॥ श्रीगणेशाय नमः ॥
प्रल्हाद उवाच ।
किमर्थं दुःखितो देवः शनिस्तत्र बभूव ह ।
तन्मे त्वं सकलं ब्रूहि रविपुत्रस्य चेष्टितम् ॥ १ ॥
गृत्समद उवाच ।
शृणु तत्रैव सञ्जातं वृत्तान्तं साधुसत्तम ।
तेन ते सर्वसन्देहो नाशं यास्यति निश्चितम् ॥ २ ॥
शनिरुवाच ।
शृणु शक्ते महामाये एकदाऽहं गृहे स्थितः ।
सूर्यपूजनसंशीलो ध्याननिष्ठोऽभवं पुरा ॥ ३ ॥
निशि तत्र समायाता पत्नी मे वेषधारिणी ।
भूषणैर्भूषिता सर्वैर्मां जगाद सुविह्वला ॥ ४ ॥
ऋतुदानमिदानीं त्वं मह्यं देह्येव भानुज ।
पश्य मां सर्वशृङ्गारयुक्तां भर्तर्नमोऽस्तु ते ॥ ५ ॥
अहं ध्यानसमायुक्तो नाऽपश्यं च हि तां प्रियाम् ।
द्विमुहूर्ते गते सा मां शशाप क्रोधसंयुता ॥ ६ ॥
यदि मां पश्यसि न च भर्तस्त्वं विफलं ऋतुम् ।
करोषि तेन दृष्टं यत्त्वया नष्टं भविष्यति ॥ ७ ॥
एवमुक्त्वा गता सा वै तदहादहमञ्जसा ।
न पश्यामि कदा कुत्र जगदम्ब यथायथम् ॥ ८ ॥
तस्य तद्वचनं श्रुत्वा जगदम्बा तमब्रवीत् ।
पश्य त्वं ग्रह वै ढुण्ढिं तेन सर्वं शुभं भवेत् ॥ ९ ॥
एवमुक्तः शनिस्तत्र गणेशानमलोकयत् ।
सर्वाङ्गैः शोभमानं वै सस्त्रीकं साधुसत्तम ॥ १० ॥
ततस्तस्य गणेशस्य मस्तकं सहसा गतम् ।
अन्तर्धानं च तद् दृष्ट्वा हाहाकारो बभूव ह ॥ ११ ॥
मुहूर्ते प्रगते तत्र पुनस्तं देवविप्रपाः ।
अपश्यन् शिरसा युक्तं सर्वावयवसुन्दरम् ॥ १२ ॥
ततो हर्षयुताः सर्वे तुष्टुवुस्तं गजाननम् ।
शनिः प्रणतभावेन तुष्टाव गणनायकम् ॥ १३ ॥
शनिरुवाच ।
नमस्ते गणनाथाय पुष्टिकान्ताय ते नमः ।
विश्वम्भराय सर्वादिपूज्याय तु नमो नमः ॥ १४ ॥
सर्वेषां मातृरूपेण स्थितेयं पुष्टिकारिका ।
पिता त्वं पुष्टिदाता च सत्तारूपेण संस्थितः ॥ १५ ॥
क्षमस्वैतं चापराधं मदीयं गणनायक ।
पुत्रोऽहं ते महाभाग प्रार्थये द्विरदानन ॥ १६ ॥
किं स्तौमि त्वां च हेरम्ब योगरूपं सनातनम् ।
वेदाद्यैर्योगिभिः स्तोतुं शक्यते न नमाम्यहम् ॥ १७ ॥
तथापि बुद्धिप्रामाण्यात् स्तुवन्ति त्वां महेश्वराः ।
अतोऽहं त्वां महाराज स्तौमि भक्तिसमन्वितः ॥ १८ ॥
नमस्ते बुद्धिकान्ताय सिद्धिनाथ नमोऽस्तु ते ।
ब्रह्मणां पतये तुभ्यं हेरम्बाय नमो नमः ॥ १९ ॥
[[१३५]]
सगुणत्वे सरूपाय नैर्गुण्ये गजरूपिणे ।
तयोर्योगे च योगाय शान्तिरूपाय ते नमः ॥ २० ॥
पुन्नामनरकात्त्राता पुत्रस्तेन प्रकीर्तितः ।
शिवपुत्राय वै तुभ्यं गणेशाय नमो नमः ॥ २१ ॥
सिद्धिर्माया च वामाङ्गे मायिके दक्षिण च धीः ।
तयोरभेदयोगे त्वमेकदन्ताय ते नमः ॥ २२ ॥
एवमुक्त्वा प्रहर्षेण सरोमाञ्चो बभूव ह ।
प्रणनाम स साष्टाङ्गं भक्तिभावेन सम्प्लुतः ॥ २३ ॥
तमुत्थाप्य गणाधीशो जगाद स शनैश्चरम् ।
वरं वरय दास्यामि यस्ते चित्ते प्रवर्तते ॥ २४ ॥
