॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
एकदा कपिलस्यैवाश्रमं देवपतिर्ययौ ।
सर्वामरसमायुक्तस्तं ननाम कृताञ्जलिः ॥ १ ॥
अपराह्णे च सम्प्राप्तमिन्द्रं दृष्ट्वा महामुनिः ।
न्यमन्त्रयत् क्षुधायुक्तं सर्वैर्योगीश्वरो मुदा ॥ २ ॥
सिद्धियुक्तं गणेशानं ध्यात्वा ह्यमृतमुत्तमम् ।
देवार्थं कल्पयित्वा स भोजयामास तेन तान् ॥ ३ ॥
पृथिव्यमृतभोगेन सन्तुष्टः सुरनायकः ।
मुनये वायुनाऽऽनाय्य प्रददौ मणिमुत्तमम् ॥ ४ ॥
गणेशभूषणं चिन्तामणिर्मुख्यं प्रकथ्यते ।
योगी धृत्वा तमात्मानं मन्यते स्म कृतार्थकम् ॥ ५ ॥
कपिलस्तत्र मनसि विचारमकरोत् परम् ।
गणेशोऽहं न भिन्नश्च योगमार्गपरायणः ॥ ६ ॥
अतो गणेशदेवेन प्रेरितोऽयं मणिर्महान् ।
कण्ठे च तं बबन्धाऽसौ यथा गणपतिस्तथा ॥ ७ ॥
तं दृष्ट्वा हर्षिता देवा सेन्द्राः स्वस्वस्थलं ययुः ।
कपिलः स्वाश्रमे तत्र संस्थितो मणिसंयुतः ॥ ८ ॥
प्रल्हाद उवाच ।
स्वानन्दवासकारी च गणेशो ब्रह्मनायकः ।
तस्येन्द्रेण मणिर्योगिन् कथं लब्धो वदस्व माम् ॥ ९ ॥
गृत्समद उवाच ।
शृणु प्रह्लाद माहात्म्यं चिन्तामणिसमुद्भवम् ।
कथयामि च ते प्रीत्या सर्वपापप्रणाशनम् ॥ १० ॥
एकदा विष्णुना पूर्वं तपस्तप्तं सुदारुणम् ।
तेन शान्तिरनुप्राप्ता षडक्षरविधानतः ॥ ११ ॥
तस्मै भक्तिपरीक्षार्थं ददौ चिन्तामणिं प्रभुः ।
गणेशो भक्तिदानार्थं चिन्तितार्थप्रदायिनम् ॥ १२ ॥
विष्णुना पूजने क्षिप्तो मणिश्चिन्तामणिः प्रभो ।
अहं भक्तो गणेशस्य न योग्यो धारणे मणिः ॥ १३ ॥
भूषणं गणनाथस्य पूजनीयं विशेषतः ।
न धार्यं देवदासैस्तत् पूजा कार्या च नित्यदा ॥ १४ ॥
शान्तियोगेन विघ्नेशो मया हृदि हृतः स्वके ।
न भिन्नस्तदपि स्वामी स दासोऽहं स्वभावतः ॥ १५ ॥
ततो बहुगते काल इन्द्रस्तपसि संस्थितः ।
एकाक्षरविधानेनाऽतोषयद्गणनायकम् ॥ १६ ॥
बभूव युक्तो ध्यानेन सततं देवनायकः ।
योगयुक्तः क्रमेणैव गाणपत्यो बभूव सः ॥ १७ ॥
शान्तिं प्राप्य स्वयं देवो गणेशाभेदतां गतः ।
आययौ स्वगृहं पश्चाद् देवराज्यं चकार ह ॥ १८ ॥
एतस्मिन्नन्तरे दैत्यगृहे शुश्राव केशवः ।
अशरीरां महावाणीं शृणु तत् कथयामि ते ॥ १९ ॥
चिन्तामणिं महाविष्णो देहीन्द्राय महामते ।
शान्तियोगधरायाद्य मद्भक्ताय ददाम्यहम् ॥ २० ॥
श्रुत्वाऽऽकाशभवां वाणीं ययौ विष्णुर्ददौ परम् ।
महेन्द्रायामरावत्यां मणिं तं चिन्तितार्थदम् ॥ २१ ॥
मघवा दासभावेन संस्थाप्याऽपूजयन् मणिम् ।
न योगमदतां प्राप्तो महेन्द्रश्च प्रतापवान् ॥ २२ ॥
