॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
एवं परस्परं शप्त्वा खेदयुक्ता बभूविरे ।
गतगर्वाश्च सर्वे ते विचारं चक्रुरादरात् ॥ १ ॥
अहं गोलोकराजोऽहं सर्वाधीशो न संशयः ।
इयं प्रकृतिरूपा मे कृतौ केनापराधिनौ ॥ २ ॥
कृष्णोऽहं सर्वदेवेश अपि मां विघ्न उत्थितः ।
अतो वै विघ्नराजः स गणेशः कुरुतेऽखिलम् ॥ ३ ॥
हिताहितं न सन्देहस्तदाधारमिदं जगत् ।
सस्त्रीकः शरणं यामि ब्रह्माकारमतश्च तम् ॥ ४ ॥
एवं विचार्य देवेशः सस्त्रीको मित्रसंयुतः ।
पपात भगवान् कृष्णो मृत्युलोके महामुने ॥ ५ ॥
मथुरायां च देवक्यां वसुदेवात् समुद्भवः ।
कृष्णो यादववंशे वै तेषां स सुखदोऽभवत् ॥ ६ ॥
वृषभानुसुता जाता राधा सा गोकुले मुने ।
शङ्खचूडो बभूवाऽथ श्रीदामाऽसुरसत्तमः ॥ ७ ॥
ततश्च गोकुलं कृष्णः कंसस्यैव भयाद्ययौ ।
तत्र राधासमायुक्तो बभूव स जनार्दनः ॥ ८ ॥
ततो विघ्नेशमत्यन्तं भेजतुस्तौ स्वभावतः ।
षोडशाक्षरमन्त्रेण परे तपसि संस्थितौ ॥ ९ ॥
पुरश्चरणमेकं तौ चक्रतुः परमादरात् ।
बभूवतुस्ततो ध्यानसमायुक्तौ निरन्तरम् ॥ १० ॥
तपस्त्यक्त्वा तस्य हृदि ध्यानयुक्तौ विशेषतः ।
तपसोऽधिकमुग्रं वै ध्यानं शास्त्रेषु सम्मतम् ॥ ११ ॥
संवत्सरान् स तत्रैव कृष्णश्चैकादश स्थितः ।
ततश्च मथुरायां स जगामाक्रूरसंयुतः ॥ १२ ॥
शतवर्षं वियोगेन राधाकृष्णौ बभूवतुः ।
युक्तौ परमदुःखार्तौ ध्यायन्तौ गणनायकम् ॥ १३ ॥
ततस्तयोश्च सम्प्राप्तो योगः शान्तिप्रदायकः ।
तेन सन्तोषमापन्नौ गाणपत्यौ बभूवतुः ॥ १४ ॥
गते वर्षशते विप्र जग्मतुस्तौ सहानुगौ ।
वैशाखपूर्णिमायां वै मुने बदरिकाश्रमम् ॥ १५ ॥
तत्र शम्भुमुखा देवाः सस्त्रीकाश्च समागताः ।
यात्रार्थं गणनाथस्य मुनयश्च ययुर्मुदा ॥ १६ ॥
शेषादयो महानागा राजानश्च विशेषतः ।
त्रिलोकस्था जनाः सर्वे जग्मुस्तत्र महामुने ॥ १७ ॥
योगिनः कपिलाद्याश्च तत्राऽहं सङ्गतो मुने ।
सर्वैर्महोत्सवस्तत्र वार्षिकः क्रियते सदा ॥ १८ ॥
ततस्तं पूजयित्वा ते सर्वे चोपोषणान्विताः ।
स्थिताश्चक्रुः प्रतिपदि पारणं ते महामुने ॥ १९ ॥
तत्र राधा च कृष्णश्च मिलितौ गणपं निशि ।
ध्यायन्तौ भावसंयुक्तौ जेपतुर्मन्त्रमुत्तमम् ॥ २० ॥
[[१४२]]
ततस्तयोर्गणेशानो दर्शयामास चोत्तमम् ।
रूपं चतुर्भुजं साक्षाद्गजवक्त्रादिचिह्नितम् ॥ २१ ॥
तं दृष्ट्वा सहसोत्थाय नेमतुश्चरणाम्बुजे ।
सरोमाञ्चौ तुष्टुवतुः साश्रुनेत्रौ गणेश्वरम् ॥ २२ ॥
राधाकृष्णावूचतुः ।
नमस्तुभ्यं पुष्टिपते नमः शङ्करसूनवे ।
ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥ २३ ॥
स्वानन्दवासिने तुभ्यं ब्रह्मपुत्राय ते नमः ।
सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥ २४ ॥
