॥ श्रीगणेशाय नमः ॥
सूर्य उवाच ।
ततो लोलार्कनामाऽहं काश्यां जातो महर्षयः ।
विस्मितो मानसेऽत्यन्तं किमाधारमिदं भवेत् ॥ १ ॥
अहमात्मा च सर्वेषामात्मनो मरणं कथम् ।
मृते मयि जगत् सर्वं केन जीवयुतं कृतम् ॥ २ ॥
अहं च जीवितः केन नाहमात्मा शरीरिणाम् ।
मोहयुक्ततया व्यर्थं गर्विष्ठः सम्भवामि वै ॥ ३ ॥
अतोऽहं काननं यास्ये त्यक्त्वा सर्वं विशेषतः ।
यदाधारं भवेद्विश्वं तं भजिष्यामि नित्यदा ॥ ४ ॥
निःसृतोऽहं गृहं त्यक्त्वा तत्र मां विधिरब्रवीत् ।
सान्त्वयित्वा स वेदानां वाक्यैः परमतत्त्ववित् ॥ ५ ॥
शृणु सूर्य रहस्यं यत् सर्वेभ्यः शान्तिदायकम् ।
भवितासि ततः शान्तः किमर्थं श्राम्यते मुधा ॥ ६ ॥
त्वमात्मा सर्वभूतानामात्माधारमिदं स्मृतम् ।
आत्मनो मरणं नास्ति ब्रह्मवेदे वदन्ति भोः ॥ ७ ॥
ब्रह्मणां पतिरूपेण संस्थितो गणनायकः ।
तस्मान्नानाविधानीह ब्रह्माणि प्रोद्भवन्ति वै ॥ ८ ॥
कश्यपात्मज सर्वत्र योगेन च स तिष्ठति ।
तस्मिन् स्थिते कथं विश्वं तन्नश्यति वदस्व माम् ॥ ९ ॥
त्वं कश्यपस्य पुत्रत्वं प्राप्तश्च वरदानतः ।
तत्राज्ञानावृतत्वेन पूजितो न गणाधिपः ॥ १० ॥
तेन विघ्नः समुत्पन्नो विपरीतमयः परः ।
आत्मनो मरणं पश्य तव प्राप्तं भजस्व तम् ॥ ११ ॥
तेन सर्वं शुभं पूर्णं भविष्यति रवे पुनः ।
योगशान्तिधरस्त्वं वै गाणपत्यो भविष्यसि ॥ १२ ॥
अर्यमोवाच ।
इति श्रुत्वा विधेर्वाक्यं विस्मितोऽहं वदामि तत् ।
ज्ञानार्थं गणराजस्य शृणुध्वं मे विचेष्टितम् ॥ १३ ॥
अहो ब्रह्मंस्त्वया स्वामिन् बोधितोऽहं विशेषतः ।
संशयं तत्र जातं मे छेदयस्व पितामह ॥ १४ ॥
योगशान्तिधरः पूर्णो गणेशः परिकीर्तितः ।
करोति स कथं विघ्नं ?विकारीव वदस्व मे ॥ १५ ॥
ब्रह्मोवाच ।
शृणु सूर्य महाप्राज्ञ वचः संशयनाशकम् ।
गणेशभक्तस्त्वं येन भविताऽसि महाप्रभो ॥ १६ ॥
योगशान्तिमयः पूर्णो गणेशश्चैव निश्चितम् ।
तेन नानाविधं विश्वं रचितं ब्रह्म मानद ॥ १७ ॥
तत्र मायामयो मोहः सर्वत्र भ्रान्तिदायकः ।
तेन भ्रान्तिसमायुक्ते जगद्ब्रह्म बभूवतुः ॥ १८ ॥
तयोर्मोहविनाशार्थं योगमार्गं गजाननः ।
Pageखं. ३ अ. पान चकार सर्वशान्तेभ्यः शान्तिदं योगसेवया ॥ १९ ॥
तत्र तस्य कलांशा ये ब्रह्माकाराः शिवादयः ।
ब्रह्मभावेन गर्वेणाऽभवन् स्वब्रह्मणि स्थिताः ॥ २० ॥
तेभ्यः शान्तिप्रदानार्थं विघ्नदाता गजाननः ।
भवते तेन ते सर्वे गर्वहीना भवन्ति वै ॥ २१ ॥
गर्वहीनस्वभावेन योगमिच्छन्ति शाश्वतम् ।
मूलभूतं च सर्वेषां जगतां ब्रह्मणां रवे ॥ २२ ॥
साधयित्वा महायोगं शान्तिरूपा भवन्ति ते ।