तं मणिं कपिलं दृष्ट्वा शान्तियोगधरं प्रभुम् ।
ददौ तस्मै महेन्द्रः स भावयुक्तेन चेतसा ॥ २३ ॥
अयं सिद्धेश्वरः साक्षाद्योग्यः सन्धारणे मणेः ।
वयं गृहस्थसंशीला न योग्या इत्यधारयत् ॥ २४ ॥
एवं क्रमेण जानीहि चिन्तामणिसमागमम् ।
कपिलः स्वगले नित्यं बबन्ध गणराजवत् ॥ २५ ॥
[[१४८]]
गते कियति काले वै कपिलस्याश्रमं ययौ ।
मृगयाभिरतो दैत्यो गणासुर इति स्मृतः ॥ २६ ॥
सेनां बहिः समास्थाप्य एकाकी मुनिमाययौ ।
कपिलं प्रणनामैव कृताञ्जलिपुटः स्थितः ॥ २७ ॥
विनीतं तं विलोक्यैव कपिलस्तमुवाच ह ।
कोऽसि कस्मादिहाऽऽयातो वद सर्वं नरोत्तम ॥ २८ ॥
गणासुर उवाच ।
गणासुर इति ख्यातो नाम्नाऽहं मुनिसत्तम ।
मृगयाभिरतो ह्यत्र दैवेनैवोपसादितः ॥ २९ ॥
तवाश्रमे क्षुधायुक्तः श्रान्तवाहन एव च ।
ससैन्यः सहसाऽऽगत्य सन्तृप्तः सुखदायके ॥ ३० ॥
जलं फलान्यहं पीत्वा भक्षयित्वा ससैनिकः ।
दर्शनार्थं समायातः सेना मे सरसि स्थिता ॥ ३१ ॥
त्वद्दर्शनेन निष्पापो जातोऽहं मुनिसत्तम ।
आज्ञां देहि गमिष्यामि ससैन्यो नगरं स्वकम् ॥ ३२ ॥
तस्य तद्वचनं श्रुत्वा सन्तुष्टः कपिलोऽवदत् ।
ससैन्यो भुङ्क्ष्व किञ्चित्त्वं मद्दत्तं नृपसत्तम ॥ ३३ ॥
ममाश्रमे च दैत्येन्द्र क्षुधितस्त्वं समागतः ।
अतस्त्वां प्रार्थये भूप अतिथिं सुसमागतम् ॥ ३४ ॥
तथेति संस्थितस्तत्र गणदैत्यः प्रतापवान् ।
उक्त्वा विनयसंयुक्तः कपिलेन सुसत्कृतः ॥ ३५ ॥
ततः कपिलशिष्येण सेनाऽऽनीता गणस्य वै ।
सेनया सह दैत्येशं पूजयामास तं मुनिः ॥ ३६ ॥
चिन्तामणिं स सम्पूज्य प्रार्थयामास भोजनम् ।
यथारुचि च सर्वेषां तथा देयं महामणे ॥ ३७ ॥
ततो मणिप्रसादेन षड्रसैः संयुतं परम् ।
स्थितं पात्रेषु सर्वत्र प्रेषितं त्वन्नमादरात् ॥ ३८ ॥
ततस्तैर्भुक्तमत्यन्तं स्वादयुक्तं विशेषतः ।
ससैन्यो गणदैत्योऽभूद्विस्मितो चेतसा भृशम् ॥ ३९ ॥
मुनिं प्रणम्य दैत्येश आर्थयत्तं महामणिम् ।
न ददौ तं मुनिश्रेष्ठो गाणेशं भूषणं मणिम् ॥ ४० ॥
ततो मुनिं तिरस्कृत्य हस्तात्तस्य प्रगृह्य तम् ।
मणिं स प्रययौ स्थानं हर्षनिर्भरमानसः ॥ ४१ ॥
मुनिः क्षुब्धो महाभाग तस्य नाशाय दुर्मतेः ।
विचारमकरोच्चित्ते मणिग्रहणलालसः ॥ ४२ ॥
सुसाधुवदहो दैत्योऽविनीतः सुसमागतः ।
चकार कर्म प्रह्लाद पश्य तत् जातिवत् परम् ॥ ४३ ॥
अतो दुष्टोऽविनीतश्च न विश्वास्यः कदाचन ।
दुष्टसङ्गतियोगेन ज्ञानभ्रंशः प्रजायते ॥ ४४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते चिन्तामणिहरणं नाम सप्ततितमोऽध्यायः ॥
[[१४९]]