॥ श्रीगणेशाय नमः ॥
वालखिल्या ऊचुः ।
वद सूर्य विशेषेण ब्रह्मणा कथितं महत् ।
गणेशस्य चरित्रं ते श्रवणे लालसा प्रभो ॥ १ ॥
सूर्य उवाच ।
पुराऽहमात्मरूपे च संस्थितः सर्वलोकगः ।
गणेशध्यानसन्निष्ठो योगीन्द्राणां गुरुः स्वयम् ॥ २ ॥
ब्रह्मणा सृष्टमत्यन्तं त्रैलोक्यं सचराचरम् ।
कश्यपस्तत्र मुख्यो वै प्रजापतिसमोऽभवत् ॥ ३ ॥
तेन मे वै तपस्तप्तं वर्षाणामयुतं द्विजाः ।
आकृष्णेनेति मन्त्रेण ध्याननिष्ठो बभूव ह ॥ ४ ॥
ततस्तं वरदाताऽहं गतस्तस्याश्रमे पुरा ।
स मां दृष्ट्वा नमस्कृत्याऽपूजयद्भक्तिसंयुतः ॥ ५ ॥
ततस्तुष्टाव मां विप्रः प्रबद्धकरसम्पुटः ।
वरदं सर्वभावेन भक्तिनम्रात्मकन्धरः ॥ ६ ॥
कश्यप उवाच ।
नमस्ते जगदाधार आत्मने परमात्मने ।
सूर्याय त्रिविधायैव त्रिकालज्ञाय ते नमः ॥ ७ ॥
भेदाभेदविहीनाय नानाभेदधराय ते ।
अनाकाराय देवाय शाश्वताय नमो नमः ॥ ८ ॥
अमेयशक्तये तुभ्यं कर्माधाराय भानवे ।
सर्वकर्ममयायैव त्रिरूपाय नमो नमः ॥ ९ ॥
अमृताय सदा ब्रह्मनिष्ठाय त्वन्तरात्मने ।
अर्यम्णे रवये चैव हरिदश्वाय ते नमः ॥ १० ॥
आदिमध्यान्तहीनाय तदाधाराय ते नमः ।
अनन्तविभवायैव तेजोराशे नमो नमः ॥ ११ ॥
दीननाथाय सर्वाय दिनानां पतये नमः ।
नमो हन्त्रे स्वभक्तानां पालकाय नमो नमः ॥ १२ ॥
भक्तिमुक्तिप्रदायैव नानाखेलकराय च ।
नमो नमः परेशाय पुरुषाय दिवस्पते ॥ १३ ॥
एकस्मै चाद्वितीयाय मायाधाराय मायिने ।
सञ्ज्ञापते नमस्तुभ्यं रक्ष मां शरणागतम् ॥ १४ ॥
आत्माकारं च सर्वत्र किं स्तौमि त्वां दिवाकरम् ।
समर्था नाभवन् वेदा अतस्त्वां प्रणमामहे ॥ १५ ॥
देहि मे परमेशान भक्तिं ते चरणाम्बुजे ।
अन्यं वरं ययाचेऽहं त्वं मे पुत्रो भव प्रभो ॥ १६ ॥
सूर्य उवाच ।
एवं वदन्तमानन्दयुक्तं मुनिवरं द्विजाः ।
अवदं तं प्रसन्नोऽहं भावयुक्तं तपस्विनम् ॥ १७ ॥
तव पुत्रो भविष्यामि द्वादशादित्यरूपवान् ।
मदीया भक्तिरुग्रा ते भविष्यति महामुने ॥ १८ ॥
यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् ।
भवामि स्मरणेनाऽहं प्रत्यक्षस्ते पुरो मुने ॥ १९ ॥
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
भुक्तिं मुक्तिं प्रदास्यामि मुने स्तोत्रेण तोषितः ॥ २० ॥
एवमुक्त्वा वालखिल्याः सौरलोके गतोऽभवम् ।
अन्तर्धाय स्वमात्मानं सोऽपि सम्मुदितोऽभवत् ॥ २१ ॥
अदित्यापि तथा तप्तं तपो मे परमाद्भुतम् ।
तयाऽपीदं च विप्रेन्द्रा याचितं तन्मया कृतम् ॥ २२ ॥
अहं पुत्रस्य भावेन कश्यपाज्जठरे गतः ।
अदित्याश्च सुकाले सा सुषुवे मां महर्षयः ॥ २३ ॥
जातकर्मादिकं सर्वं चकार मुनिसत्तमः ।
काले मौञ्ज्यादिकं कर्म वेदाध्ययनमादिशत् ॥ २४ ॥
तथा तताप पुत्र्यर्थं विश्वकर्मा तपो द्विजाः ।
सञ्ज्ञाऽग्रे भविता पुत्री कर्मरूपा सुसिद्धिदा ॥ २५ ॥
तया तस्मै वरो दत्तः साऽपि पुत्री बभूव ह ।
मह्यं ततस्तेन भावेन दत्ता विश्वकर्मणा ॥ २६ ॥
अहं च ब्रह्मणा तत्राभिषिक्तो ज्योतिषां तथा ।
ग्रहाणां कर्मणां राज्ये ततोऽहं मुदितोऽभवम् ॥ २७ ॥
सदाधारमिदं सर्वं त्रैलोक्यं सचराचरम् ।
वृष्ट्यादिना तथा काले तत्करोमि स्म तर्पितम् ॥ २८ ॥
कर्मणां फलदाताऽहं कर्माधारः प्रकीर्तितः ।
वेदे सर्वजनानामन्तरात्मा जगदात्मनाम् ॥ २९ ॥
