६६ कृष्णराधाशापवर्णनम्

॥ श्रीगणेशाय नमः ॥

गृत्समद उवाच ।

अगस्त्यो राजभिर्युक्तो ब्राह्मणैश्च समन्वितः ।
वातापेः सुस्थलं रम्यं ययौ क्रोधसमन्वितः ॥ १ ॥

तमागतं स विज्ञाय वातापिर्हर्षितो ययौ ।
प्रणम्य प्रत्युवाचेदं वचनं विनयान्वितः ॥ २ ॥

वातापिरुवाच ।
स्वामिंस्ते स्वागतं मेऽद्य भाग्यं सुफलितं महत् ।
ब्राह्मणै राजभिः सार्धं प्रपश्यामीऽह तापसम् ॥ ३ ॥

श्राद्धं मे भगवन्नद्य पितुरत्र समागतम् ।
निमन्त्रयाम्यहं सर्वैस्त्वां महाभाग वै सह ॥ ४ ॥

जगाद तं तथेत्येव दैत्यः संहर्षितोऽभवत् ।
इल्वलं पशुभावस्थं कृत्वा सञ्छिद्य दैत्यपः ॥ ५ ॥

पपाच विधिवन्मांसं ब्राह्मणार्थं विधानवित् ।
ततोऽगस्त्यं समायातं भोजनार्थं सहानुगम् ॥ ६ ॥

विधिवत् पूजयित्वा तं स्थापयामास चासने ।
तेनाङ्गुष्ठेन भूमिः सा पीडिता मुनिना कृतः ॥ ७ ॥

गर्तस्तत्र च सर्वान्नं पूरितं दैत्यदेहजम् ।
तज्ज्ञात्वा विस्मितो दैत्यो न किञ्चित्तमुवाच ह ॥ ८ ॥

अन्यान् सर्वान् सुभोज्येन भोजयामास चान्धसा ।
अगस्त्यः सकलं भुक्त्वा चान्नमिल्वलजं महत् ॥ ९ ॥

मन्त्रेण वैदिकेनाऽसौ मन्त्रयामास चोदरम् ।
तस्य मन्त्रप्रभावेण दैत्यः सञ्जीर्णतां गतः ॥ १० ॥

[[१३९]]

अपानवायुरत्युग्रो निःसृतो धूलिमुद्वहन् ।
तेन नादेन सर्वे ते विस्मिताः प्रबभूविरे ॥ ११ ॥

ततो मुनिः समुत्तस्थौ मुखप्रक्षालनाय च ।
क्षालयित्वा स हस्तादि संस्थितः स महाधने ॥ १२ ॥

ततो वातापिना भ्रातै?र्हीत्याहूतोऽभवत्तदा ।
उवाच मुनिशार्दूलस्ततस्तं दैत्यपुङ्गवम् ॥ १३ ॥

स मृतो मे च मन्त्रेण सञ्जीर्णो जठरऽधुना ।
अधुना त्वां हनिष्यामि दुष्ट ब्राह्मणहिंसकम् ॥ १४ ॥

पलायत स तच्छ्रुत्वा वातापिर्भयसङ्कुलः ।
ततः सराजका विप्राः स्थापिता मुनिनाऽमुना ॥ १५ ॥

तत्रैव स्वयमेनं तमगमत् दैत्यनायकम् ।
अगस्त्यः पृष्ठगं दृष्ट्वा समुद्रं शरणं ययौ ॥ १६ ॥

वातापिस्तेन दैत्येन्द्रः स्थापितः स्वजलेऽभवत् ।
ततस्तं जलाधिं विप्र उवाच क्रोधसंयुतः ॥ १७ ॥

देहि दैत्यं समुद्र त्वं नोचेच्छापं ददाम्यहम् ।
ततोऽगस्त्यं समुद्रश्च जगाद भयसङ्कुलः ॥ १८ ॥

स्वभावो मे महाभाग अतो नाऽहं ददामि तम् ।
दैत्या देवभयाद्विप्र शरणं मामुपागताः ॥ १९ ॥

अन्ये पर्वतभूपाश्च न दत्तास्ते मया मुने ।
अतस्त्वां प्रार्थयामीह कृपां कुरु दयानिधे ॥ २० ॥

