६९ देवहूतिकर्दमशान्तिप्राप्तिवर्णनम्

॥ श्रीगणेशाय नमः ॥

गृत्समद उवाच ।

स्वायम्भुवो ददौ कन्यां कर्दमाय प्रहर्षितः ।
देवहूतिं च तस्यां स कपिलः सम्बभूव ह ॥ १ ॥

साक्षाद्विष्णुः स्वयं देवस्तपसा कर्दमेन सः ।
आराधितश्च पुत्रोऽभूत्तत्त्वज्ञानप्रकाशकः ॥ २ ॥

तं महोत्सवयुक्तश्चापूजयत् स महामुनिः ।
ब्रह्मादयः समायाता दर्शनार्थं गृहे मुनेः ॥ ३ ॥

उपवीतयुतं कृत्वा कर्दमो हर्षनिर्भरः ।
वेदान् साङ्गान् स्वपुत्राय ह्यध्यापयत यत्नतः ॥ ४ ॥

स च श्रवणमात्रेण जग्राह गुरुणोदितम् ।
स्वल्पकालेन सम्पूर्णविद्यायुक्तो बभूव ह ॥ ५ ॥

[[६९]]

ननाम कर्दमः पुत्रमेकदा भक्तिसंयुतः ।
सस्त्रीकश्च महाभागं पप्रच्छ विनयान्वितः ॥ ६ ॥

कर्दम उवाच ।

त्वं साक्षाद्विष्णुरूपो मां शुक्लः सर्वार्थकोविदः ।
वद ज्ञानं महाबाहो तारयस्व भवार्णवात् ॥ ७ ॥

एवं पृष्टो महात्माऽसौ कपिलस्तमुवाच ह ।
सर्वसारमयं ज्ञानं गाणेशं तारकः प्रभुः ॥ ८ ॥

कपिल उवाच ।

शृणु तात मया दृष्टमेव तत् शान्तिदायकम् ।
कथयामि महाज्ञानं शान्तियोगप्रदं प्रभो ॥ ९ ॥

सर्वं मायामयं विद्धि पञ्चकं पञ्चकं यतः ।
त्रिविधं भ्रान्तिरूपं यन्नानाभेदमयं भवेत् ॥ १० ॥

भ्रान्तिधारकरूपं यत्तच्चतुर्थं प्रकथ्यते ।
तेषामभेदसंयोगे ब्रह्मयोगमयं मतम् ॥ ११ ॥

पृथ्वी जलं तथा तेजस्त्रिविधं भ्रान्तिदायकम् ।
वायुर्भ्रान्तिधरस्तत्र तुरीयात्मा प्रकथ्यते ॥ १२ ॥

तेषामभेदसंयोग आकाशं ब्रह्म कथ्यते ।
भूतानां ज्ञानदं कस्माद्भूतं नैव प्रकीर्तितम् ॥ १३ ॥

तथैव पञ्चकं सर्वं जानीहि मुनिसत्तम ।
मायामायिकसंयुक्तं ब्रह्म स्वानन्दसञ्ज्ञितम् ॥ १४ ॥

कर्मेन्द्रियाणि पञ्चैव पञ्चज्ञानेन्द्रियाणि च ।
पञ्चतन्मातृकाः प्रोक्ता एवं जानीहि मानद ॥ १५ ॥

पञ्च देवा निजे देहे कर्मेन्द्रियविकाशकाः ।
तथा ज्ञानेन्द्रियाणां च प्रकथ्यन्ते प्रकाशकाः ॥ १६ ॥

स्थूलं सूक्ष्मं समं चैवात्मप्रतीतिप्रदायकम् ।
बिन्दुः पञ्चममत्रस्थं देहपञ्चकमुच्यते ॥ १७ ॥

स्वर्गो मृत्युश्च पातालं ब्रह्माण्डं च तुरीयकम् ।
गुणेशः पञ्चमः पूर्णोऽण्डपञ्चकमुदाहृतम् ॥ १८ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महामुने ।
योगिभिर्वर्णहीनाश्च वर्णपञ्चकमुच्यते ॥ १९ ॥

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
आश्रमैर्हीनरूपश्चाश्रमपञ्चकमुच्यते ॥ २० ॥

अण्डजः खेदजो विप्रैरुद्भिज्जो जारजः स्मृतः ।
मानसश्चैव विपेन्द्र योनिपञ्चकमुच्यते ॥ २१ ॥

रक्तः श्वेतस्तथा श्यामो नीलः पीतश्च पञ्चमः ।
एवं कथयितुं रङ्गपञ्चकं न प्रशक्यते ॥ २२ ॥

देहेषु देहरूपं यदभिमानेन पञ्चधा ।
देहिपञ्चकमेतच्च ज्ञातव्यं मुनिसत्तम ॥ २३ ॥

शक्तिः सूर्यस्तथा ब्रह्मा विष्णू रुद्रो महामते ।
गुणपञ्चकमित्युक्तं भिन्नभावधरं पितः ॥ २४ ॥

