॥ श्रीगणेशाय नमः ॥
[[१]]
शौनक उवाच ।
सूत सर्वार्थतत्त्वज्ञ तारितोऽहं त्वया द्विज ।
गणेशचरितं पुण्यं श्रावितं परमाद्भुतम् ॥ १ ॥
एकदन्तस्य माहात्म्यं श्रुतं त्वत्तो द्विजोत्तम ।
यथा नरः सुधापानात् न तृप्तोऽहं तथाऽभवम् ॥ २ ॥
महोदरस्य माहात्म्यमधुना वद विस्तरात् ।
कीदृशोऽयं गणेशस्तु कति तस्यावतारकाः ॥ ३ ॥
कुरुक्षेत्रं महत्तस्य कस्माद्भूमौ समागतः ।
इत्यादि सर्वमत्यन्तं माहात्म्यं वद तस्य मे ॥ ४ ॥
सूत उवाच ।
शृणु शौनक विपेन्द्र धन्योऽस्यत्र न संशयः ।
विवर्धयसि ढुण्ढेस्त्वं रहस्यं परमाद्भुतम् ॥ ५ ॥
अतोऽहं हर्षितः सर्वं कथयिष्यामि विस्तरात् ।
महोदरस्य माहात्म्यं यथा व्यासाच्छ्रुतं मया ॥ ६ ॥
दक्षेणाऽपि तथा पृष्टं यथा त्वं मां प्रपृच्छसि ।
मुद्गलेन यथा प्रोक्तं तथैव त्वां ब्रवीम्यहम् ॥ ७ ॥
दक्ष उवाच ।
त्वया मुद्गल योगीन्द्र तारितोऽहं विशेषतः ।
मङ्गलायतनां पूर्णां कथां वदसि मानद ॥ ८ ॥
अधुना वद मे ब्रह्मन् महोदरचरित्रकम् ।
विस्तरेण महाभाग भवबन्धविमोचनम् ॥ ९ ॥
मुद्गल उवाच ।
धन्योऽसि दक्ष येन त्वं गणेशामृतसत्कथाम् ।
भावयुक्तश्च पिबसि सङ्क्षेपेण ब्रवीमि ते ॥ १० ॥
महोदरस्य माहात्म्यं विस्तरेणैव वर्णितुम् ।
भुवनेष्वर्हति च कः सर्वसिद्धिप्रदायकम् ॥ ११ ॥
एवमेव पुरा पृष्टो वालखिल्यैर्महात्मभिः ।
सूर्यस्तानब्रवीद्यच्च तदेव शृणु यत्नतः ॥ १२ ॥
दक्ष उवाच ।
कथं स वालखिल्यैश्व पृष्टो भानुर्महायशाः ।
तत्सर्वं विस्तरेणैव वक्तुमर्हसि मुद्गल ॥ १३ ॥
मुद्गल उवाच ।
रथस्थं भास्करं नित्यं महर्षय उपासते ।
वालखिल्या महाभागा भक्तियुक्तेन चेतसा ॥ १४ ॥
तत्र सूर्यं गणेशस्य कीर्तने निरतं मुदा ।
दृष्ट्वा पप्रच्छुरादित्यं विस्मिता वालखिल्यकाः ॥ १५ ॥
भानो त्वं ब्रह्मरूपश्च वेदेषु प्रतिपादितः ।
एक एवाद्वितीयाख्योऽमृतात्मा नात्र संशयः ॥ १६ ॥
त्वदीयभजनेनैव सिद्धाः परमयोगिनः ।
विष्णुमुख्याः सुरेशाना भवन्ति विविधा जनाः ॥ १७ ॥
कर्मणां मूलरूपेण सगुणस्त्वं विभासि वै ।
ज्ञानरूपेण सर्वत्र निर्गुणोऽसि दिवाकर ॥ १८ ॥
त्वत्तः परतरं नास्ति वेदादिषु विशेषतः ।
तदपि त्वं विशेषेण भजसे गणनायकम् ॥ १९ ॥
कोऽसौ गणेशनामा वै तं कथं भजसे वद ।
मोहयुक्ता वयं जातास्तव दृष्ट्वा चिकीर्षितम् ॥ २० ॥
अतो नस्तेजसा नाथ वद तत्त्वं यथातथम् ।
कस्माद्भ्रामयसे सर्वान् गणेशस्तवनेन वै ॥ २१ ॥