त्यक्त्वा दैत्यं मुनिश्रेष्ठ गच्छ त्वं प्रणमाम्यहम् ।
क्षुभितोऽभूत्ततोऽगस्त्यो गर्विष्ठोऽयं महोदधिः ॥ २१ ॥

मदमस्य हरिष्यामि तादृशं न ददर्श ह ।
ततो मुनिर्विधातारं शरणं वै जगाम ह ॥ २२ ॥

?प्रणम्य लोकनाथं तं पप्रच्छ च जगद्गुरुम् ॥ २३ ॥

अगस्त्य उवाच ।

स्वामिन् समुद्रसम्मग्नो वातापिर्द्विजहिंसकः ।
तदर्थं जलधिं नाथ शोषयामि मदान्वितम् ॥ २४ ॥

तत्रोपायं वद ब्रह्मन् तं करिष्यामि यत्नतः ।
त्वं सर्वज्ञश्च सर्वेषां पितामह विशेषतः ॥ २५ ॥

एवं तस्य वचः श्रुत्वा तं जगाद महामुनिम् ।
अगस्त्यं लोकनाथस्तु हर्षयुक्तेन चेतसा ॥ २६ ॥

ब्रह्मोवाच ।
शृणु पुत्र महाभाग गर्विष्ठोऽयं महोदधिः ।
अधर्मचारिणो दैत्या रक्षितास्तेन निश्चितम् ॥ २७ ॥

वातापिरधुनाऽरक्ष्यः सत्कृतस्तेन पुत्रक ।
अतस्तच्छोषणार्थाय गणपं शरणं व्रज ॥ २८ ॥

तस्य तद्वचनं श्रुत्वा जगाद स पितामहम् ।
कथं त्यक्त्वा विधे देवान् गणेशानं प्रशंससि ॥ २९ ॥

ततस्तं मुनिमुख्यं स ब्रह्मोवाच प्रजापतिः ।
शृणु पुत्र महाभाग कथां पापप्रणाशिनीम् ॥ ३० ॥

विघ्नकर्ता च तद्धर्ता गणेशोऽयं न संशयः ।
तेन विघ्नेश्वरो नाम्ना वर्तते सर्वमण्डले ॥ ३१ ॥

विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः ।
सर्वसत्ताधरः पूर्णस्तस्मात्तं कथयाम्यहम् ॥ ३२ ॥

अन्यच्च शृणु पुत्र त्वं विनायक इति श्रुतिः ।
नायकैः सेव्यते सर्वैः स्वस्वकार्यार्थमादरात् ॥ ३३ ॥

नायकैर्वर्जितः साक्षात्तेन स्वाधीनतां गतः ।
संसृष्टं सकलं विश्वं कलांशेन महामुने ॥ ३४ ॥

स्वस्वाधिकारसंयुक्ता कलांशजविभूतयः ।
समुद्रस्तासु तं पुत्र चालितुं न क्षमा वयम् ॥ ३५ ॥

अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् ।
श्रवणात् संशयस्ते च नाशमेष्यति निश्चितम् ॥ ३६ ॥

गोलोके राधया युक्तः कृष्णो गोलोकवासिभिः ।
उवास तत्र देवेशः सर्ववन्द्यः प्रतापवान् ॥ ३७ ॥

सर्वेषां मदहन्ता स जातः स्वस्यैव तेजसा ।
अस्माकं पालको भूत्वा विघ्नहीनः स्वभावतः ॥ ३८ ॥

तथा राधाऽपि देवीनां मदस्य हरणं बलात् ।
कृत्वा वन्द्या स्वयं भूत्वोवास विघ्नविवर्जिता ॥ ३९ ॥

त्रिपुरादिभिरुग्रैश्च परस्परविरोधतः ।
विघ्नयुक्ताः शिवाद्यास्ते शरणं त्वगमन् परम् ॥ ४० ॥

अन्याशरणकृष्णस्य हृदि गर्वः समागतः ।
सततं मदयुक्तः स बभूव परमाद्भुतः ॥ ४१ ॥

अहं ब्रह्मेति यत् प्रोक्तं तदेवाऽहं न संशयः ।
मदाधारमिदं सर्वं तस्मान्नान्योऽस्ति मत्परः ॥ ४२ ॥

