६० भ्रूशूण्डिब्राह्मणत्ववर्णनम्

॥ श्रीगणेशाय नमः ॥

गृत्समद उवाच ।

कैवर्तकस्ततो नामा महादुष्टो ददर्श ह ।
मुद्गलं मुनिशार्दूलं स्थितं तत्र महावने ॥ १ ॥

दृष्ट्वा मुनिवरं हृष्टः पापचेता बभूव सः ।
खड्गमुद्यम्य तं हन्तुं ययौ नामा दृढाग्रहः ॥ २ ॥

यावत् समीपगो भूत्वा हन्तुं तमुपचक्रमे ।
तावत्तस्य करात् खड्गः पपात धरणीतले ॥ ३ ॥

शस्त्राण्यन्यानि सर्वाणि दृढबद्धानि सर्वतः ।
पेतुर्धरातले तानि तेनाऽसौ विस्मितोऽभवत् ॥ ४ ॥

अपश्यन्मुद्गलं दुष्टो वदन्नेवं किमद्भुतम् ।
तेन निर्मलचित्तोऽसौ प्रबभूवाऽतिदारुणः ॥ ५ ॥

तं प्रणम्य महादुष्ट उवाच प्राञ्जलिर्मुनिम् ।
योगिदर्शनमात्रेण यथा साधुस्तथा वचः ॥ ६ ॥

नामोवाच ।
आजन्मनोऽद्यपर्यन्तं बुद्धिर्मे पापनिश्चया ।
तया कृतानि पापानि तेषां सङ्ख्या न विद्यते ॥ ७ ॥

अधुना कुण्डजेनैव किञ्चित् स्नानेन चाञ्जसा ।
जाता निर्मलभावा सा पापाद्वै सम्बिभेति च ॥ ८ ॥

तवदर्शनमात्रेण सन्तोषे संस्थिता मुने ।
मुक्तिमिच्छति मे बुद्धिर्महापापिन आदरात् ॥ ९ ॥

शस्त्राणि गलितान्येव न ग्रहीष्यामि तानि वै ।
उपदेशं वद प्राज्ञ संसारोत्तारणात्मकम् ॥ १० ॥

तस्य तद्वचनं श्रुत्वा मुद्गलस्तमुवाच ह ।
गच्छ त्वं स्वगृहं तात स्वशस्त्राणि प्रगृह्य च ॥ ११ ॥

ततस्तं मुनिशार्दूलं जगादाऽसौ महाखलः ।
कैवर्तकः प्रणम्याऽऽदौ रुदन्नश्रुजलाविलः ॥ १२ ॥

नामोवाच ।
शिष्यं मां कुरु योगीन्द्र नोचेद् देहं त्यजाम्यहम् ।
सन्निधौ ते महाभाग नेच्छामि विषये सुखम् ॥ १३ ॥

[[१२७]]

इति तस्य वचः श्रुत्वा शरणागतवत्सलः ।
गणेशाय नमो मन्त्रं योगी तस्मै ददौ स्वयम् ॥ १४ ॥

स्वयष्टिं तत्र योगीन्द्रः समारोप्य जगाद तम् ।
शुष्कामत्रैव तिष्ठ त्वं जपन्मन्त्रं महाखल ॥ १५ ॥

यावद्यष्टिश्च नामान् मे साङ्कुरा प्रभविष्यति ।
तावत्त्वं जप तं मन्त्रं तदा शुद्धो भविष्यसि ॥ १६ ॥

न फलं न जलं मूलं पर्णमन्नादिकं कदा ।
भक्षस्व वायुमात्रं त्वं तदा शुद्धो भविष्यसि ॥ १७ ॥

एवमुक्त्वा महादुष्टं मुद्गलो गाणपाग्रणीः ।
अन्तर्धानं चकारैव सोऽपि तादृशमाचरत् ॥ १८ ॥

गते वर्षसहस्रे तु वल्मीकोऽल्पस्तदङ्गके ।
समुत्पन्नस्तृणौघाद्यैः संवृतः सर्वतो बभौ ॥ १९ ॥

तथापि नाममन्त्रं स नामाऽजापीच्च भावतः ।
नाममन्त्रप्रभावेण साङ्कुरा यष्टिराबभौ ॥ २० ॥

पापं सर्वं लयं प्राप्तं तस्य मन्त्रप्रभावतः ।
पुण्यराशिः समुत्पन्नोऽपाररूपो महासुर ॥ २१ ॥

