७१ कपिलवरप्रदानम्

॥ श्रीगणेशाय नमः ॥

प्रल्हाद उवाच ।

कोऽसौ गणासुरो दैत्यो येन चासत्कृतो मुनिः ।
समर्थः कपिलः साक्षात् प्रलयाग्निसमद्युतिः ॥ १ ॥

यस्य क्रोधयुता दृष्टिः सगरान् प्रददाह सा ।
तं तिरस्कृत्य जीवन् स कथं स्वनगरे गतः ॥ २ ॥

गृत्समद उवाच ।

शृणु प्रह्लाद यत्नेन गणासुरविचेष्टितम् ।
सर्वं वदामि पापघ्नं गणेशचरिताश्रितम् ॥ ३ ॥

अभिजिन्नाम राजर्षिरपुत्रः सम्बभूव ह ।
पुत्रार्थं स वनं राजा ययौ त्यक्त्वा स्वराज्यकम् ॥ ४ ॥

भ्रमन् ददर्श योगीशं वैशम्पायनमञ्जसा ।
तं प्रणम्य सपत्नीकः पप्रच्छ विनयान्वितः ॥ ५ ॥

पुत्रप्राप्तेरुपायं मे वद सर्वज्ञ ते नमः ।
मुनिना मन्त्रराजस्तु दत्तस्तस्मै प्रजापते ॥ ६ ॥

चातुर्मास्यप्रयोगं तं विधियुक्तं नृपस्य सः ।
उपदिश्य ततस्तीर्थं प्रभासं संस्थितोऽभवत् ॥ ७ ॥

अभिजित्तं प्रणम्यैव सस्त्रीकः प्रययौ महत् ।
तीर्थं तत्र यथायोग्यमनुष्ठानपरोऽभवत् ॥ ८ ॥

तत्र ब्रह्मा तपस्तेपे सरस्वत्या समन्वितः ।
स्नानार्थं सुतया युक्तः कदाचित् स जगाम ह ॥ ९ ॥

तत्रैकवस्त्रसंयुक्तां विधिर्दृष्ट्वा सरस्वतीम् ।
यौवनस्थां कुचाभ्यां तां रूपिणीं विस्मितोऽभवत् ॥ १० ॥

अकस्माज्जलमध्येऽसौ कामबाणार्दितोऽभवत् ।
पुत्रीभावं समागृह्य चञ्चलं चित्तमाददे ॥ ११ ॥

कामेनात्यन्तमुग्रेण पीडितस्य जगद्गुरोः ।
वीर्यं तस्यास्खलत्तत्र जलमध्ये सुरेश्वर ॥ १२ ॥

ततः सुमनसा युक्तः सत्यलोकं ययौ विधिः ।
प्रयोगोऽभिजितः सोऽथ समाप्तस्तद्दिनेऽभवत् ॥ १३ ॥

सस्त्रीकः स्नानसिद्ध्यर्थं ययौ तीर्थं नृपस्तदा ।
तृषिता तस्य पत्नी सा जलपानरताऽभवत् ॥ १४ ॥

दैवयोगेन तद्वीर्यं ब्रह्मणो वारिणा सह ।
तस्या उदरगं जातममोघमसुरोत्तम ॥ १५ ॥

राजा समाप्य तत् सर्वं मन्त्रानुष्ठानमादरात् ।
ययौ स्वनगरं पूर्णं चक्रे वै राज्यमुत्तमम् ॥ १६ ॥

कालेन सुषुवे राज्ञी पुत्रं सा चारुहासिनी ।
तेजोयुक्तं महावीर्यं लक्षणैरुपशोभितम् ॥ १७ ॥

जातकर्मादिकं राजा चकार विधिवद् द्विजैः ।
दत्त्वोपवीतदानं स वेदाभ्यासे मतिं ददौ ॥ १८ ॥

स्वल्पकालेन पुत्रोऽसौ गणो नाम्ना महाबलः ।
वेदशास्त्रनिधिर्जातस्ततोऽयात् स वनं स्वयम् ॥ १९ ॥

मार्गे च सहसाऽऽगत्य शुक्रः पञ्चाक्षरीं ददौ ।
तस्मै दीक्षां शिवस्याऽसौ तथा चक्रे स भावतः ॥ २० ॥

शिवं ध्यात्वा तपस्तेपे महोग्रं वायुभक्षकः ।
दशवर्षसहस्रैस्तं ययौ भक्त्या सदाशिवः ॥ २१ ॥

आगतं शङ्करं दृष्ट्वाऽपूजयद् भक्तिभावतः ।
तुष्टाव विविधैस्तोत्रैर्वरदं तं जगाद सः ॥ २२ ॥

आरोग्यादिसमायुक्तं त्रिगुणान्न भयं च मे ।
त्रैलोक्यराज्यमुग्रं वै देहि मे त्वं सदाशिव ॥ २३ ॥

ओमित्युक्त्वा महादेवः स्वस्थानं प्रजगाम ह ।
गणश्च स्वगृहं दैत्य ययौ परमहर्षितः ॥ २४ ॥