मदनुग्रहमात्रेण देवाः शम्भुपुरोगमाः ।
शक्ताः स्वव्यवहारेषु तस्मान्नान्योऽस्ति मत्परः ॥ ४३ ॥

एवं मनसि गर्वेण मदेन च समाकुलः ।
मदयुक्ता तथा राधा बभूव मुनिसत्तम ॥ ४४ ॥

ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् ।
स्वभक्तिभावदानार्थं शान्तियोगार्थमादरात् ॥ ४५ ॥

विररामैकदा युक्तो राधया वनमण्डले ।
रतिक्रीडासमायुक्तो बभूवे कामसंयुतः ॥ ४६ ॥

तत्रैका नायिका तस्य प्रीतिदा विरजाऽभवत् ।
तया संस्मरणं सद्यः कृतं कृष्णस्य तत्क्षणे ॥ ४७ ॥

अधः स्थितां परित्यज्य राधां कृष्णो ययौ मुने ।
विरजां स तया सार्धं क्रीडासक्तो बभूव ह ॥ ४८ ॥

ततः सङ्कुपिता राधा रतिभङ्गेन मानद ।
जगाद याः समीपस्था गोपिका वचनं तदा ॥ ४९ ॥

कुत्र दृष्टो महामानी कृष्णः स्त्रीलम्पटाग्रणीः ।
तं मां वदत वै देव्यस्त्यजामि मनसा पतिम् ॥ ५० ॥

ततस्तां गोपिका काचिदुवाच विनयान्विता ।
विरजाया मया राधे दृष्ट आश्रमसन्निधौ ॥ ५१ ॥

ततः सा क्रोधताम्राक्षी रथोपरि ययौ स्थिता ।
विरजाश्रमसान्निध्यं गोपीभिः संवृता मुने ॥ ५२ ॥

तामागतां समाज्ञाय कृष्णश्चान्तर्दधे भयात् ।
विरजा जलरूपा सा जाता भयसमन्विता ॥ ५३ ॥

तया न दृष्टः सस्त्रीको देवेशस्तत्र राधया ।
पुनः स्वमन्दिरे गत्वाऽतिष्ठच्च क्रोधसंयुता ॥ ५४ ॥

ततः स प्रकटः कृष्णो बभूव ह चकार ताम् ।
स्त्रीरूपां जलभावस्थां चिक्रीड भृशहर्षितः ॥ ५५ ॥

सन्तोषेण समायुक्तां कृत्वा स विरजां ययौ ।
राधां द्वारसमीपे चागतं वीक्ष्य जगाद सा ॥ ५६ ॥

राधोवाच ।
किमर्थं लम्पटोऽत्यन्तमागतोऽसि ममान्तिकम् ।
गच्छ तां विरजां देव कदा न त्वां स्पृशाम्यहम् ॥ ५७ ॥

मदीयसत्तया लोको रचितोऽयं मया पुरा ।
त्यक्त्वा लोकं मदीयं वै गच्छ त्वं यत्र ते रुचिः ॥ ५८ ॥

इत्यादिविविधैर्वाक्यैः पतिं निर्भत्स्य राधिका ।
शशाप क्रोधसंयुक्ता मृत्युलोके पतेति तम् ॥ ५९ ॥

ततः शप्तं च तं ज्ञात्वा श्रीदामा गोपनायकः ।
न्यभर्त्सयत् स तां क्रुद्धः कृष्णमित्रं प्रतापवान् ॥ ६० ॥

[[१४१]]

तमतिक्रोधसंयुक्ता राधिका ह्यसुरो भव ।
शशाप सा मुनिश्रेष्ठ सोऽपि क्रोधयुतोऽभवत् ॥ ६१ ॥

राधां शशाप मर्त्येषु भव नारी त्वमञ्जसा ।
शतवर्षाणि कृष्णस्य वियोगेन समन्विता ॥ ६२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते कृष्णराधाशापवर्णनं नाम षट्षष्टितमोऽध्यायः ॥