६२ विनायकचरितम्

॥ श्रीगणेशाय नमः ॥

गृत्समद उवाच ।

ततो विनायकस्तत्र काश्यां बालगणैः सह ।
चिक्रीड प्राकृतो भूत्वा भक्तानन्दविवर्धनः ॥ १ ॥

ततो गणकरूपेण दैत्यो हेमासुरो ययौ ।
तं मायया गणेशानो मारयामास दैत्यप ॥ २ ॥

ततः कूपासुरस्तत्र कन्दरेण सहागतः ।
परस्परविभेदेन तौ हतौ गणपेन च ॥ ३ ॥

ततोऽम्भोसुरनामा यः प्रतापी च तथाऽन्धकः ।
तुङ्गासुरस्त्रयः प्राप्ता ब्रह्मलब्धवराः खलाः ॥ ४ ॥

खगरूपगणेशेन हता मुक्तिं प्रलेभिरे ।
विनायकस्य हस्तस्य स्पर्शनादिप्रभावतः ॥ ५ ॥

तेषां माता समायाता भ्रमरी नाम राक्षसी ।
रूपं कृत्वा ह्यदित्याश्च सा हता तेन दैत्यप ॥ ६ ॥

परीक्ष्य विस्मितास्तत्र मानवा भोजनार्थिनः ।
निमन्त्र्य तं ययुः सर्वे काशिराजसमन्विताः ॥ ७ ॥

एकस्मिन् दिवसे तत्र गेहे गेहे महोत्सवः ।
भोजनार्थं काश्यपस्य सामग्रीं चक्रिरे जनाः ॥ ८ ॥

तत्र शुक्लो महाभक्तः काशीप्रान्तनिवासकः ।
शुक्लवृत्याऽचरद्भिक्षां प्रभोः शुश्राव चेष्टितम् ॥ ९ ॥

शुक्लो दारिद्र्यसंयुक्तः सन्तोषी भजने रतः ।
विद्रुमा तस्य पत्नी सा पतिभक्तियुताऽभवत् ॥ १० ॥

सर्वस्वदानभावेन चक्रतुस्तौ महोत्सवम् ।
भोजनार्थं काश्यपस्य मार्जितं स्वाङ्गणं तया ॥ ११ ॥

दर्भान् बद्ध्वा महायष्ट्यां ध्वजं चक्रे महामुनिः ।
सर्वधान्यस्य पिष्टेन चक्रे वै भास्करीं सती ॥ १२ ॥

तन्दुलान्नं जलैर्युक्तं चक्रे परमहर्षिता ।
प्रयत्नेनाल्पतैलं च शुक्ल आनयदादरात् ॥ १३ ॥

गृहे पलानि शुक्लस्य त्रीणि सञ्चयमानतः ।
तन्दुलानां हि पिष्टस्याऽभवन् पञ्च पलानि च ॥ १४ ॥

काश्यपस्य च भक्ष्यार्थं पाकं चक्रे च भावतः ।
शुष्कामलकखण्डं सोऽस्थापयन् मुखशुद्धये ॥ १५ ॥

नैवेद्यं वैश्वदेवं च कृत्वा ध्यानपरोऽभवत् ।
विनायकस्य शुक्लोऽपि महाभक्तिपरायणः ॥ १६ ॥

एतस्मिन्नन्तरे तत्र सनकश्च सनन्दनः ।
दर्शनार्थं समायातौ काश्यपस्य महात्मनः ॥ १७ ॥

राज्ञा सम्मानितौ विप्रौ दृष्ट्वा बालसमन्वितम् ।
विनायकं तथा तौ निर्भर्त्स्य गङ्गां प्रजग्मतुः ॥ १८ ॥

विनायको ययौ बालैः शुक्लस्याऽऽदौ गृहं प्रति ।
कुत्सितान्नं बभक्षैव ददौ सम्पत्तिमुत्तमाम् ॥ १९ ॥

ततो विनायको देवोऽनन्तरूपधरः स्वयम् ।
स काशिराजतां प्राप्य गेहे गेहे बभक्ष सः ॥ २० ॥

एतस्मिन् समये तौ तं सनकश्च सनन्दनः ।
भिक्षार्थं वै ददृशतुः पर्यटन्तौ च काश्यपम् ॥ २१ ॥

गृहे गृहे च दृष्ट्वा तं भ्रष्टाचारयुतं मुनी ।
त्यक्त्वा काशीं क्षुधायुक्तौ जग्मतुर्बहिरेव तौ ॥ २२ ॥

ततो विनायके?नैव सर्वं रूपं प्रदर्शितम् ।
पुनस्तौ शरणं भ्रान्तावेव तं जग्मतुर्हृदा ॥ २३ ॥

ततो गाणेशकं ज्ञानं दत्तं तेन महात्मना ।
गाणपत्यस्वभावेन चेरतुस्तौ गतौ ततः ॥ २४ ॥

काशिराजेन तत्सर्वं न ज्ञातं चेष्टितं महत् ।
भ्रान्तो राजा स तं नेतुं ययौ शुक्लगृहं मुदा ॥ २५ ॥

शिबिकायां गणेशं संस्थापयित्वा ययौ नृपः ।
स्वगृहं तत्र दैत्यौ द्वौ विद्युद्रूपौ प्रपेततुः ॥ २६ ॥

[[१३१]]

विनायकेन तौ त्यक्तौ शिखां सन्धृत्य दैत्यपौ ।
प्रजग्मतुः स्ववृत्तान्तं कथयित्वा नरान्तकम् ॥ २७ ॥