त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ।
यः पठिष्यति यो मर्त्यः शृणुयात् सर्वदं भवेत् ॥ २५ ॥
ततस्तं गणनाथं स उवाच रविनन्दनः ।
भक्तिं देहि त्वदीयां मे शापान् मोचय मां प्रभो ॥ २६ ॥
ततस्तं गणराजश्च स जगादासुरेश्वर ।
भक्तिर्मदीया भविता दृढा सौरे न संशयः ॥ २७ ॥
क्रूरदृष्ट्या च यं कञ्चित् पश्यसि त्वं शनैश्चर ।
स एव नाशमायातु निःशापो भव सर्वदा ॥ २८ ॥
ततो विष्णुं जगामाऽसौ तं प्रणम्य च भानुजः ।
उवाच देहि मे नाथ गणेशोपासनां शुभाम् ॥ २९ ॥
ततस्तेन समाख्यातं कवचादिकमुत्तमम् ।
गीतासारं ददौ तस्मा एकाक्षरमनुं प्रभोः ॥ ३० ॥
ततस्तं प्रययौ गेहे प्रणम्य स शनैश्चरः ।
योगं च साधयामास गाणपत्यो बभूव ह ॥ ३१ ॥
ततः कियति काले च गते शङ्करमब्रवीत् ।
गणेशो भावयुक्तं यद्वचनं भक्तवत्सलः ॥ ३२ ॥
किं तात देवदेवेशैर्मुनिभिश्च सदाशिव ।
वनवासं करोषि त्वं वद कारणमत्र माम् ॥ ३३ ॥
जगाद शङ्करो हृष्टस्ततस्तं भक्तिभावितः ।
जगत् सर्वं दुर्मतिनाऽसुरेशेन पराजितम् ॥ ३४ ॥
ब्रह्माण्डाधिपतिः सोऽपि प्रजातो वरदानतः ।
अस्माकं सकलैश्वर्यं हृत्वा श्रेष्ठोऽभवत् स्वयम् ॥ ३५ ॥
गृत्समद उवाच ।
शिवस्य वचनं श्रुत्वा क्रोधयुक्तो बभूव ह ।
गजाननो जगादेदं वचनं हितकारकम् ॥ ३६ ॥
गणेश उवाच ।
मयि ते पुत्रतां याते दुर्लभं किं च ते भवेत् ।
हनिष्यामि महादैत्यं पश्य मे पौरुषं शिव ॥ ३७ ॥
एवमुक्त्वा महादेवं सन्नद्धः स गजाननः ।
मूषकारूढको भूत्वा त्वगमद्दैत्यनायकम् ॥ ३८ ॥
तमनु प्रययुर्देवा मुनयो भक्तितत्पराः ।
नगरप्रान्तभागे च स गत्वा संस्थितोऽभवत् ॥ ३९ ॥
दूतं सम्प्रेषयामास विष्णुं देववरं ततः ।
स गत्वा दुर्मतिं दुष्टमबोधीद्युक्तिभिश्च तम् ॥ ४० ॥
विष्णुरुवाच ।
स्वानन्दवासकारी यो गणेशो ब्रह्मनायकः ।
शिवेन तपसा सोऽपि याचितः पुत्रकाम्यया ॥ ४१ ॥
स एव पुत्रतां प्राप्तः पुष्टीशो यः समागतः ।
त्वां बोधितुं च मां सोऽपि प्रेषयामास दुर्मते ॥ ४२ ॥
देवानां द्वेषमुत्सृज्य वस पातालमण्डले ।
स्वस्वधर्मरता लोका भवन्तु विगतज्वराः ॥ ४३ ॥
एवमुक्तो महादैत्यस्तमुवाच जनार्दनम् ।
दूत्येन त्वं समायातो नो चेद्धन्मि प्रभावतः ॥ ४४ ॥
कः स्वानन्दपतिः सोऽपि देवपक्षधरोऽभवत् ।
[[१३६]]
तं हनिष्यामि वेगेन द्रक्षसि त्वं गजाननम् ॥ ४५ ॥
ततो विष्णुः समायातो गणेशं तस्य दुर्मतेः ।
वृत्तान्तमवदत्तीव्रं श्रुत्वा चुक्रोध विघ्नपः ॥ ४६ ॥
बभूव मूषकारूढो तं हन्तुं शस्त्रधारकः ।
देवाः सर्वे च सन्नद्धा बभूवुरसुरेश्वर ॥ ४७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते विष्णु?दैत्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