मुद्गल उवाच ।
इति पृष्टो महातेजाः सूर्य आत्मा शरीरिणाम् ।
जगाद सकलं तेभ्यस्तच्छृणु त्वं प्रजापते ॥ २२ ॥
सूर्य उवाच ।
वालखिल्या महाभागाः शृणुध्वं सर्वसम्मताः ।
चरितं गणनाथस्य भविष्यथ च योगिनः ॥ २३ ॥
अहमात्मा च वेदेषु कथितो नात्र संशयः ।
तत्र ज्ञानं वो वदामि भ्रमनाशकरं महत् ॥ २४ ॥
असत्यं ब्रह्म यत् प्रोक्तं तत्राहं जीवधारकः ।
एक एवाद्वितीयश्च सत्यरूपो महर्षयः ॥ २५ ॥
[[२]]
वेदादिभावभिन्नेष्वात्माकारेण व्यवस्थितः ।
सत्यासत्य इति द्वन्द्वं ज्ञातव्यं विबुधोत्तमैः ॥ २६ ॥
तयोरभेदभावे यत् समरूपं परात्परम् ।
आनन्द उभयानन्दाद्ब्रह्म यद्विष्णुरुच्यते ॥ २७ ॥
समानन्दात्तुरीयं यद्ब्रह्माव्यक्तस्वरूपकम् ।
सर्वेषां नेति कर्ताऽसौ शङ्करश्च प्रकथ्यते ॥ २८ ॥
चतुर्णां योगकर्ताऽसौ स्वानन्दः परिकीर्तितः ।
सर्वसंयोगरूपं तद्ब्रह्म वेदेषु कथ्यते ॥ २९ ॥
स्वपदान्न परो योगः संयोगात्मक उच्यते ।
स एव गणनाथश्च मायायुक्तः प्रकथ्यते ॥ ३० ॥
मायया सर्वभावेषु संयोगाभेदतः स्वयम् ।
तिष्ठति ब्रह्म विप्रेशास्तेन तन्मायया युतम् ॥ ३१ ॥
अयोगश्च परः प्रोक्तः संयोगान्नात्र संशयः ।
निर्मायिकमिदं ब्रह्म वेदे चैव हि कथ्यते ॥ ३२ ॥
तत्र केषां न संयोगस्तस्य केष्वपि नो भवेत् ।
अयोगस्तेन नामाऽभूदभिन्नोऽपि महर्षयः ॥ ३३ ॥
संयोगायोगयोर्योगे गणेशो योगवाचकः ।
शान्तिदो ब्रह्मभावेषु ब्रह्मणस्पतिरुच्यते ॥ ३४ ॥
सर्वेषां ब्रह्मणां विप्राः पतिस्तेन प्रकीर्तितः ।
गणेशस्तं सदा भक्तियुक्तोऽहं प्रभजामि हि ॥ ३५ ॥
गणः समूहरूपश्च धातुरुक्तो मनीषिभिः ।
बाह्यान्तरादियोगे वै समूहो जायते द्विजाः ॥ ३६ ॥
तेनाऽयं गणराजोऽभूद्ब्रह्मरूपा गणा मताः ।
तेषां स्वामी न सन्देहस्तं भजेऽहं विशेषतः ॥ ३७ ॥
आत्माकारं च यद्ब्रह्म तदेवैकगणात्मकम् ।
सोऽहं स्वामिनमत्यन्तं भजे भक्तिपरिप्लुतः ॥ ३८ ॥
मुद्गल उवाच ।
सूर्यस्य वचनं श्रुत्वा वालखिल्या महर्षयः ।
ऊचुस्तं विस्मिताः सर्वे प्रबद्धकरसम्पुटाः ॥ ३९ ॥
वालखिल्या ऊचुः ।
रवे गणेशमाहात्म्यं विस्तराद्वद योगदम् ।
येन तत्त्वार्थविज्ञाने भवामस्तस्य कौशलाः ॥ ४० ॥
रविरुवाच ।
शृणुध्वं मुनयः सर्वे कथां सकलसिद्धिदाम् ।
ब्रह्मणा कथिता मे या सर्वपापप्रणाशिनी ॥ ४१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रविवालखिल्यप्रश्नवर्णनं नाम प्रथमोऽध्यायः ॥