६५ अगस्त्यस्यद्रव्यप्रयत्नः

॥ श्रीगणेशाय नमः ॥

गृत्समद वाच ।
ततः स दैत्यराजोऽपि स्वसेनासंवृतो ययौ ।
रथारूढो महातेजाः शस्त्रास्त्रैः संयुतो बभौ ॥ १ ॥

दुर्मतिर्गणपं दृष्ट्वा चुकोपाऽतितरां खलः ।
आज्ञापयत् स्वसेनां वै देवानां कदनाय च ॥ २ ॥

ततो दैत्याश्च देवास्ते युयुधुश्चातिदारुणम् ।
असम्बद्धं महाक्रोधा जग्मुः सप्त च वासराः ॥ ३ ॥

देवसेना ततो भग्ना पलायत दिशो दश ।
भयभीता ततः क्रोधाद्युयुधे शङ्करो भृशम् ॥ ४ ॥

ततो दुर्मतिना तत्र कृतं युद्धं महाद्भुतम् ।
मूर्च्छिताः पतिताः केचिद्देवेशाः खण्डिताः शरैः ॥ ५ ॥

शम्भुं विष्णुं च देवेन्द्रं सर्वानन्यान् सुमूर्च्छितान् ।
तान् दृष्ट्वा गणराजस्तु क्रोधयुक्तो बभूव ह ॥ ६ ॥

मूषकारुढ एवाऽसौ सङ्ग्रामाय समाययौ ।
तं दृष्ट्वा दुर्मतिः प्राह क्रोधारुणविलोचनः ॥ ७ ॥

दुर्मतिरुवाच ।
किमर्थं मूर्खभावेन युद्धाय समुपागतः ।
बाणेनैकेन हन्मि त्वां पश्य मे पौरुषं खल ॥ ८ ॥

ब्रह्माण्डं निर्जितं येन तेन युद्धं करिष्यसि ।
अज्ञानेनावृतो नूनं गच्छ त्वां नैव हन्म्यहम् ॥ ९ ॥

एवं वदन्तमुग्रं तं दैत्येशं दुर्मतिं प्रभुः ।
जगाद हास्यसंयुक्तः पतिः पुष्टेः प्रतापवान् ॥ १० ॥

पुष्टिपतिरुवाच ।
मा गर्वं कुरु दैत्येश दुर्मते शृणु मे वचः ।
त्वां हनिष्यामि नूनं च पश्य मे पौरुषं महत् ॥ ११ ॥

इत्युक्तवन्तमप्येनं दुर्मतिः सहसा ययौ ।
दन्तं धृत्वा गणेशस्याकर्षयत् क्रोधसंयुतः ॥ १२ ॥

महाबलेन दैत्येन वामदन्तः प्रपातितः ।
भं?क्त्त्वा स धरणी पृष्ठे तं दन्तं गणपोऽग्रहीत् ॥ १३ ॥

दन्तेन शिरसि प्रोतो दुर्मतिः स ममार ह ।
ततः पुष्टिपतिर्देवान् सावधानांश्चकार ह ॥ १४ ॥

ततो दैत्यगणाः सर्वे पलायन्त दिशो दश ।
पातालं जग्मुरत्यन्तं भयभीताः समन्ततः ॥ १५ ॥

ततो देवेश्वरास्तत्र मुनयो हर्षसंयुताः ।
अपूजयंस्तथा पुष्टिपतिं ते तुष्टुवुः पुनः ॥ १६ ॥

देवर्षय ऊचुः ।
जय देव गणाधीश जय विघ्नहराव्यय ।
जय पुष्टिपते ढुण्ढे जय सर्वेश सत्तम ॥ १७ ॥

जयानन्त गुणाधार जय सिद्धिप्रद प्रभो ।
जय योगेन योगात्मन् जय शान्तिप्रदायक ॥ १८ ॥

जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियङ्कर ।
जय स्वानन्दपस्थायिन् जय वेदविदांवर ॥ १९ ॥

[[१३७]]

जय वेदान्तवादज्ञ जय वेदान्तकारण ।
जय बुद्धिधर प्राज्ञ जय सर्वामरप्रिय ॥ २० ॥

जय मायामये खेलिन् जयाव्यक्त गजानन ।
जय लम्बोदरः साक्षिन् जय दुर्मतिनाशन ॥ २१ ॥

जयैकदन्तहस्तस्त्वं जयैकरदधारक ।
जय योगिहृदिस्थ त्वं जय ब्राह्मणपूजित ॥ २२ ॥

जय कर्म तपोरूप जय ज्ञानप्रदायक ।
जयामेय महाभाग जय पूर्णमनोरथ ॥ २३ ॥

जयानन्द गणेशान जय पाशाङ्कुशप्रिय ।
जय पर्शुधर त्वं वै जय पावनकारक ॥ २४ ॥

जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय ।
जय भक्तेश विघ्नेश जय नाथ महोदर ॥ २५ ॥

नमो नमस्ते गणनायकाय नमो नमस्ते सकलात्मकाय ।
नमो नमस्ते भवमोचनाय नमो नमस्तेऽतिसुखप्रदाय ॥ २६ ॥

इति स्तुत्वा गणाधीशं प्रणेमुस्तं महामते ।
उत्थाय ननृतुः सर्वे हर्षयुक्ताः सुरर्षयः ॥ २७ ॥

तेषां महोत्सवं दृष्ट्वा तान् जगाद महाप्रभुः ।
प्रसन्नात्मा पुष्टिपतिर्भक्तान् भक्तप्रियङ्करः ॥ २८ ॥

पुष्टिपतिरुवाच ।
भवत्कृतमिदं स्तोत्रं यः पठिष्यति नित्यशः ।
श्रोष्यते सकलं तस्य जयरूपं भविष्यति ॥ २९ ॥