ततो बहौ गते कालेऽभवं मनसि गर्वितः ।
निराधारोऽहमेको वै मदाधारमिदं बभौ ॥ ३० ॥
कश्यपस्य सुतोऽहं वै जातस्तत्र मया द्विजाः ।
गणेशाराधनं किञ्चिन्न कृतं कर्मधारिणा ॥ ३१ ॥
[[४]]
एवं क्रमेण तत्राऽपि बहुः कालो गतोऽभवत् ।
ततोऽकस्माच्च मे विघ्नः समुत्पन्नः सुदारुणः ॥ ३२ ॥
माली सुमालिको दैत्यौ तेपतुस्तप उत्तमम् ।
दिव्यवर्षसहस्राणि शिवः सन्तोषितोऽभवत् ॥ ३३ ॥
वरं ददौ स ताभ्यां यद्याचितं तादृशं परम् ।
सूर्यतेजःसमं दिव्यं विमानं प्रापतुस्तदा ॥ ३४ ॥
ताभ्यां विमाननिष्ठाभ्यां जितं सर्वं चराचरम् ।
राज्यं तौ चक्रतुर्दैत्यौ त्रिलोकस्य महर्षयः ॥ ३५ ॥
ततो बहौ गते काले धर्षयन्तौ च मां द्विजाः ।
विमाने संस्थितौ दैत्यौ जग्मतुर्दिवि भानुवत् ॥ ३६ ॥
विमानतेजसा सर्वं व्याप्तं त्र्यैलोक्यमण्डलम् ।
रात्रिलोपं च सर्वत्र चक्रतुः परमाद्भुतौ ॥ ३७ ॥
अहमस्तङ्गतो दैत्यौ विमाने तत्र संस्थितौ ।
उदये समनुप्राप्तौ ततश्च दिवसोऽभवत् ॥ ३८ ॥
एवं मां तौ निरर्थं वै चक्रतुर्दैत्यपुङ्गवौ ।
अर्कतेजःसमानेन विमानेन महौजसौ ॥ ३९ ॥
अहं सङ्क्षुभितोऽत्यन्तं जातस्तदपि भो द्विजाः ।
असहे वरदानस्य बलं ज्ञात्वा विशेषतः ॥ ४० ॥
एवं सप्त गतास्तत्र दिवसास्तदपि द्विजाः ।
न समे संस्थितौ दैत्यौ लोकाः सर्वे सुविस्मताः ॥ ४१ ॥
कर्मलोपश्च सर्वत्र भ्रमाज्जातो महर्षयः ।
तेजसा दग्धरूपा वै पृथ्वी जाता तथा जनाः ॥ ४२ ॥
ततोऽहं क्षुभितोऽत्यन्तं गर्वयुक्तः स्वतेजसा ।
ज्वालयामि विमानं स्म दैत्यौ भूमौ मुमूर्च्छतुः ॥ ४३ ॥
दग्धौ तेजःसमूहेन मदीयेन ततः शिवः ।
आययौ सहसा क्रुद्धः स्मृतस्ताभ्यां विशेषतः ॥ ४४ ॥
त्रिशूलेन मदीयं वै शिरश्छिन्नं शिवेन च ।
पतितोऽहं ततः काश्यां लुलितः स मृतोऽभवम् ॥ ४५ ॥
ततः सर्वं जगत् क्षुब्धं सूर्यहीनतया द्विजाः ।
तद् दृष्ट्वा परमाश्चर्यं ययुस्तत्र महर्षयः ॥ ४६ ॥
देवाः सर्वे भयोद्विग्ना विष्णुब्रह्मादयो ययुः ।
शङ्करं सान्त्वयामासुर्नानायत्नैः सुरर्षयः ॥ ४७ ॥
ततः शिवं समूचुस्ते किं कृतं वृषभध्वज ।
सूर्यं हत्वा सदात्मानं जगद्धारयसे कथम् ॥ ४८ ॥
त्वं कालरूपभावेन तमोयुक्तः सदाशिव ।
अकाले विश्वसंहारे वर्तसे किं महेश्वर ॥ ४९ ॥
तेषां वचनमाकर्ण्य शङ्करः शोकसंयुतः ।
जगाद तान् महादेवान् दैवेनेदं सुकारितम् ॥ ५० ॥
निमित्तमात्रं भावेन मां कृत्वा च सुरर्षयः ।
विघ्नराजेन विघ्नोऽयं दारुणः सम्प्रकाशितः ॥ ५१ ॥
मह्यं पुरा गणेशानो वरदाता बभूव ह ।
स्मृतमात्रस्तवाग्रेऽहं साक्षाद्वै सम्भवामि च ॥ ५२ ॥
अतोऽहं शरणं तं च गमिष्याम्यधुना विभुम् ।
जीवयिष्यामि भानुं तं तेजसा गणपस्य च ॥ ५३ ॥
इत्युक्त्वा तं हृदि ध्यात्वा मनसाऽपूजयच्च सः ।
अयाचत विशेषेण जीवनाय रवेरपि ॥ ५४ ॥
जगज्जीवनदाताऽयं सूर्यः स्वामिन् मया हतः ।
Pageखं. अ. ३ पान तं जीवय गणेशान नोचेद्देहं त्यजाम्यहम् ॥ ५५ ॥
इति प्रार्थयमानं तं ज्ञात्वा शम्भुं गजाननः ।
आत्मनामात्मरूपः स जीवयामास तं रविम् ॥ ५६ ॥
उत्थितं कश्यपस्यैवं पुत्रं दृष्ट्वा सुरर्षयः ।
हर्षितास्तं जयेति स्म गजानन जगुर्मुदा ॥ ५७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते सूर्यसञ्जीवनदानं नाम द्वितीयोऽध्यायः ॥