॥ श्रीगणेशाय नमः ॥
गत्समद उवाच ।
एवं नानावतारा य एकदन्तस्य धीमतः ।
तेषां चरित्रविस्तारं मया वक्तुं न शक्यते ॥ १ ॥
यत्र वेदादयो दैत्य न समर्था भवन्ति वै ।
तत्र कोऽहं महासाधो स्वल्पबुद्धिप्रधारकः ॥ २ ॥
गणेश एकदन्तोऽयं सोऽहं ब्रह्मणि संस्थितः ।
देहिनां ज्ञानदाने च स्वस्वव्यापारके प्रभुः ॥ ३ ॥
एकदन्तः स सर्वेशः पूर्णयोगस्य धारकः ।
तत्रार्थान्तरभावेन ज्ञातव्यो विबुधैः परः ॥ ४ ॥
एकवाच्या महामाया तत्र सत्ताप्रधारकः ।
दन्तश्च मायिकः प्रोक्तस्तयोर्योगे हि स स्मृतः ॥ ५ ॥
तं भजस्व महाभाग प्रह्लाद विधिपूर्वकम् ।
नष्टशापश्च भावी त्वमेकदन्तप्रसादतः ॥ ६ ॥
मुद्गल उवाच ।
पुनर्गृत्समदं प्राह प्रह्लादो विनयान्वितः ।
गणेशज्ञानभोगार्थं वैष्णवानां शिरोमणिः ॥ ७ ॥
प्रल्हाद उवाच ।
विष्णुभक्तोऽहमत्यन्तं मुने जन्मादितः खलु ।
अतः केन प्रकारेण भजामि गणनायकम् ॥ ८ ॥
सर्वज्ञस्त्वं विशेषेण पृच्छामि त्वामतः प्रभो ।
वद सर्वं गणेशस्य योगसाधनमुत्तमम् ॥ ९ ॥
गृत्समद उवाच ।
गणेशस्यावताराश्च चत्वारः परिकीर्तिताः ।
गौणांस्तांस्ते वदामीह संशयच्छेदनाय वै ॥ १० ॥
स्वानन्दनगरे देवो गणेशानः प्रतिष्ठते ।
स्वयं ससर्ज लीलार्थं जगद्ब्रह्मा सुरेश्वर ॥ ११ ॥
तेषु नानाविधां क्रीडां करोति गणनायकः ।
जगत्सु ब्रह्म जानीहि स त्वं तं योगसेवया ॥ १२ ॥
स ब्रह्मणि चतुर्धा वै जातः क्रीडार्थमादरात् ।
पञ्चमो निजलोकस्थस्तेषां संयोगधारकः ॥ १३ ॥
चतुरो मोहयित्वा वै मायया स गणेश्वरः ।
तिष्ठति स्वस्वरूपेण तेषां हृदि गजाननः ॥ १४ ॥
[[१५४]]
नामरूपात्मकेष्वेव ब्रह्म यत् परितिष्ठति ।
जानीहि वेदेषु तदसद्रूपं शक्तिवाचकम् ॥ १५ ॥
तेष्वात्माऽमृतरूपश्च भानुः सद्रूपवाचकः ।
तयोरभेदभावेष्वानन्दो विष्णुः स उच्यते ॥ १६ ॥
त्रिष्वव्यक्तस्वरूपं यन्नेति कर्ता विशेषतः ।
निर्मोहः शिव एवाऽसौ तुर्यो वेदे प्रकथ्यते ॥ १७ ॥
चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः ।
तद्ब्रह्म गणनाथोऽयं नानाखेलकरोऽभवत् ॥ १८ ॥
एवं तस्यावताराश्च चत्वारः परिकीर्तिताः ।
चतुर्भावप्रसिद्ध्यर्थं गौणरूपास्ततोऽभवन् ॥ १९ ॥
आनन्दात्मकलांशेन विष्णुं गणपरूपिणम् ।
जानीहि तं गणेशानान्न भिन्नं दानवोत्तम ॥ २० ॥
चतुर्णां भजनेनैव मनः शुद्धिमवाप्नुयात् ।
ततो गाणेशयोगे सोऽधिकारी भवति स्वयम् ॥ २१ ॥
यथाऽऽश्रमविभागेन नरः क्रमपरायणः ।
एकं त्यक्त्वा स गृह्णाति द्वितीयं भक्तिसंयुतः ॥ २२ ॥
अन्ते योगी स शान्तिस्थ आश्रमै रहितो भवेत् ।
तद्वत् क्रमेण गाणेशा भवेयुर्वैष्णवादिकाः ॥ २३ ॥
अधुना शृणु देवस्य साधनं योगदं परम् ।
साधयित्वा स्वयं योगी भविष्यति न संशयः ॥ २४ ॥
स्वानन्दः स विहारेण संयुक्तश्च विशेषतः ।
सर्वसंयोगकारित्वाद्गणेशो मायया युतः ॥ २५ ॥
विहारेण विहीनश्चायोगो निर्मायिकः स्मृतः ।
संयोगाभेदहीनत्वाद्भवहा गणनायकः ॥ २६ ॥