पठनाच्छ्रवणादस्य सर्वं जयति मानवः ।
अन्ते मदीयसायुज्यं प्राप्नोत्यत्र न संशयः ॥ ३० ॥

एवमु?क्त्वान्तर्दधेऽसौ पतिः पुष्टेर्गणेश्वरः ।
देवाश्च मुनयः सर्वे विस्मिता अभवंस्तदा ॥ ३१ ॥

स्वे स्वे पदे च ते जग्मुर्यथा सुखरताः पुरा ।
तथा पुनःस्वलोकस्था मोदन्ते स्म च तत्पराः ॥ ३२ ॥

स्वाचारं मुनयश्चक्रुर्वर्णाश्रमरता जनाः ।
बभूवुरभजंस्तं ते स्वधर्मेण गजाननम् ॥ ३३ ॥

शिवश्च शक्तिसंयुक्तस्तमेव हृदये स्थितम् ।
अभजत् भावयुक्तश्च गाणपत्यः प्रतापवान् ॥ ३४ ॥

मूर्तिं चक्रुर्गणेशस्य स्थापयामासुरादरात् ।
वैशाखपूर्णिमायां चाभवत्तत्र महोत्सवः ॥ ३५ ॥

तत्र सिद्धिरनुप्राप्ता शिवेन ननु मानद ।
चक्रुः सिद्धाश्रमं नाम्ना क्षेत्रं देवर्षयः परम् ॥ ३६ ॥

तत्रैव सिद्धिमापन्ना देवा ब्रह्मर्षयः पुरा ।
सनकाद्या महात्मानो गाणेशास्तेऽभवंस्ततः ॥ ३७ ॥

अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् ।
अगस्त्यस्य च संवादयुक्तं च ब्रह्मणः पुरा ॥ ३८ ॥

एकदा वनगो भूत्वाऽगस्त्यस्तपसि संस्थितः ।
लोपामुद्रा च सेवायां रता पत्नी तथाऽभवत् ॥ ३९ ॥

राजपुत्री महाभागा पातिव्रत्यपरायणा ।
सुकुमाराऽभवत्तत्र कर्षिता सेवनोत्सुका ॥ ४० ॥

घर्मेण सकलं व्याप्तं वपुस्तस्या रजोयुतम् ।
शिरो जटायुतं वीक्ष्य तुतोष मुनिसत्तमः ॥ ४१ ॥

तामुवाच वरं ब्रूहि दास्येऽहं भावयन्त्रितः ।
सोवाच राजभोगेन युक्तं देहि मुने ऋतुम् ॥ ४२ ॥

ततः स राजभोगार्थं द्रव्येप्सुश्च समागतः ।
राजानं याचनार्थाय सार्वभौमं ययाच वै ॥ ४३ ॥

दिलीपस्तमुवाचाथ कियन्मानं धनं वद ।
दास्यामि भावसंयुक्तस्तुभ्यं तत्तापसोत्तम ॥ ४४ ॥

राज्ञो वचनमाकर्ण्योवाच तं मुनिसत्तमः ।
व्ययादुर्वरितं यन् मे धनं देहि सुपुष्कलम् ॥ ४५ ॥

[[१३८]]

ततो दिलीपो राजा तं जगाद व्ययमानकम् ।
द्रव्यं मेऽस्ति महाभाग तस्मात् सङ्ख्यां वदस्व भो ॥ ४६ ॥

जगाद मुनिशार्दूलः ततस्तं विस्मयान्वितः ।
न ग्रहीष्यामि ते द्रव्यं दरिद्रस्य न संशयः ॥ ४७ ॥

मया द्रव्यं त्वदीयं वै गृहीतं चेन्नराधिप ।
तदा सर्वे जना राजन् भवन्ति च निपीडिताः ॥ ४८ ॥

अतस्त्वं राजभिर्युक्तश्चल शीघ्रं नराधिप ।
मया सार्धं महद् द्रव्यं यत्र वै सञ्चितं भवेत् ॥ ४९ ॥

ततो राजा च वृत्तान्तं कथयामास तं मुनिम् ।
वातापिर्दैत्यपोऽगस्त्यद्रव्ययुक्तो भवत्यपि ॥ ५० ॥

देवैरवध्यतां प्राप्य हन्ति विप्रांश्च नित्यशः ।
पशुं कृत्वाऽनुजं दुष्ट इल्वलं श्राद्धकर्मणि ॥ ५१ ॥

देवानां निधनार्थाय कर्ममूलनिकृन्तनः ।
अखिलं ब्राह्मणाधारं कर्म तेन हिनस्ति तत् ॥ ५२ ॥

इल्वलश्चाऽपि योगीन्द्र वरयुक्तप्रभावतः ।
गत्वोदरे कामरूपो वाताप्याहूत एव सः ॥ ५३ ॥

तदा तेषां नखेनैव स्फोटयित्वा महोदरम् ।
निर्गत्य पूर्ववद्देहसंयुक्तो भवतीत्यहो ॥ ५४ ॥

अतस्त्वं गच्छ योगीन्द्र तं हत्वा द्रव्यसञ्चयम् ।
गृहाणास्माभिरत्यन्तं वातापिं भ्रातृसंयुतम् ॥ ५५ ॥

दिलीपस्य वचः श्रुत्वा हर्षयुक्तो महामुनिः ।
राजभिर्ब्राह्मणैर्युक्तस्तत्र गन्तुं मनो दधे ॥ ५६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते पुष्टिपत्युपाख्याने अगस्त्यस्यद्रव्यप्रयत्नो नाम पञ्चषष्टितमोऽध्यायः ॥