तत्र विघ्नहरो ढुण्ढिस्तेषां भवति सर्वदा ॥ २३ ॥
ततो विघ्नेश्वरं देवं भजन्ते शान्तिधारकाः ।
योगशान्तिमयं पूर्णं भक्तिभावसमन्विताः ॥ २४ ॥
एतदर्थं गणेशानः कुरुते विघ्नमुत्तमम् ।
देवर्षीणां च साधूनां दुष्टानां नैव तादृशम् ॥ २५ ॥
ब्रह्मणो गिरमाकर्ण्य प्रसन्नः सविता पुनः ।
विधिं जगाद योगार्थं सर्वज्ञं भक्तिसंयुतः ॥ २६ ॥
सूर्य उवाच ।
वद ब्रह्मन् गणेशस्य प्राप्त्यर्थं योगमुत्तमम् ।
साधयित्वा गणेशोऽहं भविष्यामि विधे यतः ॥ २७ ॥
ब्रह्मोवाच ।
सम्यक् पृष्टं त्वया वत्स त्वं जानासि विशेषतः ।
अपि तत् कश्यपाज्जातः सर्वं तेन सुविस्मृतम् ॥ २८ ॥
अधुना शृणु सर्वं त्वं गाणेशं ज्ञानमुत्तमम् ।
साधयित्वा गणेशानः कालेन प्रभविष्यसि ॥ २९ ॥
मायाशक्तिरसद्रूपा भेदाकारा महामते ।
जानीहि तत्र सर्वात्मा त्वं च सद्रूप उच्यसे ॥ ३० ॥
तयोः स्रष्टा सदानन्दो विष्णुः साम्यप्रधारकः ।
त्रिभिर्हीनः शिवो व्यक्तस्त्रिभिर्जानीहि संयुतः ॥ ३१ ॥
चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः ।
स्वानन्दान्न परब्रह्म संयोगात्मकमुच्यते ॥ ३२ ॥
स एव गणराजस्तु मायाखेलक उच्यते ।
संयोगाभेदभावेन जगति ब्रह्मणि स्थितः ॥ ३३ ॥
अयोगे मायया हीनो गणेशो ब्रह्मवाचकः ।
सर्वसंयोगहीनश्चासमाधिसुखदायकः ॥ ३४ ॥
संयोगायोगयोर्योगे गणेशः शान्तिवाचकः ।
योगशान्तिप्रदः सोऽपि शान्तीनां शान्तिरुच्यते ॥ ३५ ॥
मनोवाणीमयं सर्वं गकाराक्षरवाचकम् ।
मनोवाणीविहीनं यत् तत् जानीहि णकारजम् ॥ ३६ ॥
तयोः स्वामी गणेशानो ब्रह्मणां ब्रह्म उच्यते ।
सामवेदे रवे पश्य तं भजस्व विधानतः ॥ ३७ ॥
द्विविधा तस्य माया वै सिद्धिर्बुद्धिश्च कथ्यते ।
ताभ्यां युक्तः खेलति स नानार्थे गणनायकः ॥ ३८ ॥
चित्तं पञ्चविधं पुत्र बुद्धिरूपं न संशयः ।
उच्यते सिद्धिरैश्वर्यं भोगभेदाय पञ्चसु ॥ ३९ ॥
तयोर्बिम्बिस्वरूपं यज्जहि तद् योगसेवया ।
शान्तियोगधरः पुत्र भविष्यसि न संशयः ॥ ४० ॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् ।
तस्मै सूर्याय पूर्णं स विधियुक्तं पितामहः ॥ ४१ ॥
विधिं प्रणम्य च वनं ययौ भानुः सुशोभनम् ।
तताप तप उग्रं स निराहारपरायणः ॥ ४२ ॥
जजाप हृदि सन्ध्याय गणेशं मन्त्रमुत्तमम् ।
एवं वर्षसहस्रेण प्रसन्नोऽभूद्गजाननः ॥ ४३ ॥
तं ययौ भक्तिभावेन सुप्रीतः सूर्यमादरात् ।
स्वगणैः सेवितः साक्षाद्बोधयामास विघ्नपः ॥ ४४ ॥
[[७]]
गणेश उवाच ।
भो सूर्य वृणु मत्तस्त्वं वरान्नानाविधान् परान् ।
तान् दास्यामि महाभाग तपसा तोषितस्त्वया ॥ ४५ ॥
श्रुत्वा गणेशवाणीं स सविता बोधसंयुतः ।