शक्तिः सूर्यश्च विष्णुश्च शिवश्चाऽत्र तुरीयकः ।
गणेशः पञ्चमो विप्रैः पञ्चायतनमुच्यते ॥ २५ ॥

प्रकृतिः पुरुषश्चैव स्वत उत्थानसञ्ज्ञितम् ।
परतोत्थानरूपं च संयोगः पञ्चमः स्मृतः ॥ २६ ॥

असद्वेदेषु सद्विप्रैरानन्दश्चोभयात्मकः ।
अव्यक्तश्च निजानन्दो नैजं पञ्चकमुच्यते ॥ २७ ॥

देहो देही च बोधाख्यं साङ्ख्यमत्र चतुर्थकम् ।
पञ्चमं च स्वसंवेद्यं भवपञ्चकमुच्यते ॥ २८ ॥

प्रकृत्यालयसञ्ज्ञश्च विदेहो भवप्रत्ययः ।
उपायप्रत्ययो योगो योगपञ्चकमुच्यते ॥ २९ ॥

एवं सर्वं च जानीहि पञ्चकं पञ्चकं परम् ।
मयाऽशक्यं कथयितुं तस्मान् मुख्यं प्रकीर्तितम् ॥ ३० ॥

तत्र योगे महाशान्तिर्लभ्यते योगसेवया ।
योगाच्च न परं ब्रह्म वेदेषु परिकीर्तितम् ॥ ३१ ॥

सर्वब्रह्मसुयोगस्य योगस्तेन महामुने ।
न योगे कस्यचिद्भावो ब्रह्मणश्च प्रजापते ॥ ३२ ॥

[[१४६]]

गृत्समद उवाच ।

एवं पुत्रं वदन्तं स प्रणिपत्य महामुनिः ।
उवाच कर्दमो यज्ञं योगेप्सुः परमादृतः ॥ ३३ ॥

कर्दम उवाच ।

केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते ।
तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥ ३४ ॥

कपिल उवाच ।

गणेशभजनं मुख्यं शान्तियोगप्रदं मतम् ।
योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥ ३५ ॥

सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने ।
य आदिः प्रलयान्ते स तिष्ठति श्रुतिसम्मतम् ॥ ३६ ॥

ज्येष्ठराजं गणेशानं वेदेषु प्रवदन्ति तम् ।
गणाः समूहरूपाश्च तेषां स्वामी प्रकथ्यते ॥ ३७ ॥

नानाजगत्स्वरूपं वै देहरूपं कृतं मुने ।
महात्मना तेन कृतं नानाब्रह्ममयं शिरः ॥ ३८ ॥

यस्माज्जातमिदं यत्रान्ते गच्छति महामते ।
तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥ ३९ ॥

त्रिविधं भेदयुक्तं यदखण्डं वै तुरीयकम् ।
तयोर्योगे गणेशोऽयं देहमस्तकयोगतः ॥ ४० ॥

चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा ।
मोहरूपा महासिद्धिर्बुद्धिर्वै मोहधारिका ॥ ४१ ॥

तयोः स्वामी गणाधीशश्चित्ते नित्यं प्रतिष्ठितः ।
चिन्तामणिर्महाभागो लभ्यते योगसेवया ॥ ४२ ॥

पञ्चधा चित्तमु?त्सृज्य तदैश्वर्यं तथैव च ।
योगशान्तिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥ ४३ ॥

तस्मात्तं भज मन्त्रेणैकाक्षरेण महामुने ।
तेन तुष्टो गणेशानो योगं दास्यति शान्तिदम् ॥ ४४ ॥

एवमुक्त्वा महायोगी कपिलस्तत्त्वधारकः ।
विरराम महासाधो विष्णुः प्रह्लाद सोऽव्ययः ॥ ४५ ॥

ततः प्रणम्य तं पुत्रं कपिलं कर्दमो मुनिः ।
ययौ तपोवनं सद्यस्तताप परमं तपः ॥ ४६ ॥

एकाक्षरविधानेन परितुष्टो गजाननः ।
योगं शान्तिमयं तस्मै प्रददौ भक्तवत्सलः ॥ ४७ ॥

कर्दमः शान्तभावेन गणेशमभजत् परम् ।
विचचार महायोगी धरणीं लोकधारकः ॥ ४८ ॥

देवहूतिश्च तत्रैव योगं चासाधयत् परम् ।
गणेशं हृदि भावेन धृत्वा कपिलसन्निधौ ॥ ४९ ॥

क्रमेण शान्तिमापन्ना चित्तं त्यक्त्वा महासती ।
चिन्तामणौ तदाकारा बभूव भ्रमवर्जिता ॥ ५० ॥

तां दृष्ट्वा सिद्धिमापन्नां कपिलः स ययौ ततः ।
गङ्गाया दक्षिणे तीरेऽभजत्तं गणनायकम् ॥ ५१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते देवहूतिकर्दमशान्तिप्राप्तिवर्णनं नामैकोनसप्ततितमोऽध्यायः ॥

[[१४७]]