॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
ततः स्वल्पे गते काले मुनिर्होमपरायणः ।
हुत्वाऽग्निं ध्याननिष्ठोऽभूद्गणेशस्य महात्मनः ॥ १ ॥
ततोऽग्निकुण्डमध्याद्वै गणेशो निःसृतः पुरः ।
चतुर्बाहुधरो रक्तः स बभौ परमश्रिया ॥ २ ॥
सिद्धिबुद्धिसमायुक्तं सिंहगं परशोर्धरम् ।
एकदन्तं विशालाक्षं शुण्डादण्डविराजितम् ॥ ३ ॥
नाभिशेष क्वणत्पादं ददर्श कपिलः परम् ।
उत्थाय तं ननामाऽसौ भक्तियुक्तेन चेतसा ॥ ४ ॥
पूजयित्वा प्रतुष्टावाथर्वशीर्षभवेन वै ।
स्तोत्रेण तेन सन्तुष्टस्तमुवाच गजाननः ॥ ५ ॥
गणेश उवाच ।
तव पुत्रो मुनेऽहं वै जातो गणवधाय च ।
हनिष्यामि महादैत्यं ग्रहीष्यामि महामणिम् ॥ ६ ॥
ततस्तं मुनिशार्दूलः प्रणम्य प्रत्युवाच ह ।
धन्यं मे जन्म देवेश पितरौ तप आश्रमः ॥ ७ ॥
विद्या व्रतादिकं सर्वं तव पादस्य दर्शनात् ।
पुत्रभावेन सम्प्राप्तस्तारणान् मां न संशयः ॥ ८ ॥
ततस्तस्य महाभक्तिं चक्रे वै नित्यमादरात् ।
तेन भक्तिरहस्यं यत्तज्ज्ञात्वा दुःखितोऽभवत् ॥ ९ ॥
ततः स्वात्मानमत्युग्रं निन्दयामास मानसे ।
अहो मानवरूपोऽहं शान्तियोगेन सङ्गतः ॥ १० ॥
मया ज्ञानमदेनैव गले चिन्तामणिर्धृतः ।
गणेशवन्न सन्देहस्तद्भक्त्या हीनचेतसा ॥ ११ ॥
देवस्य समता नैव कर्तव्या भजनार्थिना ।
ब्रह्मणस्पतिनामा स गणेशश्चैकराट् बभौ ॥ १२ ॥
तस्य देहे मदर्थं वै सत्ता पूर्णा प्रवर्तते ।
योगिदेहेन सा सत्ता तस्मात्तं भजते महान् ॥ १३ ॥
चिन्तामणिर्मया प्राप्तः पूजायां स्थापितो न सः ।
गले धृतो मया मोहाद्गतश्चिन्तामणिर्ध्रुवम् ॥ १४ ॥
देवस्य भक्तिमाहात्म्यात् प्राप्तं भक्तेन भूषणम् ।
वस्त्रं वाहनकाद्यं च पूजनीयं न संशयः ॥ १५ ॥
गन्धपुष्पादिकं तस्योच्छिष्टं धार्यं विशेषतः ।
नैवेद्यं भक्षणीयं वै सदा भक्त्याऽऽदरेण च ॥ १६ ॥
न देवसमता कार्या दासैर्वै नित्यमादरात् ।
भययुक्तेन संसेवा कार्या भक्तेन धीमता ॥ १७ ॥
मदीयसङ्गतश्चिन्तामणिश्चाहो सुदुःखितः ।
गतो दैत्यकरे साक्षादसुरस्तं प्रपीडयेत् ॥ १८ ॥
अतो गणेशमत्यन्तं प्रार्थयामि वधाय च ।
गणस्य तद्वधाच्चिन्तामणिः सद्यः सुलभ्यते ॥ १९ ॥
[[१५२]]
विचार्येति स योगीन्द्र एकदन्तं जगाद च ।
स्वामिन् हत्वा गणं शीघ्रं मणिमानय विघ्नप ॥ २० ॥
कपिलस्य वचः श्रुत्वा हृष्टस्तं त्वेकदन्तकः ।
जगाद ते प्रियं तात करिष्यामि न संशयः ॥ २१ ॥
एकदन्तेन तद्रात्रौ स्वप्नो दत्तो गणस्य च ।
स्वप्नेन भ्रान्तरूपोऽभूद्विचारमकरोत् स्वयम् ॥ २२ ॥
सिंहारूढश्चतुर्बाहुः कुञ्जराननधारकः ।
परश्वधधरः क्रूरः कोऽयं स्वप्ने प्रदर्शितः ॥ २३ ॥
कपिलेन समादिष्टो मस्तकं मे च सोऽच्छिनत् ।
मणिं समागृह्य ददौ कपिलाय महात्मने ॥ २४ ॥
अयं स्वप्नो मया दुष्टो दृष्टः किं वा भविष्यति ।
अतः कपिलनाशार्थं यामि सैन्यसमन्वितः ॥ २५ ॥
ततो धृत्वा च शस्त्रादीन् नानावीरसमन्वितः ।
रात्रौ कपिलमुग्रोऽसौ ययौ हन्तुं तदाश्रमम् ॥ २६ ॥
