॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
शृणु पुष्टिपतेः ख्यातं सर्वपापहरं परम् ।
भुक्तिमुक्तिप्रदं चैव गणेशस्य महात्मनः ॥ १ ॥
शकुनेश्च म?हामानी पुत्रोऽभूद् दुर्मतिः पुरा ।
दैत्यराजस्य तेजस्वी महापर्वतसन्निभः ॥ २ ॥
तताप तप उग्रं स शक्तिं ध्यात्वा महासुरः ।
नवार्णेन सुमन्त्रेण शुक्रशिष्यः प्रतापवान् ॥ ३ ॥
सहस्रवर्षे प्रगते शक्तिः सा वरदाऽभवत् ।
आययौ भक्तमुख्यं साऽबोधयत्तं वरं वृणु ॥ ४ ॥
तेनाऽपि पूजिता देवी माहात्म्येन च संयुता ।
शक्तेस्तेन प्रसन्ना सा तस्मै सर्वाऽभयं ददौ ॥ ५ ॥
त्रैलोक्यराजमुग्रं च सङ्ग्रामे जयमादरात् ।
आरोग्यं च स्वलोके सा प्रययौ सिंहवाहिनी ॥ ६ ॥
तत्र तेन क्रमेणैव जितं सर्वं चराचरम् ।
विष्णुमुख्याः सुराः सर्वे वने वासं प्रचक्रिरे ॥ ७ ॥
शक्तिं शिवेन संयुक्तां पीडयित्वा महाखलः ।
पत्नीं कर्तुं समुद्युक्तो देवीं दैत्याधिपोऽभवत् ॥ ८ ॥
शक्तिर्लोकं परित्यज्य शिवेन सहिता ययौ ।
अन्तर्धाय स्वमात्मानं वने वासं चकार ह ॥ ९ ॥
गते कियति काले तौ नारदस्तत्र चागतः ।
जगाद विघ्नराजस्य ताभ्यां चोपासनां शुभाम् ॥ १० ॥
पुत्रभावेन देवेशो भविष्यति गणेश्वरः ।
आराधितो न सन्देहो दुर्मतिं स हनिष्यति ॥ ११ ॥
एवमुक्त्वा गते चैव नारदे शक्तिशङ्करौ ।
तेपाते तप उग्रं तौ षोडशाक्षरमानतः ॥ १२ ॥
मन्त्रं षोडशवर्णाख्यं जेपतुर्गणपस्य च ।
एवं वर्षशते पूर्णे गणेशो वरदोऽभवत् ॥ १३ ॥
आगतं गणपं दृष्ट्वा नेमतुश्चरणाम्बुजे ।
गणाधीशं तुष्टुवतः शिवशक्ती कृताञ्जली ॥ १४ ॥
शक्तिशिवावूचतुः ।
नमस्ते गणनाथाय गणानां पतये नमः ।
भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १५ ॥
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ १६ ॥
वरदाभयहस्ताय नमः परशुधारिणे ।
अनामयाय सर्वाय सर्वपूज्याय ते नमः ॥ १७ ॥
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ।
ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ॥ १८ ॥
[[१३३]]
ज्येष्ठाय चादिपूज्याय ज्येष्ठराजाय ते नमः ।
मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः ॥ १९ ॥
अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ।
विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ॥ २० ॥
त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ।
किं स्तुवो योगरूपं त्वां प्रणमावश्च विघ्नप ॥ २१ ॥
तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतुः ।
तावुत्थाप्य गणाधीश उवाचाऽसौ महेश्वरौ ॥ २२ ॥
गणेश उवाच ।
भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ।
पठते शृण्वते चैव भविष्यति सुखप्रदम् ॥ २३ ॥
भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ।
धनधान्यादिकं सर्वं लभते तेन निश्चितम् ॥ २४ ॥
वरं च वदतं देवौ प्रसन्नोऽहं ददामि तम् ।
भवतोर्भक्तिभावेन विभुः स्तोत्रेण तोषितः ॥ २५ ॥
शक्तिशिवावूचतुः ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा नौ पुत्रतां याहि कृतकृत्यौ तया विभो ॥ २६ ॥
भक्तिं देहि दृढां देव त्वदीये पादपङ्कजे ।
दुर्मतिं जहि विघ्नेश त्रैलोक्यं च सुखीकुरु ॥ २७ ॥
गृत्समद उवाच ।
तयोर्वचनमाक?र्ण्यौमित्युक्त्वाऽन्तर्दधे विभुः ।
शिवौ सन्तोषयुक्तौ च तत्र सञ्चेरतुर्भयात् ॥ २८ ॥
एकदा पार्वती शम्भुर्वैशाखस्नानमादरात् ।
चक्रतुर्गणनाथस्य प्रीतये हिमपर्वते ॥ २९ ॥
भागीरथीजले नित्यं स्नात्वाऽपूजयतां च वै ।
दूर्वादिभिर्मृन्मयं तौ गणनाथं सुभक्तितः ॥ ३० ॥
वैशाखपूर्णिमायां तावुषःकाले तु भक्तितः ।
स्नात्वा मूर्तिं शिवौ कृत्वा ध्यानं चक्रतुरादरात् ॥ ३१ ॥
ध्यात्वा हृद्यावाहयतां गणाधीशं तमञ्जसा ।
मूर्तौ सा ह्यचला मूर्तिः सचैतन्या बभूव ह ॥ ३२ ॥
चतुर्भुजधरस्तत्र गणराजो बभौ स्वयम् ।
उवाच पितरौ देवः पुत्रोऽहं वां न संशयः ॥ ३३ ॥
वरदानप्रभावेण वैशाखस्नानजेन च ।
तपसा पुत्ररूपं मां रक्षतं पितरौ सदा ॥ ३४ ॥
ततः प्रणम्य तं देवः शङ्करः शक्तिसंयुतः ।
तुष्टावाथर्ववेदोक्तोपनिषद्भिर्महायशाः ॥ ३५ ॥
ततो गणपतिः प्रीत्या मोहयामास मायया ।
शिवं सशक्तिकं तत्र पुत्रभावप्रकाशनात् ॥ ३६ ॥
ततस्तस्य स संस्कारान् कारयामास वै द्विजैः ।
शिवश्च जातकर्मादीन् हर्षयुक्तेन चेतसा ॥ ३७ ॥
ततो लक्ष्मीसुता पुष्टिस्तपसा च बभूव ह ।
तां ददौ स गणेशाय विष्णुः परमहर्षितः ॥ ३८ ॥
एकदा तत्र संयातो ग्रहोत्तमशनैश्चरः ।
दर्शनार्थं गणेशस्य सस्त्रीकस्य महामतिः ॥ ३९ ॥
प्रणनाम स सस्त्रीकं गणेशं दैत्यनायक ।
जगाद भक्तिसंयुक्तो वचनं सर्वसन्निधौ ॥ ४० ॥
धन्यं मे जन्म विद्या च तपो विद्यादिकं महत् ।
येन ते दर्शनं प्राप्तं सस्त्रीकस्य गजानन ॥ ४१ ॥
त्वं साक्षाद्योगरूपश्च पुष्टिः पोषणकारिणी ।
विश्वम्भरा महाशक्तिस्तस्माद्वां वै नमो नमः ॥ ४२ ॥
[[१३४]]
एतस्मिन्नन्तरे तत्र शक्तिः स्वयमुपागता ।
प्रणतं रविपुत्रं तमुवाच प्रेमनिर्भरा ॥ ४३ ॥
पश्य पश्य ग्रहश्रेष्ठ सम्यक् सर्वत्र भावतः ।
ततस्तां स शनिर्देवीमवोचद् दुःखितो भृशम् ॥ ४४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते शनिसमागमो नाम त्रिषष्टितमोऽध्यायः ॥