दृष्ट्वा गणपतिं भक्त्या समुत्तस्थौ भ्रमान्वितः ॥ ४६ ॥
तं प्रणम्यापूजयत् स यथाविधि गजाननम् ।
तुष्टाव सुमना भानुः पुरो बद्धाञ्जलिः स्थितः ॥ ४७ ॥
भानुरुवाच ।
नमस्ते विघ्ननाथाय विघ्नकर्त्रे दुरात्मनाम् ।
भक्तानां विघ्नहर्त्रे ते गणेशाय नमो नमः ॥ ४८ ॥
चतुर्बाहुधरायैव मूषकवाहनाय ते ।
नागयज्ञोपवीताय नाभिशेषाय ते नमः ॥ ४९ ॥
महोदराय देवाय सिद्धिबुद्धियुताय ते ।
शूर्पकर्णाय सर्वाय चैकदन्ताय वै नमः ॥ ५० ॥
गजवक्त्रधरायैव भालचन्द्राय ते नमः ।
चिन्तामणिधरायैव हृदये ते नमो नमः ॥ ५१ ॥
रक्ताम्बराय रक्ताय नानाभूषणशालिने ।
अमेयाय नमस्तुभ्यं नानालीलाकराय च ॥ ५२ ॥
अनाधाराय सर्वेषामाधाराय च ते नमः ।
स्वानन्दवासिने तुभ्यमिक्षुसागरखेलिने ॥ ५३ ॥
हेरम्बाय नमस्तुभ्यं लम्बोदर नमो नमः ।
जगतां ब्रह्मणां पात्रे ब्रह्माधीशाय ते नमः ॥ ५४ ॥
निराकाराय सर्वेश पालकाय नमो नमः ।
साकाराय च भो ढुण्ढे ताभ्यां योगाय ते नमः ॥ ५५ ॥
योगशान्तिप्रदात्रे ते योगशान्तिमयाय च ।
योगिभ्यो योगदात्रे ते योगेशाय नमो नमः ॥ ५६ ॥
एवं स्तुवति सूर्ये च भक्तिरससमन्विते ।
अकस्माद्बाष्पकण्ठः स सरोमाञ्चो बभूव ह ॥ ५७ ॥
पुलकाङ्कितदेहं तं दृष्ट्वा खिन्नमिव स्थितम् ।
जगाद गणनाथो वै सूर्यं भक्तिरसप्लुतम् ॥ ५८ ॥
गणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
भुक्तिमुक्तिप्रदं भानो मम प्रीतिविवर्धनम् ॥ ५९ ॥
यद्यदिच्छसि तत्तद्वै सफलं प्रभविष्यति ।
पठतां शृण्वतां चैव सदानन्दप्रवर्धनम् ॥ ६० ॥
त्वं तु मत्तो वरान् ब्रूहि तान् दास्यामि न संशयः ।
तपसा भावितोऽत्यन्तं भृशं स्तोत्रेण तोषितः ॥ ६१ ॥
एवमुक्तो गणेशेन भानुर्भक्तिपरायणः ।
उवाच तं गणाधीशं हर्षनिर्भरमानसः ॥ ६२ ॥
सूर्य उवाच ।
तुष्टोऽसि गणनाथ त्वं यदि दास्यसि मे वरम् ।
तदा भक्तिं दृढां ते वै देहि नाथ नमोऽस्तु ते ॥ ६३ ॥
अन्यं यदा स्मरामि त्वां तदा दर्शय रूपकम् ।
यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो ॥ ६४ ॥
ओमित्युक्त्वा गणेशानस्तत्रैवान्तरधीयत ।
सूर्यः खिन्न इवातिष्ठत्तत्रैवं वालखिल्यकाः ॥ ६५ ॥
ततस्तेन गणेशस्य स्थापिता मूर्तिरादरात् ।
ब्राह्मणैः सह भानुस्तां पूजयामास भक्तितः ॥ ६६ ॥
ततः स्वगृहमागत्य मूर्तिं कृत्वाऽहमादरात् ।
पूजयामि सदा देवं गणेशानं भजामि तम् ॥ ६७ ॥
एतत् सर्वं मदीयं वश्चेष्टितं कथितं द्विजाः ।
वालखिल्या महाभागाः किं भूयः श्रोतुमिच्छथ ॥ ६८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सूर्यवरप्रदानं नाम तृतीयोऽध्यायः ॥