॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
नित्यं स मानसीं पूजामकरोत् ब्राह्मणोत्तमः ।
बाह्यां चैव महाभागो गणेशस्य यथाविधि ॥ १ ॥
मानसी या त्वया पृष्टा तां शृणुष्व महामते ।
यथा स्वल्पेन कालेन गाणपत्यो नरो भवेत् ॥ २ ॥
चतुर्धा मानसी पूजा ज्ञातव्या चासुरोत्तम ।
साधारा द्विविधा प्रोक्ता निराधारा तथा द्विधा ॥ ३ ॥
हृदि मूर्तिं ?गणेशस्य ध्यात्वा तत्रोपचारकैः ।
मानसैः पूजयेद्देवं साधारा सा मता बुधैः ॥ ४ ॥
अन्या ह्येकाग्रचित्तेन सर्वत्रैकात्मभावना ।
तया यत्तस्य भोगादि कृतं तत् पूजनं भवेत् ॥ ५ ॥
तत्रैकात्मस्वरूपश्चाधारः प्राप्तो जनेन वै ।
तेन साधाररूपा सा प्रोक्ता पूजा मनीषिभिः ॥ ६ ॥
निरोधचित्तवृत्त्या यज्जनैः सर्वात्मवर्जितम् ।
मनोवाणीमयं सर्वमुपचारेण चार्पितम् ॥ ७ ॥
तदेव पूजनं तेन कृतं प्रह्लाद निश्चितम् ।
निराधारा मता पूजा गणेशस्य महात्मनः ॥ ८ ॥
चित्तस्य पञ्च भूमीनां लयं कृत्वा समा स्थितिः ।
तत्र शान्तिस्वरूपं यद्योगाकारेण दृश्यते ॥ ९ ॥
योगे विधिनिषेधादि सर्वं तेनोपचारकैः ।
समर्पितं गणेशाय तदेवं पूजनं भवेत् ॥ १० ॥
शान्तियोगे निराधारा पूजा प्रोक्ता च योगिभिः ।
एवं मानसजं दैत्य चतुर्धा पूजनं भवेत् ॥ ११ ॥
एवं भ्रूशण्डिना तेन कृता पूजा विशेषतः ।
भक्तिभावेन काश्यां सा प्राप्ताऽभूद्गणपाय च ॥ १२ ॥
इदं भ्रूशुण्डिनश्चित्रं चरित्रं च नरोत्तमः ।
यः शृणोति श्रावयति स वै स्वानन्दगो भवेत् ॥ १३ ॥
यं यमिच्छति तं तं वै लभते नाऽत्र संशयः ।
महापुण्यतमं श्रेष्ठं कथितं ते कथानकम् ॥ १४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते भ्रूशुण्डिचरितं नामैकषष्टितमोऽध्यायः ॥
[[१३०]]