॥ श्रीगणेशाय नमः ।
गृत्समद उवाच ।
श्रुत्वा कथां महारम्यामगस्त्यस्तमुवाच ह ।
प्रणयावनतो भूत्वा ब्रह्माणं सर्ववेदिनम् ॥ १ ॥
अगस्त्य उवाच ।
भगवन् सर्वतत्त्वज्ञ कथितं सर्वमञ्जसा ।
त्वया तेनाहमत्यन्तं सुतुष्टो ब्रह्मवित्तम ॥ २ ॥
एतादृशो गणेशोऽयं तस्य ज्ञानं कथं भवेत् ।
तद्वदस्व दयासिन्धो भवेयं दुःखवर्जितः ॥ ३ ॥
ततस्तं प्रत्युवाचेदं वचनं स पितामहः ।
ज्ञानयुक्तं गणेशस्य भक्तिदं परमाद्भुतम् ॥ ४ ॥
ब्रह्मोवाच ।
शृणु पुत्र प्रवक्ष्यामि ज्ञानं योगात्मकं महत् ।
यस्य त्वं गाणपत्यो वै भविष्यसि सुसेवनात् ॥ ५ ॥
देहदेहिमयं ब्रह्म स्वत उत्थानवाचकम् ।
जानीहि सर्वभावेन बोधरूपं विशेषतः ॥ ६ ॥
साङ्ख्यं यद्वदति ब्रह्म परतोत्थानवाचकम् ।
बोधहीनस्वभावेन लभते स्वसुखस्थितम् ॥ ७ ॥
तयोरभेदयोगे वै स्वसंवेद्यमतः परम् ।
जानीहि सर्वसंयोगकारकं योगसेवया ॥ ८ ॥
पञ्च भेदा मतास्तस्य ताञ्छृणुष्व महामते ।
जानीहि भेदरूपं यदसत्यं शक्तिवाचकम् ॥ ९ ॥
सत्यं भानुमयं प्रोक्तमात्माकारेण तत्र तु ।
जानीहि संस्थितं पुत्र सदा भेदादिवर्जितम् ॥ १० ॥
तयोः संयोगकर्ता स विष्णुरानन्दवाचकः ।
समात्मकं मतं ब्रह्म जानीहि सुखदं परम् ॥ ११ ॥
त्रयाणां नेति कर्ता च शङ्करः परिकीर्तितः ।
अव्यक्तं ब्रह्म जानीहि तत् प्रोक्तं मोहवर्जितम् ॥ १२ ॥
त्रिविधं मोहयुक्तं वै तुरीयं मोहवर्जितम् ।
तेषां संयोगभावेन स्वानन्दः परिलभ्यते ॥ १३ ॥
स्वसंवेद्यात् परं ब्रह्म नास्ति संयोगधारकम् ।
सर्वत्राऽयं निजानन्दः स्वानन्दे सकलो भवेत् ॥ १४ ॥
अयोगवाचकं ब्रह्म निजानन्दात् परं मतम् ।
संयोगहीनभावेन लभ्यते नात्र संशयः ॥ १५ ॥
संयोगायोगयोर्योगे तयोर्नाशे महामुने ।
स एव योग आख्यातः शान्तिरूपेण लभ्यते ॥ १६ ॥
स एव गणनाथोऽयं जानीहि ब्रह्मनायकः ।
गकारश्चैव संयोगो णकारो योग उच्यते ॥ १७ ॥
तयोः स्वामी स वेदेषु विचारय महामते ।
तमाराधय यत्नेन ततः सौख्यमवाप्स्यसि ॥ १८ ॥
अधुना त्वं सुसङ्कष्टयुक्तस्तत्र कुरुष्व भो ।
चतुर्थीं कृष्णपक्षस्य ध्यात्वा हृदि गजाननम् ॥ १९ ॥
[[१४४]]
समुद्रगर्वं त्वं तेन हरिष्यसि महाद्भुतम् ।
तपोवनं तात गच्छ व्यवसायं करोम्यहम् ॥ २० ॥
गृत्समद उवाच ।
ब्रह्माणं स नमस्कृत्य ययौ स्वकतपोवनम् ।
षडक्षरेण विघ्नेशं तोषयन् मुनिसत्तमः ॥ २१ ॥
सदा ध्यानरतो भूत्वा तताप तप उत्तमम् ।
सङ्कष्टहरणीं प्राप्तां चतुर्थीं स चकार ह ॥ २२ ॥
त्रिमासे प्रगते तुष्टो गणेशो व्रतसेवया ।
ध्यानेन तस्य प्रह्लाद तपसा भक्तिभावतः ॥ २३ ॥
पञ्चम्यां कृष्णपक्षस्य बभूवाकाशवाक् परा ।
अगस्त्यस्तत्र शुश्राव तां वाणीं सुखदायिनीम् ॥ २४ ॥
गच्छ त्वं पिब विघ्नेशं स्मृत्वा तं जलधिं मुने ।
वातापिं जहि तत्रस्थं तपस्तेजःसमन्वितः ॥ २५ ॥
ततः स हर्षितो भूत्वा गत्वा जलधिसन्निधौ ।
गणेशं मनसा ध्यात्वा पपौ तं क्रोधसंयुतः ॥ २६ ॥
शोषयित्वा जलं सर्वं संस्थितो मुनिसत्तमः ।
तेजसा ज्वालयामास वातापिं विप्रघातिनम् ॥ २७ ॥
ततो देवगणाः सर्वे तुष्टवुस्तं महामुनिम् ।
दैत्यांस्तत्र स्थितान् सर्वान् जघ्नुर्देवा उदायुधैः ॥ २८ ॥
पुनर्गङ्गां समानीयोदधिमापूर्य तज्जलैः ।
भगीरथेन देवास्ते संस्थिता विगतज्वराः ॥ २९ ॥
ततोऽगस्त्यः समागम्य वातापिनगरं प्रभुः ।
राजभिः पुष्कलं द्रव्यं गृहीत्वा स्वस्थलं ययौ ॥ ३० ॥
लोपामुद्रां महातेजास्तोषयामास यत्नतः ।
पश्चात्तपसि संस्थोऽसावजपन् मन्त्रमुत्तमम् ॥ ३१ ॥
जित्वा पञ्चविधं चित्तं योगीन्द्रो योगसेवया ।
ततो महायशाः शान्तिमापेदे गणनायके ॥ ३२ ॥
पुनर्भक्त्या गणेशानं मयूरे तं समागतः ।
क्षेत्रे तत्रापूजयत् स नित्यं हर्षसमन्वितः ॥ ३३ ॥
एवं पुष्टिपतेश्चैव महिमा ते निरूपितः ।
सङ्क्षेपेण मया दैत्य शृणु चिन्तामणेः कथाम् ॥ ३४ ॥
इदं पुष्टिपतेश्चित्रं चरितं यः शृणोति वा ।
पठेच्च सकलं तस्य हस्तगं प्रभवेत् ध्रुवम् ॥ ३५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते पुष्टिपतिचरितं नामाष्टषष्टितमोऽध्यायः ॥