संयोगायोगयोर्योगः पूर्णयोगः प्रकीर्तितः ।
प्रह्लाद गणनाथस्तु पूर्णो ब्रह्ममयः परः ॥ २७ ॥
योगेन तं गणाधीशं प्राप्नुवन्तीह योगिनः ।
तं विद्धि पूर्णभावेन संयोगायोगवर्जितम् ॥ २८ ॥
तस्य माया द्विधा प्रोक्ता सिद्धिर्बुद्धिश्च दैत्यप ।
बुद्धिः सा पञ्चधा जाता चित्तरूपा स्वभावतः ॥ २९ ॥
क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
पञ्चधा चित्तवृत्तिश्च सा माया गणपस्य वै ॥ ३० ॥
क्षिप्तं मूढं च चित्तं यत् कर्मण्यपि विकर्मणि ।
संस्थितं तेन विश्वं वै चलति स्वस्वभावतः ॥ ३१ ॥
अकर्मणि च विक्षिप्तं चित्तं जानीहि मानद ।
तेन मोक्षमवाप्नोति शुक्लगत्या न संशयः ॥ ३२ ॥
एकाग्रमष्टधा चित्तं तदेवैकात्मनि स्थितम् ।
सम्प्रज्ञातसमाधिस्थं साधु जानीहि सत्तम ॥ ३३ ॥
निरोधसञ्ज्ञितं चित्तं निवृत्ते रूपधारकम् ।
असम्प्रज्ञातयोगस्थं जानीयाद्योगसेवया ॥ ३४ ॥
पञ्चधा चित्तवृत्तिश्च बुद्धिरूपा प्रकीर्तिता ।
माया सा गणनाथस्य त्यक्तव्या योगसेवया ॥ ३५ ॥
सिद्धिर्नानाविधा प्रोक्ता भ्रान्तिदा तत्र सम्मता ।
सिद्ध्यर्थं तत्र लोकाश्च भ्रमयुक्ता भवन्त्यतः ॥ ३६ ॥
धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रकीर्तिता ।
ब्रह्मभूतकरी सिद्धिस्त्यक्तव्या पञ्चधा सदा ॥ ३७ ॥
मोहदा सिद्धिरत्यन्तं मोहधारकतां गता ।
बुद्धिश्चैव स सर्वत्र ताभ्यां खेलति विघ्नपः ॥ ३८ ॥
बुद्धया यद् बुध्यते तत्र पश्चान् मोहः प्रवर्तते ।
अतो गणेशभक्त्या स मायाभ्यां वर्जितो भवेत् ॥ ३९ ॥
[[१५५]]
पञ्चधा चित्तवृत्तिं च पञ्चधा सिद्धिमादरात् ।
त्यक्त्वा गाणेशयोगेन गणेशं भज भावतः ॥ ४० ॥
ततः स गणराजस्य मन्त्रं तस्मै ददौ स्वयम् ।
गणानां त्वेति वेदोक्तं स विधिं मुनिसत्तमः ॥ ४१ ॥
तेन सम्पूजितो योगी प्रह्लादेन महात्मना ।
ययौ गृत्समदो दक्ष स्वर्गलोकं विहायसा ॥ ४२ ॥
प्रह्लादश्च तथा साधुः साधयित्वा विशेषतः ।
योगी योगीन्द्रवन्द्यः स शान्तिसन्धारकोऽभवत् ॥ ४३ ॥
विरोचनाय राज्यं स ददौ पुत्राय दैत्यपः ।
गणेशभजने योगी संसक्तः सर्वदाऽभवत् ॥ ४४ ॥
सगुणं विष्णुरूपं च निर्गुणं ब्रह्मवाचकम् ।
गणेशेन धृतं सर्वं कलांशेन न संशयः ॥ ४५ ॥
एवं ज्ञात्वा महायोगी प्रह्लादोऽभेदमाश्रितः ।
हृदि चिन्तामणिं ज्ञात्वाऽभजच्चानन्यभावतः ॥ ४६ ॥
स्वल्पकालेन दैत्येन्द्रः शान्तियोगपरायणः ।
शान्तिं प्राप्तो गणेशे चैकभावः सोऽभवत्परः ॥ ४७ ॥
शापश्चैव गणेशेन प्रह्लादस्य निराकृतः ।
न पुनर्दुष्टसङ्गेनाऽभवद् भ्रान्तः स मानद ॥ ४८ ॥
एवं मदं परित्यज्यैकदन्तस्य समाश्रयात् ।
असुरोऽपि महायोगी प्रह्लादः सम्बभूव ह ॥ ४९ ॥
एतत् प्रह्लादमाहात्म्यं यः शृणोति नरोत्तमः ।
पठेत्तु तस्य वै दक्ष भवेदीप्सितदायकम् ॥ ५० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते गृत्समदप्रल्हादसंवादसमाप्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