अतिपुण्येन भक्त्या च शुण्डा तस्य विनिःसृता ।
भ्रूमध्यात्तेन सञ्जातो गजानन इवाऽपरः ॥ २२ ॥

ततस्तत्र समायातो मुद्गलश्च महायशाः ।
शिष्यं कैवर्तकं दैवात् सोऽस्मरत् साधुसत्तमः ॥ २३ ॥

ततो यष्टिं ददर्शाऽसौ साङ्कुरा विस्मितोऽभवत् ।
अहो दुष्टमतिर्नामा तपसे संस्थितोऽभवत् ॥ २४ ॥

चञ्चलं भावमुत्सृज्य देहशोषणतत्परः ।
कुत्राऽस्ति स मया शिष्यो दृश्यते न महातपाः ॥ २५ ॥

ततो वल्मीकरूपं स चाऽपश्यत्तत्र मुद्गलः ।
कैवर्तकस्य तस्यैव नेत्रे दृष्टे ततः किल ॥ २६ ॥

ततो यष्ट्या स वल्मीकमुत्खाय च जलेन तम् ।
सिषेच तेन नामाऽपि सावधानो बभूव ह ॥ २७ ॥

गुरुं दृष्ट्वा समुत्तस्थौ तं प्रणम्य पुरःस्थितः ।
ततः सम्मान्य योगीशो धृत्वाऽऽलिङ्ग्य जगाद तम् ॥ २८ ॥

वल्मीकात्त्वं समुत्पन्नः पुत्रो मे नात्र संशयः ।
भव ब्राह्मणमुख्यश्च भ्रूशुण्डी सञ्ज्ञयाऽधुना ॥ २९ ॥

सिद्धोऽसि नाममन्त्रेण सर्ववन्द्यो भविष्यसि ।
तव दर्शनमात्रेण नरा मुक्तिमवाप्नुयुः ॥ ३० ॥

लक्षकल्पमयं कालं जीवं स्थास्यसि भो मुने ।
कल्पे कल्पे च शिष्यास्ते भविष्यन्ति शिवादयः ॥ ३१ ॥

एवमुक्त्वा गणेशस्य ददौ तस्मै महामनुम् ।
एकाक्षरं विधानेन ततोऽन्तर्धानमाययौ ॥ ३२ ॥

सोऽपि तत्र पुनस्तेन तताप तप उत्तमम् ।
वर्षमात्रेण तस्याऽग्रे प्रत्यक्षोऽभूद्गजाननः ॥ ३३ ॥

उवाच तं महाभक्तं किं वाञ्छसि वदस्व मे ।
ततस्तं स्तोतुमारेभे स्तोत्रैः स्वानुभवात्मकैः ॥ ३४ ॥

भ्रूशुण्ड्युवाच ।
नमो नमस्ते गणनाथ ढुण्ढे सदा सुशान्तिप्रद शान्तिमूर्ते ।
अपारयोगेन च योगिनस्त्वां भजन्ति भावेन नमो नमस्ते ॥ ३५ ॥

प्रजापतीनां त्वमथो विधाता सुपालकानां गणनाथ विष्णुः ।
हरोऽसि संहारकरेषु देव कलांशमात्रेण नमो नमस्ते ॥ ३६ ॥

क्रियात्मकानां जगदम्बिका त्वं प्रकाशकानां रविरेव ढुण्ढे ।
यत्नप्रदानां च गुणेश नामा कलांशमात्रेण नमो नमस्ते ॥ ३७ ॥

[[१२८]]

शरीरभाजां त्वमथासि बिन्दुः शरीरिणां सोऽहमथो विभासि ।
सुबोधरूपः स्वत उत्थकानां कलांशमात्रेण नमो नमस्ते ॥ ३८ ॥

विदेहकानामसि साङ्ख्यरूपः समाधिदानां च निजात्मकस्त्वम् ।
निवृत्तियोगे त्वमयोगधारी कलांशमात्रेण नमो नमस्ते ॥ ३९ ॥

गणास्त एते गणनाथ नाम्ना त्वमेव वेदादिषु योगकीर्ते ।
सदा सुशान्तिप्रद संस्थितोऽसि भक्तेश भक्तिप्रिय ते नमो वै ॥ ४० ॥

