ट्वा परममोहितः ।
तां धर्तुं स मनश्चक्रे तज्ज्ञात्वा साऽपलायत ॥ १६ ॥
पृष्ठलग्नः स्वयं साक्षाच्छङ्करो विह्वलो भृशम् ।
ततः सा यत्र तत्राऽस्य समीपे विचचार ह ॥ १७ ॥
एवं मुहूर्तमात्रं वै नग्नः शम्भुर्महर्षयः ।
बभ्राम तां प्रधर्तुं तु साऽस्य नो हस्तगाऽभवत् ॥ १८ ॥
ततो वीर्यं पपातास्य शिवस्य परमाद्भुतम् ।
भिल्ली सान्तर्दधे विप्राः शिवः शान्तो बभूव ह ॥ १९ ॥
तस्माच्छिवस्य वीर्याद्वै सम्भूतः पुरुषो महान् ।
मोहरूपो महोग्रः स चतुर्बाहुधरो बभौ ॥ २० ॥
वनेऽभूत् संस्थितस्तत्रैकाकी तेजस्विनां वरः ।
चारुरूपो महामानी सर्वावयवसंयुतः ॥ २१ ॥
स तु कन्दफलादीनि भक्षयामास यत्नतः ।
इतस्ततश्च बभ्राम गतो नानावनेषु वै ॥ २२ ॥
शिवस्तत्र समासीनो बभूव भृशदुःखितः ।
ध्यानेन सकलं ज्ञात्वा देवीकृतविचेष्टितम् ॥ २३ ॥
ततो क्रोधसमायुक्तः कामं सद्यो ददाह सः ।
स्वस्थानं प्रययौ शम्भुः पार्वतीं तां ददर्श ह ॥ २४ ॥
देवकार्यार्थमत्यन्तं पार्वत्या प्रार्थितः प्रभुः ।
कामं सस्मार शम्भुस्तं पुरोऽनङ्गं ददर्श सः ॥ २५ ॥
[[९]]
प्रणिपत्य महेशानं स्तुत्वा रुद्रं महायशाः ।
अवदद्देहसंयुक्तं मां कुरुष्व महेश्वर ॥ २६ ॥
कामस्य वचनं श्रुत्वा ददौ तस्मै सदाशिवः ।
एकाक्षरं गणेशस्य मन्त्रं तं विधिसंयुतम् ॥ २७ ॥
जगाद शङ्करः काममनेनाराधय प्रभुम् ।
गणेशं तेन तेऽभीष्टं भविष्यति न संशयः ॥ २८ ॥
नाशिकं स समागत्य सस्त्रीकश्च तताप ह ।
तपो गणपतिं ध्यायन् जपन् मन्त्रपरायणः ॥ २९ ॥
गतेषु वर्षसाहस्रेषु ययौ गणनायकः ।
तं कामं बोधयामास वरं वृणु हृदीप्सितम् ॥ ३० ॥
दृष्ट्वा कामो गणेशानमुत्थाय प्रणतोऽभवत् ।
तुष्टाव तं गणेशानं भक्तिनम्रात्मकन्धरः ॥ ३१ ॥
काम उवाच ।
गणेशाय नमस्तुभ्यं पाशाङ्कुशविधारिणे ।
दन्ताभयधरायैव मूषकध्वज ते नमः ॥ ३२ ॥
गजवक्त्राय देवाय शूर्पकर्णाय वै नमः ।
महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ ३३ ॥
सर्वाकाराय सर्वाय स्थूलसूक्ष्मादिभेदिने ।
गुणेशाय गुणानां ते चालकाय नमो नमः ॥ ३४ ॥
देहदेहिमयायैव प्रकृतेर्लयरूपिणे ।
विदेहाय स्वसंवेद्यपतये ते नमो नमः ॥ ३५ ॥
रजसा सृष्टिकर्त्रे ते सत्वतः पालकाय च ।
तमसा सर्वसंहर्त्रे कर्माकाराय ते नमः ॥ ३६ ॥
जगद्रूपाय वै तुभ्यं स्थावराय चराय च ।
अनाकाराय हेरम्बाय ब्रह्मपतये नमः ॥ ३७ ॥
वेदाद्यगम्यरूपाय योगेभ्यो योगदायक ।
किं स्तौमि त्वां गणाधीश अल्पज्ञोऽहं नमोस्तु ते ॥ ३८ ॥
अधुना मे वरं देहि गजानन दृढां पराम् ।
भक्तिं ते मे सुदेहं वै मां कुरुष्व महोदर ॥ ३९ ॥
एवमुक्त्वा नतोऽभूत् सस्त्रीकः कामः स तं द्विजाः ।
ततस्तं प्रत्युवाचाथ गणेशो भक्तवत्सलः ॥ ४० ॥
गणेश उवाच ।
मदीया भक्तिरुग्रा वै भविष्यति रतेः पते ।