हेरम्बाय नमस्तुभ्यं नमो योगमयाय च ।
सर्वादये च सर्वेश सर्वज्ञाय नमो नमः ॥ २५ ॥
निगुर्णाय नमस्तुभ्यं सगुणाय नमो नमः ।
गजाननाय वै तुभ्यमभेदाय तयोर्नमः ॥ २६ ॥
शान्तिरूपाय शान्ताय शान्तिदाय महोदर ।
मूषकश्रेष्ठयानाय गाणपत्यप्रियाय ते ॥ २७ ॥
अनन्तानन्तरूपाय भक्तसंरक्षकाय च ।
भक्तिप्रियाय देवाय भक्त्यधीनाय ते नमः ॥ २८ ॥
चतुर्बाहुधरायैव नागयज्ञोपवीतिने ।
शूर्पकर्णाय शूराय परशोर्धर ते नमः ॥ २९ ॥
विष्णुपुत्राय सर्वेषां पित्रे मात्रे नमो नमः ।
विनायकाय विप्राणां पुत्राय च नमो नमः ॥ ३० ॥
सर्वेषां गर्वहन्त्रे च सर्वेभ्यः सुखदाय ते ।
लम्बोदराय विघ्नेश ब्रह्मनायक ते नमः ॥ ३१ ॥
किं स्तुवस्त्वां गणाधीश यत्र वेदादयः प्रभो ।
शम्भुः शुकादयश्चैव बभूवुः कुण्ठिताः परम् ॥ ३२ ॥
आवां गर्वयुतौ जातौ ब्रह्माकारौ वृथा प्रभो ।
तव तत्र च विघ्नेन कृतं गर्वस्य खण्डनम् ॥ ३३ ॥
साधूनां विघ्नदाता त्वं शान्तियोगार्थमञ्जसा ।
असाधूनां विनाशाय ह्यतस्त्वां प्रणमावहे ॥ ३४ ॥
विघ्नयुक्ततया ढुण्ढे आवाभ्यां योगसेवया ।
साक्षात्कारकृतस्त्वं वै समीचीनमिदं कृतम् ॥ ३५ ॥
हृदि चिन्तामणिं त्वां च पश्यावः सततं प्रभो ।
अतः स शुभदो विघ्नः सञ्जातो नौ गजानन ॥ ३६ ॥
अधुना देहि विघ्नेश भक्तिं ते चरणाम्बुजे ।
दृढां यया च गर्वेण न भवावः समायुतौ ॥ ३७ ॥
इत्युक्त्वा तं ननृततुः प्रणम्यैव मुदान्वितौ ।
धन्यौ धन्यौ प्रब्रुवन्तौ दर्शनाद्गणपस्य तौ ॥ ३८ ॥
ब्रह्मोवाच ।
जगाद गणनाथस्तौ ततो वै भक्तिभावितः ।
दृष्ट्वा ब्रह्मरसाह्लादयुतौ राधाजनार्दनौ ॥ ३९ ॥
पुष्टिपतिरुवाच ।
भो राधे कृष्ण मे वाक्यं शृणुतं जगदीश्वरौ ।
मदीयां भक्तिमत्यन्तं संशयो न करिष्यथः ॥ ४० ॥
सङ्कटे स्मरणेनैव प्रकटः सम्भवाम्यहम् ।
यं यमिच्छथ आनन्दं सफलः स भविष्यति ॥ ४१ ॥
भवत्कृतमिदं स्तोत्रं पठतां शृण्वतां नृणाम् ।
सर्वसिद्धिप्रदं पूर्णं भविष्यति सुरेश्वरौ ॥ ४२ ॥
मत्प्रीतिवर्धनं नित्यं वाञ्छितार्थकरं भवेत् ।
अन्ते स्वानन्ददं कृष्ण भविष्यति न संशयः ॥ ४३ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
तौ तं हृदि विशेषेण पश्यन्तौ तस्थतुर्निशि ॥ ४४ ॥
ततः पुनश्च गोलोके गतौ राधाहरी स्वके ।
बभूवतुरखण्डैश्वर्यसंयुक्तौ महामुने ॥ ४५ ॥
[[१४३]]
अतस्त्वं मदहीनश्च शरणं गणपं व्रज ।
अगस्त्य तेन ते वाञ्छां पूरयिष्यति स प्रभुः ॥ ४६ ॥
ब्रह्माण्डं वर्तते तस्याऽऽधारेण मुनिसत्तम ।
सर्वत्र गणनाथोऽयं क्रीडति स्वेच्छया स्वयम् ॥ ४७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते राधाकृष्णगोलोकप्राप्तिवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