गकारसिद्धिस्त्वपि मोहदात्री णकारबुद्धिस्त्वथ मोहधात्री ।
तयोर्विलासी पतिरेव नाम्ना गणेश्वरस्त्वं च नमो नमस्ते ॥ ४१ ॥

गकाररूपेण भवान् स गौणो णकाररूपेण च निर्गुणोऽसि ।
तयोरभेदे गणनाथनामा योगेश भक्तेश नमो नमस्ते ॥ ४२ ॥

किं वदामि गणाधीश महिमानं महाद्भुतम् ।
यत्र वेदादयो भ्रान्ता इव जाताः प्रवर्णने ॥ ४३ ॥

पतितानामहं श्रेष्ठः पतितोत्तम एव च ।
तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥ ४४ ॥

किञ्चित् संस्कारयोगेन विश्वामित्रादयः प्रभो ।
जाता वै ब्राह्मणत्वस्य ब्राह्मणा निर्मलाः पुरा ॥ ४५ ॥

अहं संस्कारहीनश्च जात्या कैवर्तकोद्भवः ।
तत्राऽपि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥ ४६ ॥

एवमुक्त्वा नतं विप्रं प्राञ्जलिं पुरतः स्थितम् ।
भक्तिभावेन सन्तुष्टस्तमुवाच गजाननः ॥ ४७ ॥

गणेश उवाच ।

वरान् वरय दास्यामि यांस्त्वं विप्र प्रवाञ्छसि ।
त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥ ४८ ॥

तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः ।
भ्रूशुण्डी गद्गदोक्त्या च तं जगाद गजाननम् ॥ ४९ ॥

यदि प्रसन्नभावेन वरदोऽसि गजानन ।
त्वदीयां भक्तिमुग्रां मे देहि सम्पूर्णभावतः ॥ ५० ॥

तथेति तमुवाचाऽथ गणेशो भक्तवत्सलः ।
क्षेत्रं त्वदीयमत्रैव भविष्यति मदाज्ञया ॥ ५१ ॥

अमलाश्रमकं नाम्ना जनानां सेविनां सदा ।
अज्ञानजं मलं हत्वा ज्ञानं दास्यति निर्मलम् ॥ ५२ ॥

एवमुक्त्वाऽन्तर्दधे च गणेशो देवनायकः ।
भ्रूशुण्डी भक्तिभावेन भेजे वै तं निरन्तरम् ॥ ५३ ॥

नान्यत् स मनसा क्वापि क्षेत्रं देवादिकं मुनिः ।
तीर्थं जज्ञौ स योगीन्द्रो गणेशानान्न संशयः ॥ ५४ ॥

ततस्तत्र महाक्षेत्रे ब्राह्मणाद्या ययुर्मुदा ।
तत्रैव गणनाथं ते भेजिरे भक्तिभावतः ॥ ५५ ॥

?शिष्यास्तस्य महाभागा जाता ब्रह्मर्षयोऽमलाः ।
क्षेत्रसन्न्यासभावेन तेऽसेवन्त महामुनिम् ॥ ५६ ॥

भ्रूशुण्डिनस्तत्र तीर्थं गणेशस्य च सुन्दरम् ।
भुक्तिमुक्तिप्रदं प्रोक्तं स्नानमात्रेण जन्तवे ॥ ५७ ॥

तस्यैवं दर्शनार्थं च मुनयः कश्यपादयः ।
शुकादियोगिनः सर्वे गत्वा तेऽपूजयन् मुदा ॥ ५८ ॥

कृतार्थं मन्यमानाश्च स्वस्थलं ते ययुः पुनः ।
प्रशंसन्तो मुनिं सर्वे साक्षाच्छुण्डाधरं प्रभुम् ॥ ५९ ॥

इन्द्रादयस्तमेवं च दर्शनार्थं समागताः ।
कृतकृत्याः स्वभावेन स्वालयं ते ययुः पुनः ॥ ६० ॥

ब्रह्मविष्णुमहेशाद्या ईश्वरास्ते महामुनेः ।
नित्यदर्शनसंसक्ता बभूवुर्हृष्टमानसाः ॥ ६१ ॥

[[१२९]]

एवं प्रभावयुक्तः स भ्रूशुण्डी कथितो मया ।
चाण्डालो ब्राह्मणो जातो गणेशस्मरणेन वै ॥ ६२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते भ्रूशूण्डिब्राह्मणत्ववर्णनं नाम षष्टितमोऽध्यायः ॥