॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
यमस्य वचनं श्रुत्वा सविता विस्मितोऽभवत् ।
धर्मशीलस्य सङ्क्रोधो मातरि प्रबभूव ह ॥ १ ॥
माता स्वदेहजं पुत्रं भेदबुद्धया शशाप ह ।
अतः कारणकं किञ्चिद्विपरीतं भवेदिह ॥ २ ॥
ततो ज्ञानेन बुद्ध्वा स यमं भानुरुवाच ह ।
मातुः शापं कदा मिथ्या मया कर्तुं न शक्यते ॥ ३ ॥
अतो विनायकं देवं भज त्वं भक्तिभावतः ।
स चेत् प्रसन्नतां यातस्तदा सुखमवाप्स्यसि ॥ ४ ॥
एवमुक्त्वार्यमा पुत्रं मन्त्रं पञ्चाक्षरं ददौ ।
विधियुक्तं गणेशस्य स ययौ वनमादरात् ॥ ५ ॥
सविताऽसौ जगामेदं छायां वचनमब्रवीत् ।
सञ्ज्ञा कुत्र गता देवि वद नोचेच्छपाम्यहम् ॥ ६ ॥
सा भीता सत्यमेवेदं वचनं तं जगाद ह ।
पितुर्गेहं गता सञ्ज्ञाऽस्थाप्य मां त्वद्गृहे प्रभो ॥ ७ ॥
सत्यभाषणयोगेन तुष्टस्तां न शशाप सः ।
जगाम विश्वकर्माणं क्रोधयुक्तो दिवाकरः ॥ ८ ॥
तं प्रणम्य स पप्रच्छ वृत्तान्तं रक्तलोचनः ।
सञ्ज्ञाया विश्वकर्मा तं सान्त्वयामास युक्तिभिः ॥ ९ ॥
विश्वकर्मोवाच ।
मया ते गृहमेवं सा प्रेषिता नागता यदा ।
मायया गुप्तरूपेण कुत्र वै संस्थिता भवेत् ॥ १० ॥
त्वदीयतेजसा तप्ता गता शुष्कशरीरका ।
अतस्त्वं तेजसा सौम्यो भव तस्यां रमस्व च ॥ ११ ॥
ततः सोऽपि जगादेदं वचनं तं विभावसुः ।
त्वं विश्वकर्मतां प्राप्तोऽतो मां सौम्यं कुरु प्रभो ॥ १२ ॥
ततस्तेन स्वयन्त्रे संस्थाप्य तेजो हृतं महत् ।
तीक्ष्णं तेन सुसौम्यश्च सूर्यस्तां प्रजगाम ह ॥ १३ ॥
अश्विनी रूपभावेन स्थितां वीक्ष्य वनेषु सः ।
अश्वो भूत्वा प्रयत्नेन धर्तुं तामुद्यतोऽभवत् ॥ १४ ॥
साऽपरं पुरुषं ज्ञात्वा गणेशं मनसाऽस्मरत् ।
ततः सूर्येण वीर्यं स्वं नसि निक्षिप्तमादरात् ॥ १५ ॥
ततस्तया रवेर्वीर्यं स्वश्वासेन बहिर्बलात् ।
निष्कासितं परस्यैव ज्ञात्वा सुविमनास्त्वभूत् ॥ १६ ॥
[[१२५]]
एवं दृढाग्रहं दृष्ट्वा सविता तोषवानभूत् ।
स्वरूपं दर्शयामास तां प्रगृह्य गृहं ययौ ॥ १७ ॥
सञ्ज्ञया सवितुर्वीर्यं त्यक्तं तस्मात् समुद्भवौ ।
अश्विनौ भिषजां श्रेष्ठौ सर्वमान्यो बभूवतुः ॥ १८ ॥
गणेशभक्तिभावेन सञ्ज्ञा सुखयुताऽभवत् ।
तमेव सततं देवी भजतेऽनन्यमानसा ॥ १९ ॥
यमोऽपि च तपस्तेपे दारुणं भावसंयुतः ।
निराहारतया देवं ध्यात्वा जपपरोऽभवत् ॥ २० ॥
संवत्सरसहस्रेण गणेशो वरदोऽभवत् ।
तं दृष्ट्वा सहसोत्थायाऽऽपूज्य तुष्टाव भानुजः ॥ २१ ॥
यम उवाच ।
नमो गणपते तुभ्यं नानामायाविलासिने ।
मायाधारकवेषेण स्थिताय तु नमो नमः ॥ २२ ॥
मायामोहविहीनाय साक्षिणे जगदादये ।
ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः ॥ २३ ॥
अनन्ताय नमस्तुभ्यं हेरम्बाय च ढुण्ढये ।
विघ्नेशाय त्रिनेत्राय लम्बोदर नमोऽस्तु ते ॥ २४ ॥
गजाननाय देवाय देवानां पतये नमः ।
देवानां गर्वहन्त्रे च रक्षसां मर्दिने नमः ॥ २५ ॥
भक्तिप्रियाय भक्तेभ्यो नानासौख्यप्रदाय ते ।