प्रभाते दैत्यराजः स सम्प्राप्तः कपिलाश्रमम् ।
शिष्यैर्दृष्टो महादुष्टः कपिलं ते ययुस्ततः ॥ २७ ॥
स्वामिन् समागतो दैत्यो गणनामा ससैनिकः ।
ऊचुः शिष्याः प्रणम्यैनं कपिलं भयसंयुताः ॥ २८ ॥
ततो गणपतिं नत्वा वधार्थं तस्य वै मुनिः ।
प्रार्थयामास शीघ्रं स गणस्य विनयान्वितः ॥ २९ ॥
ततः क्रुद्धो गणेशानः सिंहारूढो ययौ गणम् ।
गणेन पुरुषो दृष्टः स्वप्नगः स च निश्चितम् ॥ ३० ॥
ततो गणेन योधाश्च दैत्येशाः प्रेरिता रणे ।
उदायुधा महोग्रास्त आययुर्देवसन्निधिम् ॥ ३१ ॥
तान् दृष्ट्वा कुपिता देवी सिद्धिर्वामाङ्गसंस्थिता ।
गणेशं मनसि ध्यात्वा पुत्रं सा निर्ममेऽतुलम् ॥ ३२ ॥
तेन सर्वं हतं सैन्यं प्रेरितेन गणस्य वै ।
सिद्ध्या पलायत ततः सैन्यं तस्य दिशो दश ॥ ३३ ॥
विजयी पुरुषः सोऽपि गणेशं प्रणनाम ह ।
सस्त्रीकं तेन नाम्ना स कृतो लक्ष इति प्रभुः ॥ ३४ ॥
जगति ब्रह्मणि त्वं वै तिष्ठ सर्वत्र पुत्रक ।
नरेण यादृशं लक्षं क्रियते भुङ्क्ष्व तादृशम् ॥ ३५ ॥
हृदि लक्षप्रतापी त्वं सर्वेभ्यो नाऽत्र संशयः ।
सिद्धिपुत्र महाभाग मद्भक्तान् रक्ष यत्नतः ॥ ३६ ॥
बुद्धिपुत्रः स्वयं लाभः फलदाता भविष्यति ।
अनुसारेण लक्षस्य तव भ्राता महाबलः ॥ ३७ ॥
भुक्तौ मुक्तौ तथा पापे हृदि ब्रह्मणि जन्तवः ।
लक्षं कुर्वन्ति ये तेषां लाभश्चैतादृशो भवेत् ॥ ३८ ॥
एवमुक्त्वा स्वपुत्रं तं लक्षमेकरदस्ततः ।
युद्धाय स ययौ तत्र यत्र दैत्याधिपोऽभवत् ॥ ३९ ॥
तमागतं स विज्ञाय प्रतापी स गणासुरः ।
हन्तुं शस्त्रममोघं यदाददे धनुषि स्वयम् ॥ ४० ॥
तावच्च गणराजेन पर्शुना तूग्रवेगिना ।
दैत्यराजगणस्यैव शिरश्छिन्नं पपात सः ॥ ४१ ॥
हाहाकृत्वाऽसुराः सर्वे पातालं विविशुस्ततः ।
देवा हर्षयुताः सर्वे मुनयस्ते ययुर्विभुम् ॥ ४२ ॥
कपिलं सान्त्वयामासागृह्य दत्वा मणिं पुनः ।
कपिलायैकदन्तस्तु कपिलः प्रणनाम तम् ॥ ४३ ॥
जगाद भक्तिसंयुक्तः कपिलो गणनायकम् ।
स्वामिंस्त्वदीयमेतद्वै भूषणं तद् गृहाण भोः ॥ ४४ ॥
अस्माभिः पूजनीयं तच्चायोग्यं धारणे प्रभो ।
अतस्त्वमेव विघ्नेश स्वगले धारयस्व तत् ॥ ४५ ॥
[[१५३]]
चित्ते निवासिना स्वामिंस्त्वया ज्ञातमतः प्रभो ।
मदीयं चिन्तितं सर्वं तादृशं सफलं कृतम् ॥ ४६ ॥
अतस्ते भविता चिन्ता मणिर्नाम न संशयः ।
एवमुक्त्वा स्वयं तस्यारोपयत्तं मणिं गले ॥ ४७ ॥
ततः स मणिमादाय स्वानन्दं चैकदन्तकः ।
अन्तर्धानं चकाराऽपि देवेशा विस्मिता ययुः ॥ ४८ ॥
कपिलेन सदा ध्यानबलेन हृदये विभुः ।
चिन्तामणिः सुभावेन पूजितस्तत्त्वबोधिना ॥ ४९ ॥
एवं गणासुरं हत्वा भक्तिं दत्वा सुरेश्वर ।
कपिलायैकदन्तस्तु चक्रे वै साधुरक्षणम् ॥ ५० ॥
इदमेकरदस्यैव चरितं सर्वदं परम् ।
शृणुयात् सर्वपापघ्नं पठेद्वा तस्य सम्भवेत् ॥ ५१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते गणासुरवधो नाम द्विसप्ततितमोऽध्यायः ॥