शिवदग्धश्च ते देहस्तथा कर्तुं न शक्यते ॥ ४१ ॥
मदीयवरदानेन शिवः सर्वार्थवानभूत् ।
अतस्त्वां भिन्नदेहं वै हितायाऽहं करोमि ते ॥ ४२ ॥
यौवनं स्त्री च पुष्पाणि सुवासानि महामते ।
गानं मधुरसश्चैव मृदुलाण्डजशब्दकः ॥ ४३ ॥
उद्यानानि वसन्तश्च सुवासाश्चन्दनादयः ।
सङ्गो विषयसक्तानां नराणां गुह्यदर्शनम् ॥ ४४ ॥
वायुर्मृदुः सुवासश्च वस्त्राण्यपि नवानि वै ।
भूषणादिकमेवं ते देहा नाना कृता मया ॥ ४५ ॥
तैर्युतः शङ्करादींश्च जेष्यसि त्वं पुरा यथा ।
मनोभूः स्मृतिभूरेवं त्वन्नामानि भवन्तु वै ॥ ४६ ॥
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
दग्धमूले प्ररोहाणां कारकं प्रभविष्यति ॥ ४७ ॥
एवं गणेशवाक्यं स श्रुत्वा कामस्तमब्रवीत् ।
हितं सर्वं त्वया मे यत् कृतं नाथ विशेषतः ॥ ४८ ॥
तथापि पूर्ववद्देहं देहि ढुण्ढे नमोऽस्तु ते ।
दग्धोऽहं शङ्करेणैवानङ्गं रक्षस्व विघ्नप ॥ ४९ ॥
मुद्गल उवाच ।
कामस्य वचनं श्रुत्वा भक्तिभावेन यन्त्रितः ।
गणेशस्तमथोवाच तपसा तोषितं भृशम् ॥ ५० ॥
गणेश उवाच ।
त्वया त्वघटितं प्रोक्तं तथापि त्वत्सुभक्तितः ।
सन्तुष्टोऽहं प्रियं सर्वं करिष्यामि मनोभव ॥ ५१ ॥
यादवेषु स्वयं विष्णुः कृष्णो नाम्ना भविष्यति ।
लक्ष्मीर्वेषेण रुक्मिण्यास्तयोः पुत्रो भविष्यसि ॥ ५२ ॥
प्रद्युम्न इति विख्यातः सर्वमान्यः सुदेहभृत् ।
इयं ते वल्लभा तत्र भार्या देवी भविष्यति ॥ ५३ ॥
इत्युक्त्वा तं गणेशानः स्वानन्दस्थो बभूव ह ।
जगाम कामः सस्त्रीको पुनः क्षेत्रे मयूरके ॥ ५४ ॥
तत्र यात्राविधानेन पूजयामास विघ्नपम् ।
वासार्थं गणनाथस्य तपस्तत्र चकार सः ॥ ५५ ॥
वर्षेणैकेन सन्तुष्टस्तं ययौ विघ्ननायकः ।
पूजितश्च स्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥ ५६ ॥
जगाद कामस्तं देवं गणपं भक्तिसंयुतः ।
ज्ञात्वा नश्वररूपं यद्देहादिकमनुत्तमम् ॥ ५७ ॥
काम उवाच ।
भूस्वानन्दमिदं क्षेत्रं तत्र वासं करोम्यहम् ।
स्थानं देहि गणाधीश तव सेवार्थमेव मे ॥ ५८ ॥
अत्रैव मरणेऽनाथ ब्रह्मभूतत्वमादरात् ।
ददासि त्वं गणेशान अतो मां पालय प्रभो ॥ ५९ ॥
ततस्तं गणनाथः सः तथेति प्रत्युवाच ह ।
शक्तिं पश्चिमद्वारस्थां तदोवाच च विघ्नपः ॥ ६० ॥
त्वदीये वामभागे वै दक्षिणाङ्गे जगन्मयि ।
रतिं कामं कुरुष्व त्वं क्षेत्रेऽस्मिन् वासकारणात् ॥ ६१ ॥
तथेति तत्र सस्त्रीकः कृतः कामः स मायया ।
उवास क्षेत्रे सेवार्थं मयूरे गणपस्य सः ॥ ६२ ॥
तदादि सर्वमान्योऽयं कामो जातो महर्षयः ।
त्रैलोक्यविजयी सर्वं मोहयामास निर्भयः ॥ ६३ ॥
एतत् कामस्य यश्चित्रं चरित्रं संशृणोति वै ।
पठेद्वा तस्य नैवं स्यात् काममोहः कदाचन ॥ ६४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कामचरितं नाम चतुर्थोऽध्यायः ॥