॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
एकदन्तस्य यत् क्षेत्रं सङ्क्षेपेण मया श्रुतम् ।
यात्रादि विस्तरेणैव कथयस्व महामुने ॥ १ ॥
मुद्गल उवाच ।
अग्निकोणे दिशां प्रान्ते स्वस्वखण्डेषु मानद ।
एकदन्तस्य च क्षेत्रं ज्ञातव्यं जलधेस्तटे ॥ २ ॥
दश योजनविस्तारं समन्तात्तत्र मध्यगः ।
एकदन्तो गणेशानः पूज्यते सिद्धसाधकैः ॥ ३ ॥
तद्वामाङ्गे स्वयं सिद्धिर्दक्षिणाङ्गे प्रजापते ।
बुद्धिश्च मूषकस्तस्य समीपे संस्थितः प्रभोः ॥ ४ ॥
सिद्धयोऽष्टौ पुरस्तस्य संस्थिता भक्तिकारिकाः ।
वामे देवादयः सर्वे भक्त्या तिष्ठन्ति संयुताः ॥ ५ ॥
दक्षिणाङ्गे च वेदादि शास्त्राणि प्रस्तुवन्ति तम् ।
पृष्ठे काश्यादि क्षेत्राणि तीर्थानि च भजन्ति तम् ॥ ६ ॥
श्रेष्ठस्वरूपकाः संस्थाः सर्वे त्रिभुवनेषु ये ।
ते क्षेत्रवासिनो भूत्वा भजन्ते त्वेकदन्तकम् ॥ ७ ॥
समुद्रे स्नानकर्तारः स्वस्वनाम्नाङ्कितेषु वै ।
तीर्थेषु सूक्ष्मरूपेषु सूक्ष्मरूपधराः सदा ॥ ८ ॥
तत्रैकदन्ततीर्थं वै सर्वलोकेषु विश्रुतम् ।
दर्शनात् सर्वपापघ्नं भुक्तिमुक्तिप्रदं भवेत् ॥ ९ ॥
भाद्रशुक्लचतुर्थ्यां महोत्सवस्तत्र वर्तते ।
यात्रार्थं सर्वलोकश्च त्रिलोकस्था व्रजन्ति तम् ॥ १० ॥
[[१५६]]
ब्रह्मभूयकरं क्षेत्रं गाणेशं शास्त्रसम्मतम् ।
मरणे तत्र सम्प्राप्ते स्वानन्दे वसतिर्भवेत् ॥ ११ ॥
सङ्क्षेपेण मया प्रोक्तं यत्क्षेत्रस्य यशोऽमलम् ।
अयुतायुतवर्षैश्च विस्तारे कः क्षमो भवेत् ॥ १२ ॥
एतच्चरित्रमाद्यं वै कथितं ते महामते ।
एकदन्तस्य माहात्म्यं सङ्क्षेपेण तथा मया ॥ १३ ॥
विस्तरेण न शेषोऽपि ब्रह्मा विष्णुर्महेश्वरः ।
शुको नैव समर्थश्च भवेत् कथयितुं कदा ॥ १४ ॥
य एतदेकदन्तस्य चरित्रं सर्वसिद्धिदम् ।
शृणुयाच्छ्रावयेद्वापि पठेत् स लभतेऽखिलम् ॥ १५ ॥
पुत्रपौत्रादिकं सर्वं धनधान्यसमन्वितम् ।
कलत्रं सुखदं जन्तुर्लभते नात्र संशयः ॥ १६ ॥
अनेन भावसंयुक्त एकदन्तं प्रजापते ।
नित्यं स्तुयात् स एवैकदन्तरूपो धरातले ॥ १७ ॥
तस्य दर्शनमात्रेण कृतकृत्या भवन्ति च ।
देवादयो न सन्देहो ब्रह्माकारस्वरूपिणः ॥ १८ ॥
श्रवणेनैव खण्डस्य कृतकृत्यो नरो भवेत् ।
नारी वा पशुरूपो वा निश्चितं मुनिभिः पुरा ॥ १९ ॥
सर्वतीर्थेषु यः स्नायात् सर्वदानं करोति यः ।
तपांसि यस्तपेन्नित्यं यात्राः सर्वाः करोति यः ॥ २० ॥
इष्टापूर्तादिकं सर्वं कुरुते भक्तिसंयुतः ।
तेभ्यः संश्रवणात् पुण्यं लभेदस्य शताधिकम् ॥ २१ ॥
धर्मार्थकाममोक्षान् वै लभते श्रवणेन च ।
खण्डस्यास्य न सन्देहो ब्रह्मभूतो भवेन्नरः ॥ २२ ॥
यद्यदिच्छति तत्तद्वै सफलं प्रभवेत् सदा ।
श्रवणेनैकदन्तस्य चरित्रस्य नरो महान् ॥ २३ ॥
सम्पूर्णो महिमा दक्ष न वक्तुं शक्यते मया ।
ब्रह्मादिभिश्च तस्मात्ते कथितं सारमञ्जसा ॥ २४ ॥
सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
दक्षस्तं हर्षितोऽत्यन्तं प्रणनाम कृताञ्जलिः ॥ २५ ॥
महोदरस्य माहात्म्यश्रवणे लालसी स्वयम् ।
दक्षस्तं पुनरप्याह तदग्रे वर्णयाम्यहम् ॥ २६ ॥
एतच्छौनक मुख्यं ते चरित्रं कथितं मया ।
यथा दक्षेण सर्वं वै मुद्गलात् संश्रुतं तथा ॥ २७ ॥
सर्वसिद्धिकरं प्रोक्तमेकदन्तचरित्रकम् ।
श्रुतं भावेन भो विप्र किं भूयः श्रोतुमिच्छसि ॥ २८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते चरितमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः ॥
॥ इति द्वितीयः खण्डः समाप्तः ॥
॥ इति श्रीमुद्गलपुराणे द्वितीयः खण्डः समाप्तः ॥