अनन्ताननधारायानन्तहस्ताय ते नमः ॥ २६ ॥
अनन्तशिरसे तुभ्यं ब्रह्मभूताय वेधसे ।
शिवाय शिववन्द्याय शिवदाय नमो नमः ॥ २७ ॥
अखण्डविभवायैव मूषकध्वजिने नमः ।
मूषकश्रेष्ठवाहस्थायैकदन्ताय ते नमः ॥ २८ ॥
आदिमध्यान्तरूपाय सर्वाकाराय ते नमः ।
पाशाङ्कुशधरायैव सर्वभोक्त्रे नमो नमः ॥ २९ ॥
त्वां स्तोतुं कः समर्थः स्याद्योगाकारस्वरूपिणम् ।
अतोऽहं प्रणमामीह तेन तुष्टो भव प्रभो ॥ ३० ॥
धन्योऽहं सर्वभावैश्च येन दृष्टो गणेश्वरः ।
अधुना रक्ष मां भक्तं शरणागतवत्सल ॥ ३१ ॥
एवं स्तुवन्तमत्यन्तमुवाच गणनायकः ।
यमं परमभक्तं च सूर्यपुत्रं यशस्विनम् ॥ ३२ ॥
गणेश उवाच ।
वरं वृणु महाभाग यम त्वं मनसीप्सितम् ।
दास्यामि ते महाभक्त्या तोषितोऽहं न संशयः ॥ ३३ ॥
ततस्तं भानुजस्तत्रोवाच देहि गजानन ।
भक्तिं त्वदीयपादे वै सुदृढां मे महोदर ॥ ३४ ॥
अन्यं वरं च मे देहि मातृशापहरं परम् ।
यद्यदिच्छामि देवेश तत्तत् सिध्यतु विघ्नप ॥ ३५ ॥
एवं तस्य वचः श्रुत्वा तथेति गणपोऽब्रवीत् ।
मदीया ते महाभक्तिर्भविष्यति न संशयः ॥ ३६ ॥
मातृशापस्य योगेन किञ्चिद् दुःखमवाप्स्यसि ।
क्लेद्यपादाच्च मांसं ते कीटाः सङ्गृह्य सत्वरम् ॥ ३७ ॥
पतिष्यन्ति पृथिव्यां ते त्वं सुपादो भविष्यसि ।
यद्यदिच्छसि तत्तत्ते सुलभं प्रभविष्यति ॥ ३८ ॥
दक्षिणस्यां दिशि प्राज्ञ दिक्पालस्त्वं भविष्यसि ।
धर्मराज इति ख्यातो नाम्ना सर्वत्र पूजितः ॥ ३९ ॥
स्वधर्मपालकेषु त्वं श्रेष्ठो धर्मकरो मतः ।
जीवानां कर्मयोगेन फलदश्च भविष्यसि ॥ ४० ॥
त्वदीयाऽऽज्ञा त्रिलोकेषु वर्ततां धर्मभावतः ।
त्वया स्तोत्रमिदं पुण्यं कृतं तच्च सुसिद्धिदम् ॥ ४१ ॥
पठते शृण्वते पूर्णं भविष्यति न संशयः ।
यमस्य यातनां घोरां स्तोत्रेण प्रस्तुतो यम ॥ ४२ ॥
[[१२६]]
हरामि नात्र सन्देहोऽन्ते स्वानन्दं ददाम्यहम् ।
त्वया यत्र कृतं स्नानं नित्यं मद्भक्तिभाविना ॥ ४३ ॥
गणेशतीर्थसञ्ज्ञं तद्भविष्यति न संशयः ।
अत्रैव स्नानमात्रेण सर्वपापक्षयो भवेत् ॥ ४४ ॥
सुबुद्धिप्रदमेतच्च तत्क्षणात् प्रभविष्यति ।
एवमुक्त्वान्तर्दधेऽसौ यमस्तत्र स्थितोऽभवत् ॥ ४५ ॥
संस्थाप्य मूर्तिमचलां हेरम्बस्य महाद्विजैः ।
कुण्डं चकार भावेन गणेशपदलाञ्छितम् ॥ ४६ ॥
हेरम्बगणपो नाम्ना तत्र ख्यातो बभूव ह ।
यमः शापविहीनश्च बभूव स दिशोधिपः ॥ ४७ ॥
सदा गणपतिं चित्तेऽध्यायद्वै रविनन्दनः ।
समः सर्वत्र सञ्जातः सर्वमान्यो महायशाः ॥ ४८ ॥
एतत्ते कथितं दिव्यं चरित्रं कुण्डसम्भवम् ।
यमेन रचितं पुण्यं सर्वसिद्धकरं महत् ॥ ४९ ॥
एतद्यमस्य माहात्म्यं यः शृणोति नरोत्तमः ।
पठेद्वा शुभदं तस्मै सर्वदं प्रभविष्यति ॥ ५० ॥
अधुना शृणु दैत्येन्द्र प्रकृतं यत् कथानकम् ।
भ्रूशुण्डिनश्च पापघ्नं वाञ्छितार्थप्रदं परम् ॥ ५१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेद्वितीये खण्डे एकदन्तचरिते कुण्डसम्भवचरित्रं नामैकोनषष्टितमोऽध्यायः ॥