राजाऽपि स्वगृहं प्राप ततो दैत्यः समाययौ ।
श्रुत्वा वृत्तान्तमत्यन्तं ताभ्यां सर्वं नरान्तकः ॥ २८ ॥

गुल्मस्था नगरद्वारि काशिराजं ययुर्जनाः ।
अवदन् दैत्यवृत्तान्तं नरान्तक उपागतः ॥ २९ ॥

सन्नद्धः सर्वसैन्येन काशिराजः स तं ययौ ।
युयुधे तेन दैत्येन धृतो राजा क्षणेन वै ॥ ३० ॥

ततो विनायकः क्रुद्धः सिद्धिमाज्ञापयत् प्रभुः ।
तया सृष्टं महासैन्यं कालरूपं च तद्बभौ ॥ ३१ ॥

तत्रैको नायकः क्रूरः प्रणम्य गणनायकम् ।
ययौ तस्य महासेनां भक्षयन् पश्यतः क्षणात् ॥ ३२ ॥

धृत्वा नरान्तकं सोऽपि जगाम च विनायकम् ।
विनायकेन सैन्येशो मुखे लीनः कृतः स्वके ॥ ३३ ॥

तस्योदरे गणेशेन रक्षितः काशिपालकः ।
तेन सार्धं गणेशस्य देहे लीनोऽभवन्नृपः ॥ ३४ ॥

तं नृपं जठरे देवो दर्शयित्वा जगत् पुनः ।
रोममार्गेण पुत्राभ्यां बहिश्चक्रे स विघ्नपः ॥ ३५ ॥

प्रधानाभ्यां च पुत्राभ्यां निःसृतं नृपसत्तमम् ।
विस्मितं मायया तं स मोहितं प्रचकार ह ॥ ३६ ॥

तत् दृष्ट्वा दैत्यराजः स विस्मितो तर्कयत् स्वयम् ।
अयं ब्रह्ममयो देवः कश्यपात्मज एव च ॥ ३७ ॥

अस्य हस्तेन मे मृत्युर्भविता चेत् सुमङ्गलम् ।
ब्रह्मभूयकरं तस्माद्युद्ध्येयं हर्षसंयुतः ॥ ३८ ॥

नरान्तकेन कृत्वा च युद्धं तेन महत्ततः ।
मोहयित्वा तं जघान विराड्रूपेण विघ्नपः ॥ ३९ ॥

ममार दैत्यराजस्तु मस्तकस्तस्य वै गृहे ।
पतितस्तं विलोक्यैव शुशोच जननी पिता ॥ ४० ॥

शिरो धृत्वा गतौ स्वर्गे दृष्ट्वा देवान्तको हि तत् ।
सोऽपि क्रोधसमायुक्तो ययौ काश्यां स दैत्यपः ॥ ४१ ॥

कृत्वा युद्धं महाघोरं तेन सार्धं विनायकः ।
गजाननस्वरूपं च दर्शयामास शत्रवे ॥ ४२ ॥

दृष्ट्वा दैत्येन दन्तस्तु भग्नो वामोऽस्य तत्क्षणात् ।
दैत्येन्द्रं तेन दन्तेन मारयामास विघ्नपः ॥ ४३ ॥

ततो हर्षयुतैर्देवः स्तुतो देवर्षिभिः प्रभुः ।
प्रविवेश नृपेणाऽसौ काशीं भक्तपरायणः ॥ ४४ ॥

राजपुत्रस्य देवेशो विवाहं च चकार ह ।
राज्ञा सम्पूजितो ढुण्ढिः स्वाश्रमं गन्तुमुत्सकः ॥ ४५ ॥

ततो लोका महा भक्तास्त्यक्त्वा गेहादिकं ययुः ।
तेभ्यो ज्ञानं ददौ देवः शान्तिं प्राप्ता गृहान् ययुः ॥ ४६ ॥

राज्ञा रथेन शीघ्रं वै स्वाश्रमं स जगाम ह ।
काशिराजं च काश्यामप्रेषयद्गणनायकः ॥ ४७ ॥

लोकैर्नृपो ढुण्ढिराजं स्थापयामास वै पुरे ।
नित्यं तं पूजयामास सर्वैर्भक्तिसमन्वितः ॥ ४८ ॥

अदितिं कश्यपं देवस्तौ प्रोवाच विनायकः ।
भूभारहरणार्थं च जातोऽहं युवयोः सुतः ॥ ४९ ॥

तच्च सर्वं कृतं कर्माधुना यामि निजं पुरम् ।
एवमुक्त्वा ददौ ताभ्यां ज्ञानं सोऽन्तर्हितोऽभवत् ॥ ५० ॥

ततस्ताभ्यां गणेशस्य मूर्तिः संस्थापिता प्रभोः ।
विनायकेति नाम्ना सा विख्याता प्रबभूव ह ॥ ५१ ॥

[[१३२]]

प्रह्लाद काशिराजोऽपि मुद्गलस्योपदेशतः ।
सदेहः स ययौ राजा स्वानन्दे गणनायकम् ॥ ५२ ॥

एतत्ते कथितं सर्वं विनायकचरित्रकम् ।
सङ्क्षेपेण महाभाग एकदन्तावतारजम् ॥ ५३ ॥

शृणुयाद्यः पठेद्वाऽपि स लभेदीप्सितं फलम् ।
अन्ते स्वानन्दवासेन ब्रह्मभूतो भविष्यति ॥ ५४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते विनायकचरितं नाम द्विषष्टितमोऽध्यायः ॥