सर्वानानन्दयामास सुहृदः पितरौ स्वकौ ।
ततो विजिग्ये पृथिवीं सेनया स्वेन तेजसा ॥ २५ ॥

[[१५०]]

ततो पित्राऽभिषिक्तोऽभूत् स्वराज्ये वनगेन सः ।
सपत्नीकेन भूपालो गणः स्थाने बभूव ह ॥ २६ ॥

ततो दैत्यैः समायातैर्नानादिग्भ्यो नृपो गणः ।
तैर्युक्तः सकलां पृथ्वीं विजिग्ये द्वीपसंयुताम् ॥ २७ ॥

पातालं स ततो नागैर्जिगाय बलसंयुतः ।
युद्धं कृत्वा महाघोरं ततः स्वर्गं ययौ गणः ॥ २८ ॥

स्वर्गं जित्वा सहेन्द्रैः स ततो ब्रह्माणमञ्जसा ।
विष्णुं शिवं क्रमेणैवाजयत्तेजःसमन्वितः ॥ २९ ॥

ततस्तान् करदान् कृत्वा स्थापयामास देवपान् ।
स्वस्वस्थानेषु तत्रैकं दैत्यं न्यस्य धरां ययौ ॥ ३० ॥

एवं त्रैलोक्यराज्यं स जित्वा सर्वांश्चकार ह ।
ततश्चिन्तामणिं दुष्टो जहार कपिलस्य सः ॥ ३१ ॥

कपिलो गणनाथस्य भक्तः परमभाविकः ।
तताप स तपो घोरं गणेशस्य महात्मनः ॥ ३२ ॥

वर्षेणैकेन देवेशो ययौ मूषकवाहनः ।
सिद्धिबुद्धिसमायुक्तो बोधयत्तं महामुनिम् ॥ ३३ ॥

कपिलस्तं गणाध्यक्षमागतं पूजयन् प्रभुम् ।
तुष्टाव साश्रुनेत्रश्च प्रेमगद्गदया गिरा ॥ ३४ ॥

कपिल उवाच ।

नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ३५ ॥

आकाशाय च भूतानां मनसे चामरेषु ते ।
बुद्ध्यै चेन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ ३६ ॥

देहानां बिन्दुरूपाय सोऽहंरूपाय देहिनाम् ।
तयोरभेदभावेषु बोधाय तु नमो नमः ॥ ३७ ॥

साङ्ख्याय वै विदेहानां सयोगानां निजात्मने ।
चतुर्णां पञ्चमायैव सर्वत्र तु नमो नमः ॥ ३८ ॥

नामरूपात्मकानां वै शक्तिरूपाय ते नमः ।
आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ३९ ॥

आनन्दानां महाविष्णुरूपिणे नेतिधारिणाम् ।
शङ्कराय च सर्वेषां संयोगे गणपाय ते ॥ ४० ॥

कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम् ।
समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ ४१ ॥

स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः ।
तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ४२ ॥

निर्मायिकस्वरूपाणामयोगाय नमो नमः ।
योगानां योगरूपाय गणेशाय नमो नमः ॥ ४३ ॥

शान्तियोगप्रदात्रे ते शान्तियोगमयाय च ।
किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ ४४ ॥

जगाद गणनाथो वै ततस्तं भक्तमुत्तमम् ।
हर्षेण महता युक्तो हर्षयन् मुनिसत्तमम् ॥ ४५ ॥

गणेश उवाच ।

त्वया कृतं मदीयं यत् स्तोत्रं योगप्रदं भवेत् ।
धर्मार्थकाममोक्षणां दायकं च न संशयः ॥ ४६ ॥

वरं वरय दास्यामि मत्तस्त्वं भक्तियन्त्रितः ।
त्वत्समो न भवेत्तात तत्त्वज्ञानप्रकाशकः ॥ ४७ ॥

तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह ।
त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ ४८ ॥

त्वदीयभूषणं दैत्यो गणो हृत्वा जगाम ह ।
मत्तश्चिन्तामणिं नाथ जहि तं मणिमानय ॥ ४९ ॥

स्मरामि चेद्यदाऽहं त्वां तदात्मानं प्रदर्शय ।
एतमेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ ५० ॥

गृत्समद उवाच ।

तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः ।
उवाच तं महाभागं प्रेमयुक्तं विशेषतः ॥ ५१ ॥

[[१५१]]

गणेश उवाच ।

त्वया यत् प्रार्थितं विष्णो तत् सर्वं प्रभविष्यति ।
तव पुत्रो भविष्यामि गणासुरवधाय च ॥ ५२ ॥

एवमुक्त्वान्तर्दधेऽसौ ढुण्ढिराजः प्रतापवान् ।
मुनिस्तं हृदि सञ्चिन्त्य स्वाश्रमस्थो बभूव ह ॥ ५३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते कपिलवरप्रदानं नामैकसप्ततितमोऽध्यायः ॥